TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ चतुर्विंशोऽध्यायः

मयमतम् - अथ चतुर्विंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

अथ चतुर्विंशोऽध्यायः

(गोपुरविधान)

अधुना गोपुराणां तु लक्षणं वक्ष्यते क्रमात् ।

क्षुद्राल्पमध्यमुख्यानां हर्याणां स्वप्रमाणतः ॥१॥

पञ्चविधगोपुरमान

मूलप्रासादविस्तारे सप्ताष्टनवभागिके ।

दशैकादशभागे तु तत्तदेकांशहीनक ॥२॥

द्वारशोभादिविस्तारं गोपुरान्तं यथाक्रम ।

क्षुद्राल्पयोः समुद्दिष्टं मध्यानां प्रविधीयते ॥३॥

मूलधानस्तु विस्तारे चतुष्पञ्चषडंशके ।

सप्ताष्टांसे च भागोनं गोपुरान्तं यथाक्रम ॥४॥

द्वारशोभादिविस्तारं पञ्चधा परिकीर्तित ।

त्रिभागैकांशमध्यं च द्विभागं स्यात्त्रिभागिके ॥५॥

चतुर्भागे त्रिभागं तु पञ्चांशे चतुरंशक ।

द्वारशोभादिविस्तारं गोपुरान्तं क्रमेन तु ॥६॥

उत्तमानामिदं प्रोक्तं हस्तैरप्यथ वक्ष्यते ।

द्विहस्तादि द्विरष्टान्तमेकारत्निविवर्धनात् ॥७॥

एकैकं त्रिविधा मानं द्वारशोभादिपञ्चसु ।

त्रिहस्तादेकत्रिंशान्तं द्विद्विहस्तविवर्धनात् ॥८॥

प्रोक्तं त्रिः पञ्चधा मानं द्वारशोभादिपञ्चके ।

नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥९॥

सप्तत्रिंशत्करं यावत् पञ्चपङ्क्तिप्रमाणक ।

शोभादिगोपुराणां च विस्तारं परिकीर्तित ॥१०॥

पञ्चविधगोपुर

द्वारशोभा द्वारशाला द्वारप्रासादहर्यके ।

गोपुरेण तु पञ्चैते द्वारशोभादिपञ्चसु ॥११॥

अथवा हस्तमानेन विस्तारं परिगृह्यता ।

त्रिपञ्चसप्तनन्दैकादशारत्नैर्विवर्धनात् ॥१२॥

पञ्चमानं द्विरत्निभ्यां पञ्चस्वेकस्य समत ।

पञ्चसप्तत्रिस्त्र्येकादशत्रयोदशमानतः ॥१३॥

प्रथमावरणे द्वारशोभाव्यासस्तु पञ्चधा ।

त्रिपञ्चाद्यात्रयोविंशद्‌ द्वारशालाविशालता ॥१४॥

पञ्चपञ्चकराद्‌ यावत् त्रयस्त्रिंशत्करान्तक ।

द्वारप्रासादविस्तारं पञ्चधा परिकीर्तित ॥१५॥

पञ्चत्रिंशत्कराद्‌ यावत् त्रिचत्वारिंशदन्तक ।

द्वारहर्यस्य विस्तारं पञ्चभेदमथोच्यते ॥१६॥

नवपञ्चकराद्‌ यावत् त्रिपञ्चाशत्करान्तक ।

पञ्चधा विपुलं प्रोक्तं गोपुरस्य मुनीश्वरैः ॥१७॥

चक्रवर्तिमहाराजवेश्मन्यप्येवमूह्यता ।

सार्धं त्रिपादं द्विगुणं त्र्यंशैकद्व्यंशमायत ॥१८॥

शोभादिनां तु पञ्चानां द्वाराणामुदितं ततः ।

तेषामेवं क्रमाद्‌ व्यासादुत्सेधं पृथगुच्यते ॥१९॥

सप्तांशे च दशांशं च चतुरंशे षडंशक ।

सप्तभागं चतुर्भागं त्रित्रिभागं तु पञ्चके ॥२०॥

द्विगुणं तु यथासंख्यं द्वरायतनतुङ्गता ।

गोपुरस्य तु विस्तारत्रिभागादेकभागिक ॥२१॥

चतुर्भागैकभागं च पञ्चभागाद्विभागिक ।

निर्गमं गोपुराणां तु प्राकाराद्भित्तिबाह्यतः ॥२२॥

द्वारमान

मूलं सार्धं तु पादोनद्विहस्तं तु द्विहस्तक ।

तत्तत्षडङ्गुलैर्नन्दमात्रैर्द्वादशमात्रकैः ॥२३॥

वृद्ध्या पञ्चकरान्तं तु सप्तान्तं तु नवान्तक ।

द्वारं त्रिःपञ्चधामानमेकैकं तु पृथक्‌ पृथक्‌ ॥२४॥

क्षुद्रे मध्ये वरे द्वारविस्ताराः परिकीर्तिताः ।

तत्तद्वैपुल्यवशतस्तत्तदुत्सेधमुच्यते ॥२५॥

पञ्चांशेभ्यश्च सप्तांशं सप्तांशेभ्यो दशांशक ।

द्विगुणार्धाधिकं पादाधिकं पञ्चोच्छ्रयाः स्मृताः ॥२६॥

अधिष्ठानादिमान

मूलवस्तु निरीक्ष्यैव पादाधिष्ठानतुङ्गता ।

चतुष्पञ्चर्तुसप्ताष्टनन्दपङ्क्तीशभानुषु ॥२७॥

भागेष्वेकैकभागोनं स्वाधिष्ठानान्ततुङ्गक ।

शेषं तदुपपीठं स्यात् पादबन्धं मसूरक ॥२८॥

प्रासादस्तभमानं वा वसुभागोनमेव वा ।

नन्दपङ्‌क्त्यंशहीनं वा गोपुरस्तभतुङ्गक ॥२९॥

छेदयेत्तदधिष्ठानं होमान्तं खातपादक ।

उत्तरान्तं समुत्सेधं तदर्धं द्वारविस्तृत ॥३०॥

प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ।

गोपुरभेदाः

श्रीकरं रतिकान्तं च कान्तविजयमेव च ॥३१॥

विजयविशालकं चैव विशालालयमेव च ।

विप्रतीकान्तं श्रीकान्तं श्रीकेशं च तथा पुनः ॥३२॥

केशविशालकं स्वस्तिकं दिशास्वस्तिकमेव च ।

मर्दलं मात्रकाण्डं च श्रीविशालं चतुर्मुख ॥३३॥

एते पञ्चदश प्रोक्ता गोपुरस्याभिधानकाः ।

एकादिपञ्चभूयन्तं शोभाद्यल्पप्रमाणक ॥३४॥

द्वितलाद षट्‌तलान्तं मध्यमक्रममुच्यते ।

त्रितलात् सप्ततलपर्यन्तं चोत्तममुच्यते ॥३५॥

सोपपीठमधिष्ठानं पादोच्चमुत्तरान्तक ।

शेषं तत्सूथपिपर्यन्तं भागमानं विधीयते ॥३६॥

एकतलगोपुर

स्थूप्यन्तमुत्तरान्तं च षड्‌भागं विभजेत्समम‍ ।

सपादभागमञ्चोच्चं कन्धरोच्चं तदंशक ।

सत्रिपादद्विभागं तु शिरःशेषं शिखोदय ॥३७॥

एवमेकतलं प्रोक्तं द्वितले भागमुच्यते ।

द्वितलगोपुर

उत्तरादिशिखान्तं यन्नवधा विभजेत् सम ॥३८॥

सपादभागमञ्चोच्चं द्व्यंशार्धं चरणायत ।

भागैकं प्रस्तरोत्सेधमेकांशं कन्धरोदय ॥३९॥

सार्धद्व्यंशं शिरस्तुङ्गं शेषभागाशिखोदय ।

एवं द्वितलमाख्यातं त्रितले भागमुच्यते ॥४०॥

त्रितलगोपुर

स्थूप्यन्तमुत्तरान्तं च कृत्वोच्चं द्वादशांशक ।

सर्पादांशं कपोतोच्चं द्व्यंशार्धं चरणायत ॥४१॥

भागैकं प्रस्तरोत्सेधं द्विभागं पाददैर्घ्यक ।

त्रिपादं तत्कपोतोच्चमंशं ग्रीवोदयं भवेत् ॥४२॥

सार्धद्वयंश शिरस्तस्माच्छेषं स्थूप्युच्छ्रयं भवेत् ।

एवं त्रितलमाख्यातं चतुर्भौममथोच्यते ॥४३॥

चतुस्तलगोपुर

उत्तरादिशिखान्तं यन्मानमष्टादशांशक ।

सत्रिपादांशकं मञ्चं त्रिभागं तलिपायत ॥४४॥

सार्धांशं प्रस्तरोच्चं स्याद्‌ द्व्यंशं सार्धं पदोदय ।

सपादभागं मञ्चोच्चं द्व्यंशं स्यात् स्तभदैर्घ्यक ॥४५॥

मञ्चमंशं गलं भागं त्रिभागं शिखरोदय ।

शेषभागं शिखामानं पञ्चभौममथोच्यते ।

पञ्चतलगोपुर

स्थूप्यन्तमुत्तरान्तं च त्रयोविंशतिभागिक ॥४६॥

द्विभागं प्रस्तरोच्चं स्यात्त्र्यंशार्धं चरणायत ।

पादोन द्व्यंशकं मञ्चं पादायामं त्रियंशक ॥४७॥

सार्धांशमुर्ध्वमञ्चोच्चं द्व्यंशार्धं पाददैर्घ्यक ।

सपादांशं कपोतोच्चं द्व्यंशं स्यात्तलिपायत ॥४८॥

प्रस्तरोच्चं तु भागेन कन्धरं भागमिष्यते ।

द्व्यंशार्धं शिखरोत्सेधं शेषं स्थूप्युच्छ्रयं भवेत् ॥४९॥

षट्‌तलगोपुर

उत्तरादिशिखान्तं स्यादेकोनत्रिंशदंशक ।

द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकैः ॥५०॥

पादोनद्व्यंशकं मञ्चं त्र्यंशार्धं पाददैर्घ्यक ।

सत्रिपादांशकं मञ्चं त्रिभागं तलिपायत ॥५१॥

सार्धांशं प्रस्तरोत्सेधं द्व्यंशार्धं पाददैर्घ्यक ।

सपादांशं कपोतोच्चमूर्ध्वभागं द्विभागतः ॥५२॥

प्रस्तरोच्चं तु भागेन कन्धरं तत्समं भवेत् ।

सार्धंद्व्यंशं शिरस्तस्माच्छेषभागं शिखोदय ॥५३॥

एवं तु षट्‌तलं प्रोक्तं सप्तभौममथोच्यते ।

सप्ततलगोपुर

उत्तरादिशिखान्तं यन्मानं षट्‌त्रिंशदंशक ॥५४॥

मञ्चं साङ्‌घ्रिद्वयं सार्धवेदांशं पाददैर्घ्यक ।

द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशक ॥५५॥

सत्रिपादांशकं मञ्चं त्र्यंशार्धं चरणायत ।

पादोनद्व्यंशमञ्चोच्चं त्रिभागं पाददैर्घ्यक ॥५६॥

सार्धांशं प्रस्तरोच्चं तु द्व्यंशार्धं तलिपायत ।

सपादभागमञ्चोच्चमूर्ध्वपादं द्विभागिक ॥५७॥

कपोतोच्चं तु भागेन तत्समं कन्धरोदय ।

सत्रिपादाश्विनीभागं शिरःशेषं शिखोदय ॥५८॥

एवं भागानि कर्तव्यान्युर्वीसंख्याक्रमेण तु ।

गोपुरविस्तारमान

विस्तारे पञ्चभागे तु नालीगेहं त्रियंशक ॥५९॥

शेषं तु भित्तिविष्कभमेकभूमेर्विधीयते ।

विस्तारे सप्तभागं स्याद्गर्भगेहं युगांशक ॥६०॥

शेषं तु भित्तिविष्कभमेकांशं कूटविस्तृत ।

कोष्ठकं त्र्यंशकं तारे पञ्चांशं स्यात्तदायते ॥६१॥

कूटकोष्ठकयोर्मध्ये पञ्जरादिविभूषित ।

एवं द्वितलमुद्दिष्टं त्रितलस्य विधीयते ॥६२॥

विस्तारे नवभागे तु नालीगेहं त्रियंशक ।

गृहपिण्ड्यलिन्द्रहारा भागेन परिकल्पयेत् ॥६३॥

कूटकोष्ठादिसर्वाङ्गं पूर्ववत् परिकल्पयेत् ।

शेषं तु भित्तिविष्कभमेकांशं कूटविस्तृत ॥६४॥

शालायामं त्रिभागं स्यादेकांशं लबपञ्जर ।

हाराभागमथार्धं स्यादायामे कोष्ठकायत ॥६५॥

पञ्चांशं वा षडंशं वाप्यूर्ध्वे सप्तांशाविस्तृत ।

कूटमंशं द्विभागेन शालायामं द्विभागिक ॥६६॥

हारायां क्षुद्रनीं तदर्धभागमिति स्मृत ।

शालायामं तु पञ्चांशमायामे प्रविधीयते ॥६७॥

एवं त्रितलमाख्यातं शेषमूह्यं विचक्षणैः ।

तारे पङ्क्त्यंशके नालीगेहं तत्त्रिभिरंशकैः ॥६८॥

सार्धांशं भित्तिविष्कभमेकभागमलिन्द्रक ।

एकांशं खण्डहर्यं स्यात्कूटकोष्ठादि पूर्ववत् ॥६९॥

मुखेऽमुखे महाशाला पञ्चांशं च षडंशक ।

सर्वावयवसंयुक्तं चतुर्भौममिदं वर ॥७०॥

तारे रुद्रांशके नालीगेहं तत्त्रिभिरंशकैः ।

द्विभागं भित्तिविष्कभमेकबागमलिन्द्रक ॥७१॥

एकांशं खण्डहर्यं स्याच्छेषं पूर्ववदाचरेत् ।

एवं पञ्चतलं विद्यात् षट्‌तलं चाधुनोच्यते ॥७२॥

विपुले द्वादशांशे तु नालीगेहं युगांशक ।

द्विभागं भित्तिविष्कभमंशेनान्धारकं भवेत् ॥७३॥

अंशेन खण्डहर्यं स्यात्कूटकोष्ठादि पूर्ववत् ।

तारे त्रयोदशांशे तु गर्भगेहं युगांशक ॥७४॥

द्व्यंशार्धं भित्तिविष्कभमेकभागमलिन्द्रक ।

एकांशं खण्डहर्यं स्यात्कूटकोष्ठादि पूर्ववत् ॥७५॥

मुखेऽमुखे महाशाला षड्‌भागेन विधीयते ।

पञ्जरैर्हस्तिपृष्ठैश्च पक्षशालादिभिर्युत ॥७६॥

नानामसूरकस्तभवेदीजालकतोरण ।

एवं सप्ततलं प्रोक्तं गोपुरं सार्वदेशिक ॥७७॥

द्वारविस्तारमान

मूलद्वारस्य विस्तारे पञ्चभागैकहीनक ।

चतुर्भागैकहीनं वोपरिष्टाद्‌ द्वारविस्तृत ॥७८॥

उपर्युपरि वेशं च मध्यपादोत्तरैर्युत ।

गर्भागारे तु सोपानं ह्यपर्युपरि विन्यसेत् ॥७९॥

चतुष्कर्णे तु सोपानमुपपीठे प्रशस्यते ।

यथायुक्ति यथाशोभं तथा योज्यं विचक्षणैः ॥८०॥

गोपुरालङ्कारः

गोपुराणामलङ्कारं प्रत्येकं वक्ष्यतेऽधुना ।

मण्डपाभा यथा द्वारशोभा तत्र प्रकीर्तिता ॥८१॥

दण्डशाला यथा द्वारशाला तत्र विधीयते ।

प्रासादाकृतवद्‌ द्वारप्रासादं प्रोच्यते बुधैः ॥८२॥

मालिकाकृतविद्‌ द्वारहर्यं तु प्रोच्यते बुधैः ।

सशालाकृतिसंस्थानं द्वारगोपुरमिष्यते ॥८३॥

सवेषु गोपुरं कुर्याद्यथायुक्ति विशेषतः ।

श्रीकर-द्वारशोभा

श्रीकरस्याप्यलङ्कारं प्रवक्ष्यायनुपूर्वशः ॥८४॥

विस्तारद्विगुणं वाऽपि पादोनद्विगुणायत ।

पञ्चसप्तनवांशं तु विस्तारे प्रविधीयते ॥८५॥

विस्तारांशप्रमाणेन दैर्घ्यभागांश्च कल्पयेत् ।

एकद्वित्रितालोपेतं सर्वावयवसंयुत ॥८६॥

स्वस्तिकाकृतिकं नासो सर्वत्र प्रविधीयते ।

मुखेऽमुखे महानासी वंशनासी द्विपार्श्वयोः ॥८७॥

शिरःक्रकरकोष्ठं वा युग्मस्थूपिसमायुत ।

लुपारोहिशिरो वाऽपि मण्डपाकृतिरेव वा ॥८८॥

रतिकान्त-द्वारशोभा

रतिकान्तस्य संस्थानं विस्ताराध्यर्धमायत ।

कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥८९॥

शालाकारशिरस्तस्मिन षण्णासी मुखपृष्ठयोः ।

सार्धकोटिसमायुक्तं मध्यवेशनसंयुत ९०व

कान्तविजय-द्वारशोभा

कान्तविजयसंस्थानं तारत्रिद्वियंशमायत ॥९१॥

पूर्ववद्‌ भूमिभागं च कूटकोष्ठादि पूर्ववत् ।

अन्तःपादोतरैर्युक्तं नानाङ्गैः समलंकृत ॥९२॥

शिखरे च मुखे पृष्ठे षण्णास्यः पार्श्वयोर्द्वयोः ।

सभाकारः शिरस्तस्मिन्नयुग्मस्थूपिकान्वित ॥९३॥

द्वारशोभात्रयं प्रोक्तं द्वाराङ्गं मुखशोभित ।

विजयविशाल-द्वारशाला

विजयविशालसंस्थानं विस्तारद्विगुणायत ॥९४॥

सपादं वाऽथ सार्धं वा पादोनद्विगुणायत ।

सप्तनन्दशिवांशैश्च तलं द्वित्रिचतुष्टय ॥९५॥

सालिन्द्रे त्रिचतुर्भोमो चतस्त्रो मुखपट्टिकाः ।

मुखे पृष्ठे महानासी सार्धकोटि सभद्रक ॥९६॥

पार्श्वयोः पञ्जरैर्युक्तं शालाकारशिरःक्रिय ।

अयुग्मस्थूपिकोपेतं सर्वावयवसंयुत ॥९७॥

विशालालय-द्वारशाला

विशालालयसंस्थानं पादोनद्विगुणायत ।

पूर्ववद्‌ भूमिभागं च कूटकोष्ठाद्यलंकृत ॥९८॥

अर्धकोटि सभद्रं स्याद्भद्रनासी मुखेऽमुखे ।

चतस्त्रः पार्श्वयोर्नास्यः शालाशिखरसंयुत ॥९९॥

अयुग्मस्थूपिकोपेतं शेषं पूर्ववदाचरेत् ।

विप्रतीकान्त-द्वारशाला

विप्रतीकान्तसंस्थानं त्र्यंशे द्व्यंशाधिकायत ॥१००॥

कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ।

पूर्ववद्‌ भूमिभागं च चतुर्दिग्गतभद्रक ॥१०१॥

चतस्त्रः शिखरे नास्यः शिरो भद्रसमन्वित ।

अन्तः पादोत्तरैर्युक्तमयुग्मस्थूपिकान्वित ॥१०२॥

द्वारशालात्रयं प्रोक्तं सर्वाङ्गं परिमण्डित ।

श्रीकान्त-द्वारप्रासादः

श्रीकानस्य च संस्थानं विस्ताराध्यर्धमायत ॥१०३॥

नन्दपङ्क्तिशिवांशैश्च त्रिचतुष्पञ्चभूमयः ।

अन्तः पादोत्तरैर्युक्तमन्धाराद्यैरलंकृत ॥१०४॥

द्वारस्योर्ध्वेऽन्तरे रङ्गं परिभद्रसमन्वित ।

मुखेऽमुखे महानासी शालाकारशिरो भवेत् ॥१०५॥

अर्धकोटिसमायुक्तं चतुष्पञ्जरशोभित ।

श्रीकेश-द्वारप्रासादः

श्रीकेशस्य तु संस्थानं तारत्रिभागमायत ॥१०६॥

पूर्ववद्‌ भूमिभागं च द्वारे निर्गमकुट्टिम ।

सान्धारं कूटकोष्ठादिसर्वावयवसंयुत ॥१०७॥

नानामसूरकस्तभवेदिकाद्यौरलंकृत ।

अन्तःपादोत्तरैर्युक्तं मध्ये वारणशोभित ॥१०८॥

मुखेऽमुखे महानासी शालाकारशिरःक्रिय ।

पार्श्वयोर्वेदनास्यः स्युः सर्वावयवशोभित ॥१०९॥

स्वस्तिकाकृतिवन्नासी सर्वत्र परिशोभिता ।

नन्द्यावर्तगवाक्षाजालकाद्यैर्विचित्रित ॥११०॥

केशविशाल-द्वारप्रासादः

केशविशालसंस्थानं विस्ताराध्यर्धमायत ।

पूर्ववद्‌ भूमिभागं च मध्यवारणशोभित ॥१११॥

कूटकोष्ठाद्यलङ्कारं पूर्ववत् परिकल्पयेत् ।

मुखे पृष्ठे द्विपार्श्वे तु महानासीचतुष्ट्य ॥११२॥

सभाकारशिरस्तय मुखे पृष्ठे द्विपार्श्वयोः ।

अयुग्मस्थूपिकायुक्तं द्वारप्रासादकत्रय ॥११३॥

स्वस्तिक-द्वारहर्य

स्वस्तिकस्य तु संस्थानं विस्तारद्विगुणायत ।

पङ्क्तिरुद्रार्कभागैस्तु वेदपञ्चर्तुभूमयः ॥११४॥

अन्तःपादोत्तरैयुक्तं भूमिभागं च पूर्ववत् ।

कूटकोष्ठादिसर्वाङ्गैरन्धाराद्यैरलङ्‌कृत ॥११५॥

सभाशिखरसंयुक्तं स्वस्तिकाकृत्नासियुक्‌ ।

अष्टनासि सभाग्रे तु अयुग्मस्थूपिकान्वित ॥११६॥

दिशास्वस्तिक-द्वारहर्य

दिशास्वस्तिकसंस्थानं विस्तारद्विगुणायत ।

पूर्ववद्‌ भूमिभागं च कूटकोष्ठाद्यलंकृत ॥११७॥

अन्धार्यन्धारहाराङ्गं खण्डहर्याभिमण्डित ।

मुखेऽमुखेऽतिभद्रांशं शिरश्चायतमण्डल ॥११८॥

महानासि चतुर्युक्तं चतुष्पञ्जरशोभित ।

अन्तःपादोत्तरैर्युक्तं सर्वावयवसंयुत ॥११९॥

अनुक्तं पूर्ववत् सर्वमयुग्मस्थूपिकान्वित ।

मर्दल-द्वारहर्य

मर्दलस्य तु संस्थानं विस्तारद्विगुणायत ॥१२०॥

पूर्ववद्‌ भूमिभागं च कूटकोष्ठाद्यलंकृत ।

पुरे पृष्ठे सभागं स्याद्‌ विस्तारत्यंशनिर्गम ॥१२१॥

शालाकारशिरोयुक्तं क्षुद्रनसीविभूषित ।

मुखे पृष्ठे महानासी चतुष्पञ्जरशोभित ॥१२२॥

अन्तःपादोत्तरैर्युक्तं द्वारहर्यं त्रिधोदित ।

मात्राकाण्ड-द्वारगोपुर

मात्राकाण्डस्य संस्थानं विस्तारद्विगुणायत ॥१२३॥

रुद्रार्क त्रयोदशांशैः पञ्चषट्‌सप्तभूमयः ।

पूर्ववद्भूमिभागं च कूटकोष्ठादि पूर्ववत् ॥१२४॥

अन्तःपादोत्तरैर्युक्तं चतुर्दिग्गतभद्रक ।

गृहपिण्ड्यलिन्द्रहाराभिर्मण्डितं खण्डहर्यवत् ॥१२५॥

शालाकारशिरः कुर्यान्महानासी मुखेऽमुखे ।

पार्श्वयोः क्षुद्रनास्यश्च यथायुक्त्या प्रयोजयेत् ॥१२६॥

श्रीविशाल-द्वारगोपुर

श्रीविशालस्य संस्थानं पञ्चांशे द्व्यंशमायत ।

पूर्ववद्‌ भूमिभागं च मूलतः क्रकरीकृत ॥१२७॥

शिरः क्रकरकोष्ठं च सभा वा तत्र शीर्षक ।

नानामसूरकस्तबवेदिकाद्यैरलंकृत ॥१२८॥

चतुर्दिक्षु महानासी क्षुद्रनासीविभूषिता ।

स्वस्तिकाकृतिवन्नास्यः सर्वत्र परिकल्पयेत् ॥१२९॥

चतुर्मुख-द्वारगोपुर

चतुर्मुखस्य संस्थानं चतुर्भागाधिकायुत ।

पूर्ववद्‌ भूमिभागं च दिशाभद्रकसंयुत ॥१३०॥

हारामध्ये तु कर्तव्यं कुड्यकुभलतान्वित ।

तोरणैर्जालकैर्वृत्तस्फुटिताद्यैरलंकृत ॥१३१॥

कूटैर्नीडैस्तथा कोष्ठैः क्षुद्रकोष्ठैर्विभूषित ।

गृहपिण्ड्यलिन्द्रहाराभिर्मण्डितं खण्डहर्यवत् ॥१३२॥

सभाशिरस्तु वा शालाकारं वा शीर्षकं तु तत् ।

चतुर्नासिसमायुक्तं पार्श्वे द्वे द्वे तु नासिके ॥१३३॥

उपर्युपरिकूटाद्यैः सर्वाङ्गैः समलङ्‌कृत ।

अन्तःसोपानसंयुक्तं द्वारगोपुरकं त्रिधा ॥१३४॥

वर्षस्थलसमोपेतं निर्वारितलकं तु वा ।

घनाघनाङ्गयुक्तानि श्रीकरादिनि युक्तितः ॥१३५॥

नानाविधस्तभमसूरकाणि नानाविधाङ्गानि सलक्षणानि ।

नानोपपीठानि समण्डकानि भद्राण्यभद्राणि घनाघनानि ॥१३६॥

एकादिसप्तान्ततलानि युक्त्या शोभादिपञ्चादशगोपुराणि ।

शालासभामण्डपशीर्षकाणि प्रोक्तानि सद्मन्यमरेश्वराणा ॥१३७॥

इति मयमते वस्तुशास्त्रे गोपुरविधानं

नाम चतुर्विंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:24.7670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

obtainable

  • प्राप्य 
  • मिळण्याजोगा 
  • अभिप्राप्य 
  • प्राप्य 
More meanings
RANDOM WORD

Did you know?

अंत्येष्टी संस्कारात और्द्ध्वदेहिक विधि काय असतो ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.