संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ पञ्चविंशोऽध्यायः

मयमतम्‌ - अथ पञ्चविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(मण्डपसभाविधानम्)

मण्डपविधानम्

देवानां द्विजभूमीशवैश्यानाम शूद्रजन्मनाम् ।

तत्तद्योग्यं यथायुक्त्या मण्डपं प्रविधीयते ॥१॥

मण्डपयोग्यदेशाः

प्रासादाभिमुखे पुण्यक्षेत्रे वारामके शुभे ।

ग्रामादिवस्तुमध्ये च चतुर्दिक्षु विदिक्ष्वपि ॥२॥

बाह्याब्यन्तरतो वाऽपि गृहाणां मध्यमे मुखे ।

मण्डपप्रयोजनम्

वासार्थमण्डपं चैव यागमण्डपमेव च ॥३॥

अभिषेकादियोग्यं च नृत्तमण्डपकं तथा ।

वैवाहिकं च मैत्रं च तथोपनयनार्हकम् ॥४॥

आस्थानमण्डपं चैव बलालोकनमण्डपम्

सन्धिकार्यार्हकं क्षौरं भुक्तिकर्मसुखान्वितम् ॥५॥

मण्डपनामानि

तेषां क्रमेण नामानि वक्ष्यन्ते विधिनाऽधुना ।

मेरुकं विजयं सिद्धं पद्मकं भद्रकं शिवम् ॥६॥

वेदं चालङ्‌कृतं दर्भं कौशिकं कुलधारिणम् ।

सुखाङ्गं सौख्यकं गर्भं माल्यं माल्याद्भुतं तथा ॥७॥

देवद्विजनरेन्द्राणां द्विरष्टचतुरस्त्रकम् ।

धनं सुभूषणाख्यं चाप्याहल्यं स्त्रुगकं तथा ॥८॥

कोणं च खर्वटं चैव श्रीरूपाख्यं च मङ्गलम् ।

एतान्यष्टौ सुरादीनां नृपाणामायतास्त्रकम् ॥९॥

मार्गं सौभद्रकंचैव सुन्दराख्यं तु मण्डपम् ।

साधारणं च सौख्यं च तथैवेश्वरकान्तकम् ॥१०॥

श्रीभद्रं सर्वतोभद्रमित्यष्टौ वैश्यशूद्रयोः ।

भक्तिमानं तथा पादायामं पादविशालकम् ॥११॥

अधिष्ठानं तदाधारं प्रपां मध्यमरङ्गकम् ।

अलङ्कारं क्रमाद् वक्ष्ये स्तम्भपक्षं तदाकृतम् ॥१२॥

भक्तिमानम्

सार्धहस्तं समारभ्य षट्‌षडङ्गुलवर्धनात् ।

पञ्चहस्तावधिर्यावत् त्रिः पञ्चैवाङ्‌घ्रिकान्तकम् ॥१३॥

अथ विस्तारभक्त्यैषामायामं प्रविधास्यते ।

एकद्वित्रिचतुश्पञ्चभागे भक्त्यन्तरे कृते ॥१४॥

एकभागेन वृद्धिः स्यादायामं स्वविशालतः ।

अथ स्वभक्तिविसृतात्त्रिमात्रर्द्ध्या करान्ततः ॥१५॥

आयाममष्टहा प्रोक्तं तेन मानेन योजयेत् ।

सायतं चापि तत् सर्वं तन्नाम्नैव प्रपद्यते ॥१६॥

स्तम्भमानम्

सार्धद्विहस्तमारभ्य षट्‌षडङ्गुलवर्धनात् ।

अष्टहस्तान्तमङ्‌घ्रयुच्चं त्रयोविंशत्प्रमाणकम् ॥१७॥

त्रित्र्यङ्गुलविवृद्ध्या वा स्तम्भोत्सेधाः प्रकीर्तिताः ।

अष्टाङ्गुलं समारभ्यैवार्धाङ्गुलवर्धनात् ॥१८॥

नन्दपङ्क्त्यङ्गुलं यावत् संख्यया पूर्ववत्ततिः ।

पादोच्चैरपि रुद्रांशधर्मनन्दाष्टभाजिते ॥१९॥

मूलतारं तु भागेन तत्तद्भागोनमग्रतः ।

अधिष्ठानोत्सेधः

पादोच्चार्धमधिष्ठानं सामान्यं सर्ववस्तुषु ॥२०॥

पादोच्चे पञ्चभागे तु द्विभागोच्चं तु वा तलम् ।

स्तम्भोत्सेधत्रिभागैकं वा मसूरकतुङ्गकम् ॥२१॥

उपपीठोत्सेधः

सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।

अधिष्ठानसमोच्चं वा द्विगुणं त्रिगुणं तु वा ॥२२॥

उपपीठविधाने तु यदुक्तं तेन वोन्नतम् ।

उपपीठसमुत्सेधं यथायुक्ति यथारुचि ॥२३॥

उपपीठतलस्तम्भप्रस्तरालंकृतिक्रमम् ।

प्राग्वदेव समुद्दिष्टं शेषं युक्त्या समाचरेत् ॥२४॥

मण्डपलक्षणम्

अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ।

कपोतप्रतिसंयुक्तं यत्तन्मण्डपमिष्यते ॥२५॥

मण्डपशब्दार्थः

मण्डं सुभूषणं तं पातीति मण्डपमिष्यते ।

प्रपालक्षणम्

सामान्यं सर्ववर्णानां प्रपारूपं वदाम्यहम् ॥२६॥

प्रपारूपाङ्गपादान्ते चोत्तरादूर्ध्ववंशकम् ।

प्राग्वंशमनुवंशं च नालिकेरदलादिभिः ॥२७॥

अन्यैरपि तथा पत्रैर्द्रव्यैः प्रच्छादिता प्रपा ।

प्राग्वदेवाङ्‌घ्रिकायामं चतुःषडष्टदशाङ्गुलम् ॥२८॥

पादविष्कम्भमेतेषां प्रमाणं सारदारुजम् ।

त्वक्सारं च यथालाभं तथा तत्र प्रयोजयेत् ॥२९॥

पादोच्चे पङ्क्तिनन्दाष्टसप्तषट्‌पञ्चभागिके ।

रङ्गलक्षणम्

वेदिकोच्चं तु भागेन मध्ये रङ्गं प्रयोजयेत् ॥३०॥

स्तम्भोत्सेधचतुर्भागे भागेनैव मसूरकम् ।

द्विभागं तलिपायामं भागेन प्रस्तरं भवेत् ॥३१॥

युग्मायुग्मद्विभक्त्यैकभक्त्या वा तद्विशालकम् ।

अष्टस्तम्भसमायुक्तं चतुःस्तम्भान्वितं तु वा ॥३२॥

प्रपादीनां तु संस्थानं यथा वा रङ्गमीरितम् ।

सर्वावयवसंयुक्तं मिश्रद्रव्यसमन्वितम् ॥३३॥

शालासभाप्रपाणां तु मण्डपानां तु मध्यमे ।

प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गमिष्यते ॥३४॥

मालिकामण्डपम्

मण्डपोपरि भूमिस्तु मालिकामण्डपं भवेत् ।

मण्डपोर्ध्वे सशिखरं द्वितलं यदि सम्भवम् ॥३५॥

मध्यस्थभूमिदेशत्वात् प्रतिमध्यं तदुच्यते ।

मेरुकम्

मेरुकं चतुरस्त्रं स्याच्चतुष्पादेकभक्तिकम् ॥३६॥

नासिकाष्टकसंयुक्तं ब्रह्मासनमिति स्मृतम् ।

विजयम्

द्विभक्तिचतुरस्त्रं तु विजयं नाम मण्डपम् ॥३७॥

अष्टपादसमायुक्तमष्टनास्या विभूषितम् ।

अधिष्ठानादिवर्गाढ्यं त्यक्तमध्यस्थपादकम् ॥३८॥

नवपादसमायुक्ता प्रपा कल्याणकारिता ।

सिद्धम्

त्रिभक्ति चतुरस्त्रं तु षोडशस्तम्भसंयुतम् ॥३९॥

नासिकाभिर्द्विरष्टाभिर्युक्तं मध्येऽङ्कणान्वितम् ।

मध्योर्ध्वकूटयुक्तं वा चतुर्द्वारसमन्वितम् ॥४०॥

चतुर्दिक्षु बहिर्द्वारे चतुस्तोरणभूषितम् ।

यागादिकर्मयोग्यं स्याद्देवद्विजमहीभृताम् ।

नाम्ना सिद्धमिति प्रोक्तं सर्वकर्मसु पूजितम् ॥४१॥

यागमण्डपम

कृत्वैकाशीतिभागान् निशितविपुलधीर्मण्डपाभ्यन्तरं त

न्मध्य वेदीनवांशा भवति हि परितस्त्रीणि भागानि मध्ये ।

अस्त्रं योन्यर्धचन्द्रं गुणभुजमपरं वै सुवृत्तं षडस्त्रं

पद्मं वस्वश्रकुण्डं सुरपतिभवनादिक्रमेणैव कुर्यात् ॥४२॥

कुण्डलक्षणम्

हस्तविस्तृतनिखातवच्चतुष्कोटिकं दिशि दिशि त्रिसूत्रकम् ।

सत्रिमेखलमथ द्विकं तु वा धातुभूतगुणमात्रकोन्नतम् ॥४३॥

व्यासमब्ध्यनलपक्षमात्रकैर्योनिमूर्ध्वत इभोष्ठवत् कुरु ।

तारदैर्घ्यकसमुद्गमं चतुःषण्मनोऽङ्गुलिइरग्निसम्मुखम् ॥४४॥

वेदबन्धनयनाङ्गुलोन्नतव्यासमेखलयुतं तु वा पुनः ।

तालगाढमथवैकमेखलं सर्वकुण्डकमकर्णयोनिकम् ॥४५॥

वृत्तसन्निभमथो तदाकृतिं वा युगेषुरसमात्रवैपुलम् ।

व्यासवेदगुणभागतुङ्गकं नाभिमब्जमिव कुण्डमध्यमे ॥४६॥

योनिकुण्डम्

न्यस्यैकांशं पञ्चभागे पुरस्तात् ।

कोणस्यार्धार्धं गृहीत्वा ततस्तत् ।

कोणं यावद् भ्रामयेत्तद्वदन्यद्

योन्याकारं स्याद् द्विसूत्रप्रयोगात् ॥४७॥

अर्धचन्द्रकुण्डम्

व्यासे धर्मांशेऽशमूर्ध्वादधस्तान्नीत्वैव ज्यासूत्रकं पातयित्वा ।

तन्मानेन भ्रामयेदर्धचन्द्रं कुण्डं युक्त्या वस्तुविद्याविधिज्ञैः ॥४८॥

त्र्यस्त्रकुण्डम्

क्षेत्रव्यासे षट्‌कृते चाष्टभागे

मानेनानेन त्रिसूत्रं न्यसेद्धि ।

वृत्तकुडम्

त्र्यक्षं प्रोक्तं द्विर्नावांशेऽशकं त

बाह्येन्यस्य भ्रामयेद् वृत्तकुण्डम् ॥४९॥

षट्‌कोणकुण्डम्

व्यासे बुद्ध्यंशेंऽशकं पार्श्वयोस्त

बाह्ये न्यस्यानेन मानेन दध्यात् ।

मत्स्यं कृत्वा युग्मयुग्मं द्विपार्श्वात्

षट्‌कोणं स्यात्पातयेत्सूत्रषट्‍कम् ॥५०॥

पद्मकुण्डम्

वृत्तं कृत्वा पूर्ववत्तस्य मध्ये

वृत्तं भ्राम्यं यत्र यन्मध्यतस्तत् ।

पद्मस्याकारं यथा कर्णिकादीन्

कुर्याद्विद्वान् पद्मकुण्डं क्रमेण ॥५१॥

अष्टास्त्रकुण्डम्

क्षेत्रव्यासे षट्‌चतुर्भागिकेऽस्मिन्

भागं बाह्ये न्यस्य सूत्रं समन्तात् ।

कोणस्यार्धं कोणकाभ्यां तु लेख्यं

ह्यष्टास्त्रंस्यादष्टसूत्रप्रयोगात् ॥५२॥

सप्तास्त्रकुण्डम्

तारे पङ्क्त्यंशेऽशकं न्यस्य बाह्ये वृत्तं भ्राम्यं क्षेत्रकेऽष्टाष्टभागे ।

सैकैर्वेदाष्टांशकैः पट्टदैर्घ्यं सप्तास्त्रं स्यात् सप्तसूत्रप्रयोगात् ॥५३॥

पञ्चास्रकुण्डम्

व्यासे सप्तांशेऽशकं न्यस्य बाह्ये वृत्तं भ्राम्यं क्षेत्रतारे युगांशे ।

पट्टायामं त्रिप्रभागैरनेन पञ्चास्त्रं स्यात् पञ्चसूत्रप्रयोगात् ॥५४॥

तत्तद्धेयोपात्तभागेषु तत्तद्भागं कृत्वा

प्रागिवैकैकभागे

न्यूनाधिक्येनास्त्रनाहस्य तुल्यं युक्त्या धीमान्

योजयेत्सर्वकुण्डम् ५५॥

भूते साङ्‌घ्रित्रिबीजं मुनिषु च नयनं षोडशेष्वंशयुक्तं

सत्र्यङ्‌घ्र्येकं नवांशे शिवपदविहिते सार्धकं सैकभानौ ।

साङ्‌घ्र्येकं बीजमेवोदितमथ तिथिके षोडशांशैकहीनं

सप्ताधिक्ये दशांशे नवदशपदकेऽष्टांशहीनं क्रमेण ॥५६॥

सिद्धम्

तदेव धाम्नामग्रे तु कर्तव्यं चेन्मसूरकम् ॥५७॥

स्तम्भप्रस्तरवर्गं च प्रासादाङ्गसमं मतम् ।

एकद्विद्वारयुक्तं वा कुड्यं कुम्भलतान्वितम् ॥५८॥

एकद्वित्रिगुणस्तम्भव्यासं मध्ये तु भद्रकम् ।

तोरणाढ्यं सुरोपेतसर्वावयवशोभितम् ॥५९॥

धाम्नस्तु भित्तिविष्कम्भसमं वार्धार्धहीनकम् ।

त्रिभागैकविहीनं तद्भित्तिविष्कम्भमिष्यते ॥६०॥

सान्तरालं सवेशं च सर्वेषां सद्मनां मुखे ।

पद्मकम्

चतुसस्त्रं चतुर्भक्त्या चतुर्द्वारसमन्वितम् ॥६१॥

मुखेऽमुखे द्विभक्त्यैकभक्त्या विस्तारनिर्गमम् ।

मध्यमस्तम्भकं त्यक्त्वैवोर्ध्वकूटं द्विभक्तिकम् ॥६२॥

षट्‌त्रिंशत्पादसंयुक्तं चतुस्सप्ताल्पनासिकम् ।

सोपानं स्याच्चतुर्दिक्षु लाङ्गलाकारभित्तिकम् ॥६३॥

पञ्जरैरष्टभिर्युक्तं पद्मकं पद्मकप्रभम् ।

स्नानार्थं तैतिलानां तु प्रासादाभिमुखे मतम् ॥६४॥

तदेवैकाननोपेतं मध्याङ्गणसमन्वितम् ।

यागादिकर्मयोग्यं स्यादिष्टतो दिशि वारणम् ॥६५॥

भद्रकम्

भद्रकं पञ्चभागेन चतुरस्त्रसमाकृति ।

मध्ये कूटं त्रिभागेन परितोंऽशेन मण्डपम् ॥६६॥

द्वात्रिंशत्पादसंयुक्तं चतुर्विंशतिनासिकम् ।

पञ्जरैरष्टभिर्युक्तं कुड्यं कुम्भलतान्वितम् ॥६७॥

चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलाभित्तिकम् ।

मध्यमेऽङ्गणयुक्तं वा त्रिभक्त्या विस्तृताङ्‌घ्रिकम् ॥६८॥

धाम्नः स्थलसमं तस्य पङ्‌क्त्यष्टांशोनमेव वा ।

नृत्तमण्डपमेतत् स्यात् स्नानार्थं वा तदेव हि ॥६९॥

शिवम्

षड्‍भक्ति चतुरस्त्राभं मध्येऽष्टस्तम्भकूटकम् ।

द्विभक्तिविस्तृतं चैकभक्त्या निष्क्रान्तवक्रकम् ॥७०॥

षष्यङ्‌घ्रिकसमायुक्तं त्यक्तमध्यस्थपादकम् ।

चतुर्विंशतिनास्यङ्गं सर्वालङ्कारंसंयुतम् ॥७१॥

शिवाख्यं मण्डपं सर्ववासे योग्यं सनातनम् ।

वेदम्

सप्तांशचतुरस्त्राभं षष्ट्यङ्‌घ्रिकसमावृतम् ॥७२॥

नवभागेन तन्मध्ये कूटं वा मण्डिताङ्गणम् ।

सद्वात्रिंशातिनास्यङ्गं चतुर्दिशि सवारणम् ॥७३॥

त्रिभागैकांशविस्तारनिर्गमं मुखभद्रकम् ।

मध्यरङ्गसमोपेतमिष्टदिग्गतभित्तिकम् ॥७४॥

आस्थानमण्डपं चैतत्तैतिलानां महीभृताम् ।

अभिषेकादिकार्येषु योग्यं वेदमिति स्मृतम् ॥७५॥

अलङ्‌कृतम्

अष्टभक्त्या युगास्त्रं स्यादशीतिपादसंयुतम् ।

चतुर्भागोर्ध्वकूटं तु द्विभागेन तु भद्रकम् ॥७६॥

चतुर्दिशि चतुर्द्वारं पार्श्वे सोपानसंयुतम् ।

सर्वालङ्कारसंयुक्तमलङ्‌कृतमिति स्मृतम् ॥७७॥

तदेव जलपादं तु ब्रह्मस्थलमितीष्यते ।

परितो वारमेकांशं द्व्यंशेनावृतमण्डपम् ॥७८॥

पूर्ववन्मुखभद्रं स्यादिष्टग्गतभद्रकम् ।

ब्रह्मस्थाने विधातव्यं ग्रामादीनां सनातनम् ॥७९॥

दर्भम्

नवभक्तियुक्तं सम्यक्‌ पङ्क्तिपङ्क्यघ्रिकान्वितम् ।

त्र्यंशैकविस्तृतं भद्रं चतुर्द्वारसमन्वितम् ॥८०॥

सोपानं प्रमुखे तस्य कर्णे लाङ्गलभित्तिकम् ।

नवरङ्गैलङ्कुर्यात् षडष्टैवाल्पनासिकम् ॥८१॥

नवब्रह्म सुपूज्यं तद् ग्रामवेश्मादिमध्यगम् ।

सर्वालङ्कारसंयुक्तं दर्भाख्यं तन्मनोहरम् ॥८२॥

कौशिकम्

दशांशचतुरस्त्राभं सद्वादशशताङ्‌घ्रिकम् ।

नवकूटसमायुक्तमेकैकांशान्तरालकम् ॥८३॥

एतत् कौशिकमित्युक्तं चतुरस्त्रं तु जातिकम् ।

नन्दमेकानने भद्रं द्विमुखं भद्रकौशिकम् ॥८४॥

त्रिमुखं जयकोशं स्यात् पूर्णकोशं चतुर्मुखम् ।

अधिष्ठानाङ्‌घ्रिवत् कर्णे लाङ्गलाकारभित्तिकम् ॥८५॥

सर्वालङ्कारसंयुक्तं षडष्टैवाल्पनासिकम् ।

कुलधारणम्

एकादशविभागेन समं तु चतुरस्त्रकम् ॥८६॥

परितो मण्डपं तस्य बाह्ये भागेन कारयेत् ।

चतुष्कर्णे द्विभागेन चतुष्कूटसमन्वितम् ॥८७॥

चतुर्दिग्द्वित्रिभक्त्या तु विपुलायतकोष्ठकम् ।

त्रिभक्तिचतुरस्त्रं तु मध्यरङ्ग्यूर्ध्वकूटकम् ॥८८॥

कूटशालान्तरे तस्य क्रकरीकृतमार्गकम् ।

जात्यादिमुखभद्राङ्गं सर्वावयवशोभितम् ॥८९॥

ऊर्ध्वे सभाङ्गनीडाङ्गं प्रस्तरं नवबोधकम् ।

विवृतं संवृतं वापि गुह्यागुह्यागुह्यार्थचरेत् ॥९०॥

कुलधारणमित्युक्तं समं तु चतुरस्त्रकम् ।

सुखाङ्गम्

भागैर्द्वादशभिर्युक्तं समं तु चतुरस्त्रकम् ॥९१॥

अष्टदिक्षु च मध्ये तु द्विभक्त्यैवोर्ध्वकूटकम् ।

तत्तद्वाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ॥९२॥

अङ्गणं वा सभास्थानं कर्णे लाङ्गलभित्तिकम् ।

चतुर्द्व्यंशेन विस्तारं निर्गमं स्याच्चतुर्दिशम् ॥९३॥

पार्श्वे सोपानसंयुक्तं पञ्जरैरष्टभिर्युतम् ।

षष्ट्युत्तरशतस्तम्भमाद्यङ्गे प्रविधीयते ॥९४॥

युक्त्या नास्यङ्गसंयुक्तं सुखाङ्गं नाम मण्डपम् ।

सौम्यम्

सौख्यं त्रयोदशांशेन चतुरस्त्रसमाकृति ॥९५॥

परितो मण्डपं द्व्यंशं भागेन क्रकरीपथम् ।

त्रिभागं मध्यरङ्ग्यर्ध्वकूट सस्थूपिनीव्रकम् ॥९६॥

चतुष्कर्णे द्विभागेन त्यक्तमध्याङ्‌घ्रिकूटकम् ।

दिक्षु द्वित्र्यंशविस्तारायामं कोष्ठचतुष्टयम् ॥९७॥

नन्दादिमुखभद्राङ्गमिष्टदिग्गतकुड्यकम् ।

चतुरशीतिभिर्युक्तं शतस्तम्भसमन्वितम् ॥९८॥

सर्वालङ्कारसंयुक्तं देवद्विजमहीभृताम् ।

गर्भम्

द्विःसप्तभक्तिविस्तारं समं तु चतुरस्त्रकम् ॥९९॥

द्विभक्त्या गर्भकूटं स्यादेकांशालिन्द्रमावृतम् ।

एकांशमन्तरालं स्यादप्रच्छन्नतलान्वितम् ॥१००॥

चतुष्कर्णे द्विभक्त्यैवमङ्गणं वोर्ध्वकूटकम् ।

द्विचतुर्विस्तृतायामं कोष्ठं वाङ्गणकं दिशि ॥१०१॥

तेषां बाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ।

इष्टदिक्कुड्यसंयुक्तमिष्टदिग्भद्रसंयुतम् ॥१०२॥

साष्टद्विशतपादं स्यादाद्यङ्गे तु विधीयते ।

देवद्विजनरेन्द्राणां गर्भाख्यं तन्मनोहरम् ॥१०३॥

माल्यम्

त्रिःपञ्चभक्तिविस्तारं समं तु चतुरस्त्रकम् ।

त्रिभागं मध्यरङ्ग्यूर्ध्वकूटं वाङ्गणमेव वा ॥१०४॥

परितोऽलिन्द्रमंशेन भागैकैनान्तरालकम् ।

शेषं पूर्ववदुद्दिष्टं कोष्ठकं भागतोऽधिकम् ॥१०५॥

द्वात्रिंशद्द्विशतं पादमाद्यङ्गे प्रविधीयते ।

सर्वालङ्कारसंयुक्तं माल्याक्यं मण्डपं भवेत् ॥१०६॥

माल्याद्भुतम्

माल्याद्भुतं समास्त्रं तु भागैः षोडशभिर्युतम् ।

द्विभक्त्यैवोर्ध्वकूटं तु भागेनालिन्द्रमावृतम् ॥१०७॥

द्व्येकभक्त्या मुखे भद्रं कर्णे लाङ्गलिभित्तिकम् ।

पार्श्वे सोपानसंयुक्तं चित्रप्रस्तरसंयुतम् ॥१०८॥

तद्बहिर्द्व्यंशमानेन जलपादं समन्ततः ।

तद्वाह्ये तु चतुर्भक्त्या परितो मण्डपं भवेत् ॥१०९॥

द्विभक्तिचतुरस्त्राभमेकांशं व्यवधानकम् ।

द्विरष्टाङ्गणतन्मध्ये परितः प्रविधीयते ॥११०॥

कर्णे लाङ्गलकुड्यं स्यादूर्ध्वे हाराभिमण्डितम् ।

चतुर्द्विभक्तिविस्तारनिर्गमं दिक्षु भद्रकम् ॥१११॥

पार्श्वे सोपानसंयुक्तं सर्वालङ्कारसंयुतम् ।

देवद्विजनरेन्द्राणां चतुरस्त्रं द्विरष्टधा ॥११२॥

इत ऊर्ध्वं द्विपार्श्वैकवृद्ध्या द्वात्रिंशदंशकम् ।

विस्तारं चतुरस्त्राभं मण्डपं कारयेद् बुधः ॥११३॥

विवृतं संवृतं वापि कुड्यस्तम्भं प्रयोजयेत् ।

यथायुक्ति यथाशोभं तथा कुर्याद् विचक्षणः ॥११४॥

एतेषामायतास्त्राभं मण्डपं प्रविधीयते ।

धनम्

त्रिभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ॥११५॥

पुरतो वारमेकांशं त्रिरष्टाङ्ग्‌घ्रिसमन्वितम् ।

विंशन्नास्यङ्गसंयुक्तं धनाख्यं तद्धनावहम् ॥११६॥

सुभूषणम्

विस्तारं चतुरंशैस्तु तस्माद् द्व्यंशाधिकायतम् ।

मण्डपं परितो भक्त्या शेषमङ्गणकं भवेत् ॥११७॥

द्विभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।

चतुरष्टाङ्‌घ्रिसंयुक्तमाद्यङ्गेषु बहिर्बहिः ॥११८॥

सर्वालङ्कारसंयुक्तं सुभूषणमिति स्मृतम् ।

आहल्यम्

पञ्चरक्त्या विशालं तु तस्माद् द्व्यंशाधिकायतम् ॥११९॥

मण्डपं परितोंऽशेन शेषं कूटं तु वाङ्गणम् ।

त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ॥१२०॥

आद्यङ्गमष्टपञ्चाङ्‌घ्रिसंयुक्तं तद् विचित्रकम् ।

सर्वालङ्कारसंयुक्तमाहल्यं सर्वदेशिकम् ॥१२१॥

स्त्रुगाख्यम्

षड्‌भक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ।

चतुर्द्विभक्तिकं दैर्घ्यव्यासमध्ये सभोदयम् ॥१२२॥

परितो मण्डपं द्व्यंशमिष्टदिङ्‌मुखभद्रकम् ।

षष्यङ्‌घ्रियुतमाद्यङ्गं युक्त्या नास्यङ्गसंयुतम् ॥१२३॥

सर्वालङ्कारसंयुक्तं स्त्रुगाख्यं तन्मनोहरम् ।

कोणम्

सप्तभक्त्या विशालं तु तस्माद् द्व्यंशाधिकायतम ॥१२४॥

त्रिभक्तिविस्तृतं पञ्चभक्तिदैर्घ्यं सभाङ्गणम् ।

परितो मण्डपं द्व्यंशमिष्टदिग्गतभित्तिकम् ॥१२५॥

त्रिभक्तिविस्तृतं भागनिर्गमं मुखभद्रकम् ।

युक्त्या नास्यङ्गसंयुक्तं द्विसप्तत्यङ्‌घ्रिकान्वितम् ॥१२६॥

सर्वालङ्कारसंयुक्तं कोणाख्यं मण्डपं भवेत् ।

खर्वटम्

अष्टभक्त्याविशालं तु तस्माद् द्व्यंशाधिकायतम् ॥१२७॥

द्विचतुर्भागविस्तारायामं मध्ये जलस्थलम् ।

परितोऽलिन्द्रमेकांशं बाह्ये द्व्यंशेन मण्डपम् ॥१२८॥

त्यक्तमध्याङ्‌घ्रिसंयुक्तमिष्टदिग्गतभित्तिकम् ।

साष्टषष्ट्यङ्‌घ्रिसंयुक्तं पूर्ववन्मुखभद्रकम् ॥१२९॥

प्रमुखे वारमेकांशं मुखं सोपानसंयुतम् ।

नानालङ्कारसंयुक्तं सुरादीनां तु खर्वटम् ॥१३०॥

श्रीरूपम्

नवभक्तिविशालं तु तस्माद् द्व्यंशाधिकायतम् ।

एकत्र्यंशं तु विस्तारायामं मध्ये जलस्थलम् ॥१३१॥

परितोऽलिन्द्रमेकाशं बाह्ये द्व्यंशेन मण्डपम् ।

त्यक्तमध्याङ्‌घ्रिसंयुक्तं बाह्ये वारं तु भागतः ॥१३२॥

षण्णवत्यङ्‌घ्रिसंयुक्तं यथेष्टं द्वारभित्तिकम् ।

वारयुक्तमवारं वा पूर्ववन्मुखभद्रकम् ॥१३३॥

नानावयवसंयुक्तं नाम्ना श्रीरूपमिष्यते ।

मङ्गलम्

पङ्क्तिभागविशालं तु तस्माद् द्व्यंशाधिकायतम् ॥१३४॥

द्विचतुर्भागविस्तारायामं मध्ये सभोदयम् ।

परितोऽलिन्द्रमेकाशं भागेन जलपातनम् ॥१३५॥

तद्वाह्ये द्व्यंशमानेन परितो मण्डपं भवेत् ।

स्तम्भं कुड्यं मुखं भद्रं यथेष्टं परिकल्पयेत् ॥१३६॥

अथवा मध्यकूटं चाप्यलिन्द्रं चापि पूर्ववत् ।

जलस्थलं विना सर्व मण्डपं परिकल्पयेत् ॥१३७॥

द्विभक्त्या चतुरस्त्रं तु षट्‌कूटं पार्श्वयोर्मतम् ।

द्विचतुर्भागविस्तारदैर्घ्यं कोष्ठं मुखेऽमुखे ॥१३८॥

कर्णे लाङ्गलकुड्यं वा परितः कुड्यमेव वा ।

विवृतं संवृत वाऽपि स्तम्भं तत्रैव योजयेत् ॥१३९॥

सर्वावयवसंयुक्तं मङ्गलाख्यं तु मण्डपम् ।

अष्टावेतानि चोक्तानि देवद्विजमहीभृताम् ॥१४०॥

पूर्वोक्तचतुरस्त्रातु भक्त्यैकया विवर्धनात् ।

यावद् द्विगुणमायामं तावद् दैर्घ्यं प्रयोजयेत् ॥१४१॥

स्तम्भकुड्यादिकं सर्वमलङ्कारं च तत्ततः ।

यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ॥१४२॥

अष्टावायतयुक्तानि वक्ष्यन्ते वैश्यशूद्रयोः ।

मार्गम्

द्विभक्तिविस्तृतं चैव विस्तारद्विगुणायतम् ॥१४३॥

त्रिःपञ्चाङ्‌‍घ्रिसमायुक्तं द्व्यंशैकं मुखभद्रकम् ।

पार्श्वे सोपानसंयुक्तं नासिकाख्यैरलङ्‌कृतम् ॥१४४॥

इष्टदिङ्‌मुखसंयुक्तं मार्गाख्यं मण्डपं मतम् ।

सौभद्रम्

त्रिभक्तिविस्तृतं तस्य विस्तारद्विगुणायतम् ॥१४५॥

चतुःसप्ताङ्‌घ्रिसंयुक्तं भक्त्या वारं तु तन्मुखे ।

द्विभक्तिविस्तृत भक्त्या निर्गमं मुखभद्रकम् ॥१४६॥

युक्त्या नास्यङ्‌घ्रिसंयुक्तं सौभद्रं तन्मनोहरम् ।

सुन्दरम्

चतुर्भक्त्या विशालं तु तस्माद् द्व्यंशाधिकायतम् ॥१४७॥

द्विचतुर्विस्तृतायामं कूटं मध्ये तु वाङ्गणम् ।

द्वात्रिंशाङ्‌घ्रिसमायुक्तं भक्त्या तन्मुखभद्रकम् ॥१४८॥

युक्त्या नास्यङ्‌घ्रिसंयुक्तं सुन्दराख्यं तु मण्डपम् ।

साधारणम्

पञ्चभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥१४९॥

द्विभक्तिविस्तृतं त्र्यंशदैर्घ्यं पार्श्वेऽङ्कणद्वयम् ।

षट्‌पञ्चाशद् भवेत् पादं वारमेकेन तन्मुखे ॥१५०॥

त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।

प्रमुखे तस्य सोपानं सर्वतः कुड्यसंयुतम् ॥१५१॥

युक्त्या नास्यङ्गसंयुक्तं साधारणमिति स्मृतम् ।

सौख्यम्

षड्‌भक्तिविस्तृतं तस्मात् त्रिभक्त्याधिकमायतम् ॥१५२॥

द्विपञ्चभागविस्तारायामं मध्ये सभोदयम् ।

परितो मण्डपं द्व्यंशं वारं भक्त्या तु तन्मुखे ॥१५३॥

पूर्ववन्मुखभद्रं तु नासिकाख्यैरलङ्‌कृतम् ।

षष्ट्यङ्‌घ्रिकसमायुक्तं सर्वावयवसंयुतम् ॥१५४॥

नाम्ना सौख्यमिति प्रोक्तं सर्वेषां तु सनातनम् ।

ईश्वरकान्तम्

सप्तभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥१५५॥

त्रिभागचतुरस्त्रं तु मध्ये कूटं तु वाङ्गणम् ।

तद्वाह्ये भागमानेन परितोऽलिन्द्रामिष्यते ॥१५६॥

द्विपञ्चविस्तृतायामं पार्श्वयोरङ्गणद्वयम् ।

बाह्ये मण्डपमेकाशं परितः कल्पयेद् बुधः ॥१५७॥

त्रिभक्त्यैकेन विस्तारनिर्गमं मुखभद्रकम् ।

चतुराशीतिकं पादमाद्यङ्गे प्रविधीयते ॥१५८॥

प्रमुखे वारमेकांशं नानावयवशोभितम् ।

सर्वालङ्कारसंयुक्तमेतदीश्वरकान्तकम् ॥१५९॥

श्रीभद्रम्

अष्टभक्त्या विशालं तु तस्मात पूर्ववदायतम् ।

द्विभक्ति चतुरस्त्रं तु मध्ये कूटं तु वाङ्गणम् ॥१६०॥

तद्वाह्ये भागमानेन परितोऽलिन्द्रमिष्यते ।

पूर्ववत् पार्श्वयोः कूटं द्व्यंशेनाधिकमायतम् ॥१६१॥

द्विभक्त्या मण्डपं बाह्ये परितः कल्पयेद् बुधः ।

चतुर्द्विभक्तिविस्तारनिर्गमं मुखभद्रकम् ॥१६२॥

दशाधिकशतस्तम्भमाद्यङ्गे प्रविधीयते ।

सर्वालङ्कारसंयुक्तं श्रीभद्रं सर्वयोग्यकम् ॥१६३॥

सर्वतोभद्रम्

नवभक्त्या विशालं तु तस्मात् पूर्ववदायतम् ।

त्रिभक्तिचतुरस्त्रं तु मध्ये कूटं तु वाङ्ग्णम् ॥१६४॥

तद्वाह्ये भागमानेन परितोऽलिन्द्रमिष्यते ।

द्विपञ्चभक्तिविस्तरदैर्घ्यं पार्श्वेऽङ्गणद्वयम् ॥१६५॥

परितो मण्डपं द्व्यंशं तद्वाह्ये योजयेद्बुधः ।

पञ्चद्व्यंशविशालायामेन भद्रं मुखेऽमुखे ॥१६६॥

त्र्यंशैकविपुलं दैर्घ्यं पार्श्वयोर्भद्रकद्वयम् ।

कर्णे लाङ्गलवत् कुड्यं विवृतस्तम्भसंयुतम् ॥१६७॥

साष्टाविंशच्छतं पादमाद्यङ्गे प्रविधीयते ।

यथायुक्ति यथायोगं तथा युञ्जीत बुद्धिमान् ॥१६८॥

सर्वतोभद्रकं नाम्ना सर्वालङ्कारसंयुतम् ।

एतान्यदि सुरादीनां योजयेत्तु विचक्षणः ॥१६९॥

मण्डपमुखायामः

मण्डपानां तु विस्तारादायामं प्रविधीयते ।

जातिरूपं तु पुर्वोक्तं छन्दमेकं द्विभक्तिकम् ॥१७०॥

विकल्पं त्र्यंशकं प्रोक्तमाभासं चतुरस्त्रकम् ।

दण्डकं स्वस्तिभद्रं च पद्मं क्रकरभद्रकम् ॥१७१॥

षण्मुखं लाङ्गलं मौलिं जातिनामानुसारतः ।

प्रपामण्डपजातिस्तु युक्तितः पादसंयुता ॥१७२॥

पुनः मण्डपभेदाः

गृहविन्यासरङ्गाङ्गं तदुक्तं गृहमण्डपम् ।

प्रासादगर्भनालीवत् सालिन्द्राङ्गविशेषतः ॥१७३॥

अधिष्ठानादिवर्गाढ्यं प्रासादाकारमण्डपम् ।

प्रासादगृहसाङ्गङ्गं गृहप्रासादमण्डपम् ॥१७४॥

मण्डपोपरि भूमिश्चेन्मालिकामण्डपं मतम् ।

इष्टकाभिः शिलाभिर्वा दारुभिर्दन्तलोहकैः ।

सर्वत्र द्रव्यजातीनां मिश्र मिश्रं विशेषितम् ॥१७५॥

जलक्रीडामण्डपम्

सायतं तु चतुरस्त्रकं जलक्रीडयान्वितमथापि मण्डपम् ।

एकभौमकमनेकभौमकं योजनीयमवनीपतीच्छया ॥१७६॥

संवृतं विवृतमङ्‌घ्रिभित्तिकं दिक्षु दिक्षु गतभद्ररूपकम् ।

मध्यरङ्गसहितं तु वाङ्गणं स्तम्भभित्तिकमुपर्युपर्यपि ॥१७७॥

गुह्यवारापराधिरोहणं द्वारि तत्र बहुयन्त्रकल्पकम् ।

वारोगर्भगजभूतहंसकं व्यालसिंहकपिसालभञ्जिकम् ॥१७८॥

हर्म्यमण्डपसभाभशीर्षकं कूटनीडगजतुण्डकोष्ठकम् ।

तोरणादिबहुजालकैर्युतं नासिकादिभिरलङ्‌कृतं पुनः ॥१७९॥

मण्डपस्य पुरतोऽथ मध्यमे वा जलाशयमनेकयन्त्रकम् ।

इष्टकाभिरुपलैरलङ्‌कृतं सावगूढमपगूढवारिणाम् ॥१८०॥

एवं भूपानां जलक्रीडनार्थं प्रोक्तं यत्तन्मण्डपं रम्यदेशे ।

सालङ्कारं सर्वचित्रैर्विचित्रं स्त्रीसौभाग्यारोग्यभोग्यप्रदायि ॥१८१॥

मण्डपयोग्यवृक्षाः

खदिरः खादिरो वह्निर्निम्बः सालः सिलिन्द्रकः पिशितः ।

तिन्दुकमथ राजादनहोममधूकास्तु पादपादपकाः ॥१८२॥

एतेदेवद्विजनृपयोग्याः स्युः सर्वकर्मसु वै ।

स्तम्भाकृतयः सर्वे प्रोक्ताः पूर्वोदितास्तेषाम् ॥१८३॥

पिशितस्तिन्दुकवृक्षो निम्बो राजादनो मधूकश्च ।

सिलिन्द्रः स्तम्भरुजा वैश्यानां चापि शूद्राणाम् ॥१८४॥

वृत्तं वा चतुरस्त्रं वाष्टास्त्रं षोडशास्त्रं च ।

स्तम्भाकृतयः प्रोक्तास्त्वक्साराः सर्वयोग्याः स्युः ॥१८५॥

तालं च नालिकेरं क्रमुक वेणुश्च केतकी चैव ।

इष्टशिलाभिर्वा वृक्षैर्देवद्विजमहीपानाम् ॥१८६॥

आश्रमिणामप्युदितान्यावासानि हि सर्वाणि ।

नैव शिलाभिर्वणिजां शूद्राणां वासके योग्यम् ॥१८७॥

मुखमण्डपानि

प्रासादाभिमुखे यान्यवरस्य श्रेष्ठमण्डपानि च वै ।

तानि विमानाद्यङ्गस्तम्भोत्तरवाजनानि सदृशानि ॥१८८॥

अथ मुनिवसुनन्दांशैर्धर्मांशैकांशहीनानि ।

पूर्वोदितमानानि हि सर्वाण्यङ्गानि वा विधेयानि ॥१८९॥

आख्यातं मण्डपानां तान्येवोक्तानि दिक्प्रमाणं च ।

पञ्चचतुस्त्रिद्विगुणस्तम्भव्यासेन भित्तिविष्कम्भम् ॥१९०॥

दारुस्तम्भव्यासात् पादोनं वा त्रिभागमर्धोनम् ।

कुड्यस्तम्भविशालं तेन विशालेन वा कुड्यम् ॥१९१॥

मण्डपगर्भस्थानम्

मध्याङ्गणस्य दिशि दक्षिणतोऽङ्‌घ्रिमूले

द्वारस्य दक्षिणयुते तलिपे तु केचित् ।

कोणे द्वितीयचरणान्वितके त्रिगर्भ-

स्थानं वदन्ति मुनयः खलु मन्डपानाम् ॥१९२॥

अलिन्द्रम्

उक्तव्यासायामभागादलिन्द्रं

पूर्वेऽपूर्वे वाऽथ भक्त्या समन्तात् ।

भक्त्या वाध्यर्धः समन्तात्तु कुर्याद्‌

देवानामुर्वीसुरोर्वीश्वराणाम् ॥१९३॥

मालिका

प्रासादाङ्गं मालिकाङ्गं यथावत्

कुर्यात् कुड्यं मूलकुड्योपरिष्टात् ।

पादं पादानामुपर्येव योज्य-

मेकद्वित्रीण्यत्र भौमानि युक्त्या ॥१९४॥

तत्तद्विस्तारायतांशैर्विधिज्ञै-

स्तेषां मानं पादबाह्ये तु केचित् ।

केचिद्‌ भित्तेमध्यमं तद्वदन्ति

शालाकारं वा सभाशीर्षकाङ्गम् ॥१९५॥

यत्तत् कुर्यान्मण्डपं वासयोग्यम् ॥१९६॥

एकद्वित्रिचतुर्मुखानि च मुखे भद्राण्यभद्राणि का-

न्यूर्ध्वे कूटयुतानि मध्यकपदे रङ्गाङ्गण्याढ्यानि वै ।

सर्वाण्यायतमण्डपानि चतुरस्त्राभाणि वेदद्विज-

क्षोणीशायतने मतानि च विशां शूद्रेषु दीर्घं मतम् ॥१९७॥

सभाविधानम्

तत्र सभाभेदाः

नवानां हि सभानां तु लक्षणं वक्ष्यतेऽधुना ।

आद्यं मल्लवसन्तं तत्परं पञ्चवसन्तकम् ॥१९८॥

एकवसन्तकं चैव सर्वतोभद्रकं तथा ।

पार्वतं कूर्मकं चैव माहेन्द्रं सोमवृत्तकम् ॥१९९॥

शुकविमानकं चैव श्रीप्रतिष्ठितमेव च ।

नवैताः सायताः पञ्चसभाः शेषा युगास्त्रकाः ॥२००॥

एकद्वित्रिचतुर्भागा व्यासा आद्या नृदेवयोः ।

व्यासायाममलङ्कारं स्तम्भानां भित्तिमानकम् ॥२०१॥

प्राग्वत् सर्वमलङ्कारं दण्डिकान्तविमानवत् ।

लुपाक्रियाक्रमं सर्वं यथा शिखरलक्षणे ॥२०२॥

कूटलक्षणम्

कर्णरश्मियुता कूटसंज्ञा वेदास्त्रका सभा ।

वलक्षितस्वस्तिहीना कर्णाः कूटे च कोष्ठके ॥२०३॥

मल्लवसन्तम्

एकभक्त्या चतुःस्तम्भा लुपाकोट्येककूटकम् ।

अष्टपुच्छवलक्षं तु नाम्ना मल्लवसन्तकम् ॥२०४॥

पञ्चवसन्तकम्

द्विभक्तिचतुरं चाष्टस्तम्भदीर्घलुपान्वितम् ।

वसुस्वस्तिवलक्षं तु मूलकूटं तु मध्यकम् ॥२०५॥

चतुष्कर्णे चतुष्कूटा संज्ञा पञ्चवसन्तकम् ।

एकवसन्तकम्

त्रिभक्तिचतुरस्त्रं तु द्वादशस्तम्भसंयुतम् ॥२०६॥

द्विरष्टस्वस्तिपुच्छं तु सत्रयोदशकूटकम् ।

त्रिरष्टकवलक्षं तु स्यान्नाम्नैकवसन्तकम् ॥२०७॥

सर्वतोभद्रम्

युगभक्तियुगास्त्रं तु द्विरष्टाङ्‌घ्रिबहिस्ततः ।

अन्तःस्तम्भकलार्धं तु कलार्धं प्रांशुरश्मयः ॥२०८॥

अष्टद्विगुणकूटं तु त्रिरष्टस्वस्तिपुच्छकम् ।

षडष्टैववलक्षं तु मूलकूटमथैककम् ॥२०९॥

सर्वतोभद्रकं नाम्ना चतस्त्रश्चतुरस्त्रकम् ।

पार्वतकूर्मकम्

आयतास्त्रं चतुष्पञ्चभक्त्या पार्वतकूर्मकम् ॥२१०॥

अष्टादशदशाङ्‌घ्रि स्याद्‌ बाह्येऽबाह्येऽष्टरश्मयः ।

द्विरष्टसप्तकूटानि षड्‌द्विसप्तबहिर्बहिः ॥२११॥

चतुष्षष्टिवलक्षानि चतुष्कोष्ठद्विरष्टकम् ।

माहेन्द्रम्

चतुष्षड्‌भक्तिविस्तारं दैर्घ्यं विंशतिपादकम् ॥२१२॥

अन्तर्द्वादशपादं स्यादन्तःकूटं तथाष्टकम् ।

बहिर्द्विरष्टकूटं स्याद्‌ षोडशप्रांशुरश्मयः ॥२१३॥

त्रिष्टस्वस्तिकं चैव मूलकूटत्रिकं भवेत् ।

साशीतिकवलक्षं तु नवत्रिंशतिकूटकम् ॥२१४॥

अन्तराङ्‌घ्रिविहीनं तु भक्त्या तत्रैव योजयेत् ।

नाम्ना माहेन्द्रकं प्रोक्तं राज्ञां प्राज्ञैर्मुनीश्वरैः ॥२१५॥

सोमवृत्तम्

व्यासायाम्यं चतुःसप्तभक्त्यान्तर्मनुपादकम् ।

बाह्ये द्वाविंशतिस्तम्भं त्रिरष्टं स्वस्तिपुच्छकम् ॥२१६॥

षोडश प्रांशुरश्मिः स्यान्नवतिषड्‌वलक्षकम् ।

मूलान्तर्बाह्यकूटनि चतुर्दशनवद्वयम् ॥२१७॥

चतस्त्रः कोटयः कर्णधारासप्तकविग्रहाः ।

तदन्तर्द्धिनकं सोमवृत्तं नाम्ना समीरितम् ॥२१८॥

शुकविमानम्

पञ्चाष्टभक्तिविस्तारं दैर्घ्यं षड्‌विमंशदङ्‌घ्रिकम् ।

अष्टादशाङ्‌घ्रिकं चान्तश्चतुष्कोटिसमन्वितम् ॥२१९॥

द्वात्रिंशत् स्वस्तिकं चैव द्विसप्ततिवलक्षकम् ।

चतुष्कूटयुतं मूर्ध्नि द्विरष्टप्रांशुरश्मयः ॥२२०॥

अन्तर्बहिस्तु कूटानि त्रिरष्टैकादशद्वयम् ।

कर्णधाराष्टसंयुक्तं नाम्ना शुकविमानकम् ॥२२१॥

श्रीप्रतिष्ठितम्

पञ्चभक्त्या विशालं तु नवभक्त्या तदायतम् ।

अष्टाविंशतिगात्राणि द्वात्रिंशत् स्वस्तिपुच्छकम् ॥२२२॥

अन्तर्विंशतिकं स्तम्भं मध्यरश्मि तथैव च ।

पञ्चकूटयुतं मूर्ध्नि चतुष्कोटिसमन्वितम् ॥२२३॥

षष्ट्युत्तरशतं तत्र वलक्षं प्रविधीयते \

द्विपञ्चाशं तु कूटानि नाम्नैतच्छ्रीप्रतिष्ठितम् ॥२२४॥

तदेव व्यासायामे तु भक्तित्रयविवर्धनात् ।

चतुश्शालायतास्त्राभा द्विषड्‌द्विरष्टपादकाः ॥२२५॥

अन्तर्बहिस्तु भक्त्या च वारं शाला द्विभक्तिका ।

चतुर्द्विसप्ततिस्तम्भमन्तर्बाह्ये तु कीर्तितम् ॥२२६॥

प्रासादवदलङ्‌कृत्वा चतुर्द्वारद्विचूलिकम् ।

भूपतेः श्रीप्रतिष्ठा स्यात् सभेयं श्रीप्रतिष्ठितम् ॥२२७॥

एकैकभागवृद्ध्या तु भवत्युक्तेतरा सभा ।

छन्दं विकल्पमाभासं तत्तन्नाम्ना विधीयते ॥२२८॥

स्तम्भरश्मिवलक्षं च कूटं युक्त्या प्रयोजयेत् ।

यथारुचि यथाशोभं व्यासायामे तु भक्तयः ॥२२९॥

प्रांशुरश्मियुतं कूटं कूटं वा चतुरस्त्रकम् ।

दण्डिकानिर्गमसमो पूर्वपादोत्तरोद्गमः ॥२३०॥

तुलाश्रप्रस्तरांशेन चूलिकाभागलम्बिकम् ।

ऋजु वा स्वस्तिकं ज्ञेयं वलक्ष्याय प्रवेशिता ॥२३१॥

शिखावर्गं तथा सर्वे निष्कूटं च कचग्रहा ।

चूलिकाद्वयमध्यस्था नाम्ना स्याद्वर्णपट्टिका ॥२३२॥

वलयं त्रिगुणं व्यासाद्‌ बाहुल्या लुपया समा ।

लुपापार्श्वद्वयारूढा वलयप्रोक्तनालिका ॥२३३॥

प्रतिचूलिकविन्यासा मुद्गरालम्बना स्थिरा ।

प्रतिलोमानुलोमाभ्यामङ्कणास्ते वलक्षका ॥२३४॥

द्विकोटिसङ्गममखे वेशगर्भप्रदक्षिणे ।

प्रथमं स्तम्भनीया च शिल्पिकर्ता विधीयते ॥२३५॥

पादबन्धमधिष्ठानं स्तम्भायामार्धमिष्यते ।

अनुक्तं यदि किञ्चित्तद्भक्त्या तत्र प्रयोजयेत् ॥२३६॥

हलाङ्गवत्कुड्ययुता सरङ्गका

विरङ्गका वाप्यथ गर्भगेहका ।

सभेति सभ्यैरुदिता सनातना

सभालयत्वादिह सभ्यमार्गणम् ॥२३७॥

इति मयमते वस्तुशास्त्रे मण्डपसभाविधानो

नाम पञ्चविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP