TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ विंशोऽध्यायः

मयमतम् - अथ विंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अथ विंशोऽध्यायः

(द्विभूमिविधानम्)

द्वितल पञ्चधा मानं वक्ष्ये संक्षेपतः क्रमात् ।

पञ्चषड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥१॥

सैकार्कमनुहस्तान्तमुत्सेधं पूर्ववद् भवेत् ।

तारे सप्तर्तुभागे तु भागं सौष्ठिकविस्तृतम् ॥२॥

कोष्ठं तु द्विगुणायामं शेषं हारं सपञ्जरम् ।

विमानोत्सेधं विभजेदष्टाविंशतिसड्ख्यया ॥३॥

ईशदृगृतुबन्धांशैर्भूतेनेत्रशिवांशकैः ।

नेत्रसार्धचतुर्भागैरध्यर्धेन यथाक्रमम् ॥४॥

मसूरकाङ्‌घ्रिकं मञ्चाङ्‌घ्रिमञ्चवितर्दिकम् ।

कन्धरं शिखरं कुम्भं मूलतः परिकल्पयेत् ॥५॥

स्वस्तिकम्

चतुसत्रमधिष्ठानं तद्वत् कन्धरमस्तकम् ।

चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम् ॥६॥

दभ्रनीडानुपर्यष्टौ षडष्टैवाल्पनासिकम् ।

शिखरं चोरुनीडाभिर्वेदसड्ख्याभिरन्वितम् ॥७॥

हारान्तरस्य मध्ये तु कुड्यं कुम्भलतान्वितम् ।

तोरणेर्वेदिकाद्यैस्तु नानाचित्रैर्विचित्रितम् ॥८॥

सर्वदेवार्हकं शस्तं नाम्नैतत् स्वस्तिकं भवेत् ।

विपुलसुन्दरम्

तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि ॥९॥

अन्तरप्रस्तरोपेतमेतद् विपुलसुन्दरम् ।

कूटलक्षणम्

अंशमंशत्रयं सत्रिपादांशं साङ्‍घ्रिभागिकम् ॥१०॥

भागत्रयं वितर्द्यङ्‌प्रस्तरग्रीवमस्तकम् ।

पादोदये दशांशे तु द्वितलादिविमानके ॥११॥

अन्तरप्रस्तरोपेतं कूटशालोन्नतं मतम् ।

तदेव कोष्ठकं निम्नं सौष्ठिकं चोन्नतं यदि ॥१२॥

अन्तरप्रस्तरोपेतमेतत् कैलासमुच्यते ।

तदेव वर्तुलं वेदिकन्धरं शिखरं घटम् ॥१३॥

अष्टकूटं चतुश्शालोपेतं सप्ताष्टनासिकम् ।

कोष्ठकान्निर्गमं मध्ये द्वित्रिदण्डेन सौष्ठिकात् ॥१४॥

समग्रीवाशिरोयुक्तं कूटकोष्ठकमीरितम् ।

नानाधिष्ठानसंयुक्तं नानापादैरलङ्‌कृतम् ॥१५॥

नाम्नैतत् पर्वतं प्रोक्तं विमानं सार्वदेशिकम् ।

तदेव शिखरे चार्धकोष्ठकं तु चतुष्ट्यम् ॥१६॥

चतुरस्त्रशिरोयुक्तं चतुष्कूटसमन्वितम् ।

नानाधिष्ठानसंयुक्तं षडष्टैवाल्पनासिकम् ॥१७॥

नाम्नैतत् स्वस्तिबन्धं स्यान्नानावयवशोभितम् ।

तदेव सौष्ठिकं कोष्ठमन्तरप्रस्तरैर्युतम् ॥१८॥

हाराल्पपञ्जरं निम्नं नवाष्टैर्वाल्पनासिकम् ।

नानालङ्कारसंयुक्तं कल्याणमिति पठ्यते ॥१९॥

तदेव शिखरे चार्धकोष्ठकं रहितं तु चेत् ।

चतुर्नीडासमायुक्तमेतत् पाञ्चालमिष्यते ॥२०॥

तदेवाष्टस्त्रकं वेदीकन्धरं शिखरं घटम् ।

शिखरेऽष्टमहानासि नाम्नैतद् विष्णुकान्तम् ॥२१॥

तदेव कूटशालानामन्तरप्रस्तरं विना ।

तच्चतुर्भागमाधिक्यमायतं चतुरस्त्रकम् ॥२२॥

आयतास्त्रं तथा वेदीकन्धरं शिखरं भवेत् ।

स्थूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ॥२३॥

तदेवायतवृत्तं चेद् वेदिकाकन्धरं शिरः ।

सर्वावयवसंयुक्तमेतद् गान्धारमिष्यते ॥२४॥

तारादर्धांशमाध्क्यमायतं चतुरस्त्रकम् ।

द्व्यस्त्रवृत्तशिरोयुक्त नेत्रशालामुखान्वितम् ॥२५॥

हस्तिपृष्ठमिदं द्व्यस्त्रं वृत्तं वापि मसूरकम् ।

चतुरस्त्रमधिष्ठानं वृत्तं स्याद् गर्भगेहकम् ॥२६॥

सर्वालङ्कारसंयुक्तमेत्रन्नाम्ना मनोहरम् ।

तदेव जन्माद्या कुम्भाद् वृत्तं चेति बहिर्बहिः ॥२७॥

शेषं पूर्ववदुद्दिष्टमिष्टमीश्वरकान्तकम् ।

तदेव चतुरस्त्रं स्याद् गर्भगेहं मसूरकम् ॥२८॥

वर्तुलं जन्मतः स्थूपिकान्तं चेद् वृत्तहर्म्यकम् ।

आयतास्त्रमधिष्ठानं षडस्त्रं कन्धरं शिरः ॥२९॥

तदेव पूर्ववत् सर्वं नाम्ना कुबेरकान्तकम् ।

मानं पञ्चविधं धाम्नां भेदं पञ्चदशैव हि ॥३०॥

द्वितलानाम यथा प्रोक्तं तथा कुर्याद् विचक्षणः ।

पुनः धामभेदाः

सञ्चितासञ्चितं चैवोपसञ्चितमिति त्रिधा ॥३१॥

स्त्रीपुंनपुंसकं चैव त्रिविधं तत् प्रवक्ष्यते ।

इष्टकाभिः शिलाभिर्वा सञ्चितं यद् घनीकृतम् ॥३२॥

कपोतादिशिरोयुक्तं तत्तत् पुंस्त्वं समीरितम् ।

ऐष्टकं दारुजं सौधं भोगयुक्तागसंयुतम् ॥३३॥

स्त्रीत्वं ह्यसञ्चितं भोगाभोगयुक्तं द्रुमेष्टकैः ।

घनाघनाङ्गयुक् षण्डमुपसञ्चितमिष्यते ॥३४॥

खण्डभवनम्

ऊर्ध्वतलपादनिजदैर्घ्यमुनिभागे

स्थूप्युदयमेकमथ कं प्रति गुणांशम् ।

द्व्यंशि गलमंशकवितर्दिकमधस्तात्

खण्डभवनस्य विधिरुक्तमुरुधीभिः ॥३॥

तोरणम्

पादोदये दशनवाष्टविभाजिते तत्

सप्तर्तुपञ्चचरणायतमत्र भागम् ।

शेषं झषांशमुदयार्धविशालकं वा

षट्‌पञ्चवेदचरणेन भवेद्विशालम् ॥३६॥

नीडस्य तावदुदयं च विशालमङ्‌घ्रे

र्मूलात् त्रिपादविपुलं तलिपं तयोश्च ।

हारान्तरे सदनमध्यपदे च कूते

कोष्ठे च तोरणमलङ्‌कृतमेव कुर्यात् ॥३७॥

द्वारस्योभयपार्श्वे द्वारसमीपे तु वाथ पदमध्ये ।

द्वारपवासगुहा स्यादुत्तरमण्डान्तकं तु वोच्चं तत् ॥३८॥

खण्डान्तपोतिकान्तं तोरणमात्रोदयं तु वा कथितम् ।

युक्त्या प्रवेशयुक्त्या सर्वस्मिन् धाम्नि कर्तव्याः ॥३९॥

इति मयमते वस्तुशास्त्रे द्विभूमिविधानं नाम विंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:22.6730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Subsidised Medical Practitioner

  • साहाय्यित वैद्यकव्यवसायी 
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.