संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ चतुर्दशोऽध्यायः

मयमतम् - अथ चतुर्दशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अधिष्ठानविधानम्

तैतिलानां द्विजातीनां वर्णानां गृहकर्मणि ।

तद्योग्यं द्विविधं वस्तु जाङ्गलानूपभेदतः ॥१॥

घनशर्करया युक्तमत्यन्तं खनने खरम् ।

सितांशतनुतोयाढ्यं जाङ्गलं भूतलं भवेत् ॥२॥

खननं क्रियमाणस्य वस्तुनश्च बलं यथा ।

रूढोत्पलकृशेर्वारुसंयुक्तं तनुवालुकम् ॥३॥

अनूपमिति विख्यातं खात्वैव जलदर्शनम् ।

इष्टकोपलमृद्भिश्च वालुकैरपि चिक्कणेः ॥४॥

शर्कराभिः क्रमाच्छ्‌वभ्रं निश्छिद्रं पूरयेत् स्थिरम् ।

घनीकृत्येभपादैश्च काष्ठखण्डेर्बृहत्तरैः ॥५॥

तत्खाते सलिलेनैव पूरितेऽक्षयता शुभा ।

समत्वंसलिलेनैव साधयित्वा विचक्षणः ॥६॥

गर्भं प्रक्षिप्य तं नीत्या होमं तत्र निधापयेत् ।

स्तम्भद्वित्रिगुणयासं तदर्धं बहलान्वितम् ॥७॥

उपानोपरि पद्मं चोपोपानं च तदूर्ध्वतः ।

यथाशोभंशमानेन कुर्यात्तत्र विचक्षणः ॥८॥

उन्नतां प्रकृतिं भूमिं कृत्वा हस्तप्रमाणतः ।

घनीकृत्य तदूर्ध्वस्थमुपानं जन्म चोच्यते ॥९॥

तदूर्ध्वस्थमधिष्ठानं सोपपीठं तु केवलम् ।

सस्तम्भं वा सकुड्यं वा जङ्घावर्गं तदूर्ध्वगम् ॥१०॥

भूमिदेश इति ख्याता कपोतोर्ध्वगता प्रतिः ।

प्रासादादीनि वास्तूनि चाधितिष्ठन्ति यद्धि तत् ॥११॥

अधिष्ठानोन्मानम्

अधिष्ठानं तदुन्मानं जातिभूमिवशाद् द्विधा ।

तैतिलानां चतुर्हस्तं त्रिहस्तार्धं द्विजन्मनाम् ॥१२॥

नृपाणां त्रिकरं सार्धद्विहस्तं यौवराजकम् ।

द्विहस्तं वणिजामेकहस्तं शूद्रस्य कीर्त्यते ॥१३॥

एतज्जातिवशाद्‍ भूमिवशादत्रैव कथ्यते ।

दण्डात् षण्मात्रहान्या तु द्वादशाद्यात्त्रिभूमिकम् ॥१४॥

त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम् ।

क्षुद्राणामनया नीत्या विधातव्यं विचक्षणैः ॥१५॥

तत्तत्पादोदयार्धे षडष्टांशोनमानतः ।

अधिष्ठानस्य चोत्सेधं वास्तुवस्तुनि भूवशात् ॥१६॥

यदुपानस्य निष्क्रान्तं तत् त्र्यंशेन विभाजयेत् ।

त्यक्त्वैकांशं बहिस्तत्र जगतीं कारयेद् बुधः ॥१७॥

तद्वत् कुमुदपट्टं च तद्वत् कण्ठस्य वेशनम् ।

आत्तोत्सेधांशमानं तु भागमानेन वक्ष्यते ॥१८॥

अष्टसप्तशशिबन्धभागिकश्चन्द्रबन्धशशिभागिकैः क्रमात् ।

वप्रकं कुमुदकम्पकन्धरं कम्पवाजनमधोर्ध्वकम्पकम् ॥१९॥

पादबन्धमुदितं तदुच्छ्रये भानुभिर्द्विगुणितांशके कृते ।

देवविप्रनृपवैश्यशूद्रकेष्वेवमुक्तमृषिभिः पुरातनैः ॥२०॥

उरगबन्धम्

चन्द्रदृक्‌शशिशिवांशकै रसैर्धातुभिश्च समभागिकैः क्रमात् ।

वाजनं प्रतिमुखं त्रियस्त्रकं दृक्‍ च व्रुत्तक्मुदं तु वप्रकम् ॥२१॥

त्रिःषडंशसमभागिके तले नागवक्त्रसदृशं प्रतिद्वयम् ।

देवविप्रनृपमन्दिरेषु तद्योग्यकं ह्युरगबन्धकं भवेत् ॥२२॥

प्रतिक्रमम्

अंशाध्यर्धार्धभागैर्मुनिरसशशिभिश्चन्द्रदृक्च्छैवभागैः

क्षुद्रोपानाब्जकम्पं जगतिकुमुदकं धारया युक्तमूर्ध्वे ।

आलिङ्गान्तादिकं तत्प्रतिमुखमथ तद्वाजनं पद्मयुक्तं

त्रिःसप्तांशे तलोच्चे करिहरिमकरव्यालरूपादिभूष्यम् ॥२३॥

प्रतिक्रमं तत् सुरमन्दिरोचितं विचित्रितं पत्रलतादिरूपकैः ।

द्विजन्मभूमीश्वरयोर्मतं गृहे शुभप्रभं पुष्टिकरं जयावहम् ॥२४॥

पद्मकेसरम्

एकद्व्येकेन षड्‌भिः शशिशिवशशिभिर्वेदचन्द्रैकभागै-

र्द्व्यंशैकेनांशनेत्रैः शिवशशिसमभागेन जन्माब्जकं च ।

वप्रं पद्मं गलाब्जं कुमुदमुपरि पद्मं च कम्पं गलं तत्

कम्पं पद्मं च पट्टीकमलमुपरिकम्पं च षड्‌विंशदंशे ॥२५॥

पद्मकेसरमेतदुदाह्रतं कम्पवाजनपङ्कजकैर्युतम् ।

कुम्भवप्रयुतञ्च सकन्धरं शम्भुधामनि तत्प्रविधीयते ॥२६॥

पुष्पपुष्कलम्

भागेष्वेकार्धकार्धैस्तदुपरि चतुरंशैस्तथार्धांशकार्धै-

र्द्वयर्धांशार्धद्विभागैस्तदुपरि च तथार्धांशकार्धेन जन्मम् ।

वप्रं कञ्जं गलाब्जं तदुपरि कुमुदं पङ्कजं कम्पकण्ठं

कम्पं पद्मं महावाजनमुपरिदलं कम्पकं पङ्कजाढ्यम् ॥२७॥

पुश्पपुष्कलमेतदुदाह्रतं कल्पितं नवपङ्‍क्तिभिरुच्छ्रये ।

शिल्पिभिः प्रसररपि पूजितामूर्ध्वमध्यममुखे विमानके ॥२८॥

श्रीबन्धम्

द्वाभ्यामेकेन सप्तांशकशशिशिववेदैकचन्द्राग्निभागै-

रेकेनैकेन वेदैः शिवशशिनयनैकेन मोहामराब्जम् ।

ह्रत्पद्मं कैरवाब्जं गलधरगलकम्पं तद्वाजनं पङ्कजाढ्यम् ॥२९॥

श्रीबन्धं स्यादेतदुच्चे चतुर्वस्वंशे कुर्याच्छान्तधीर्वर्धकिस्तत् ।

देवेशानं मन्दिरेष्वेवमुक्तं श्रीसौभाग्यरोग्यभोग्यं ददाति ॥३०॥

मञ्चबन्धम्

तुङ्गे षड्‌विंशदंशे खुरमथ जगतिकैरवं कम्पकण्ठं

कम्पं पद्मं कपोतं तदुपरि च तथा निम्नमन्तादिवक्त्रम् ।

कम्पं भागेन षड्‌भिः शरशशिगुणचन्द्रैकबन्धांशकांशै-

र्द्वाभ्यामेकेन कुर्यादमरनरपतेर्मन्दिरे मञ्चबन्धम् ॥३१॥

श्रीकान्तम्

आलिङ्गयुक्तमथ चान्तरितप्रतीभ्यां

तद्वाजनेन च वियुक्तकमेतदेव ।

श्रीकान्तनामकमसूरकमष्टकोणं

वृत्तं तु वा कुमुदमम्बरमार्गिणां तत् ॥३२॥

श्रेणीबन्धम्

एकद्व्येकर्तुवेदैः शशिनयनशिवद्व्येकदृकचन्द्रसार्धा-

र्धांशैर्जन्माब्जकम्पं जगतिकुमुदकं कम्पकण्ठं च कम्पम् ।

पद्मं पट्टं च कण्ठं तदुपरि च तथा वाजनाब्जं च पट्टं

श्रेणीबन्धं सुराणामुदितमिदमलं तुङ्गषड्‍विंशदंशे ॥३३॥

पद्मबन्धम्

सार्धार्हेष्वंशकांशैर्गुणशशिशिवचन्द्रद्विकैकेन जन्म-

क्षुद्रं पद्मं धृगब्जं कुमुदमुपरि पद्मं तथालिङ्गमूर्ध्वे ।

आलिङ्गान्तः प्रतिर्वाजनमथ मतिमान् योजयेत् त्रिःषडंशे

तुङ्गे देवेश्वराणामिदमुदितमगारेऽनघं पद्मबन्धम् ॥३४॥

वप्रबन्धम्

द्व्येकैकंशैः शरांशैर्युगशशिशिवदृक्‍ चन्द्रशैवाश्विनीभि-

र्भागेनोपानकञ्जं तदुपरि च तथा कम्पवप्रं च कुम्भम् ।

पद्मं पट्टं च कण्ठं तदुपरि च तथा कम्पपद्मं च पट्टी-

पट्टं तद्वप्रबन्धं तदपि च सहितं सद्विकैर्विंशदंशैः ॥३५॥

कपोतबन्धम्

तदेव वृत्तं कुमुदं तु वाजने कपोतयुक्तं हि कपोतबन्धकम् ।

प्रतिबन्धम्

तदेव वेदैः प्रतिवाजनं प्रतिस्त्रिकास्त्रयुक्तं प्रतिबन्धमुच्यते ॥३६॥

कलशाधिष्ठानम्

एकद्व्येकाग्निभागैः शशियुगल्शिवद्व्येकचन्द्रेशदृग्भि-

श्चन्द्रैकैकाक्षिचन्द्रैः खुरकमलमथो कम्पकण्ठं च कम्पम् ।

पद्मं पट्टाब्जनिम्नं कमलमुपरि कुम्भं दलं निम्नमन्ताद्

या स्याच्चोर्ध्वे पतिर्वजनमथ कलशाख्येन भागास्त्रिरष्टौ ॥३७॥

अधिष्ठानसामान्यलक्षणम्

एतानि भेदैस्तु चतुर्दशैव प्रोक्तानि तज्ज्ञैस्तु मसूरकाणि ।

सर्वाणि नास्यङ्‌घ्रियुतानि युक्त्यादृढीकृताङ्गानि मयोदितानि ॥३८॥

भागेनार्धत्रिपादाङ्‌घ्रिभिरथ युगलाध्यर्धचन्द्रार्धपादै-

र्मात्रैर्वृद्धिश्च हानिर्दृढतरमतिना योजितव्या बलार्थम् ।

शोभार्थं भागमङ्गप्रतिवरसमनीचाल्पहर्म्ये तलाना-

मेवं प्रोक्तं यमीन्द्रैरविकलमतिभिस्तन्त्रविद्भिः पुराणै ॥३९॥

अधिष्ठानपर्यायनामानि

मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ।

तलं कुट्टिममाद्यङ्गं पर्ययवचनानि हि ॥४०॥

निर्गममानम्

यावज्जगतिनिष्क्रान्तं तावत् कुमुदनिर्गमम् ।

अम्बुजानां तु सर्वेषामुत्सेधसमनिर्गमम् ॥४१॥

दलाग्रतीव्रमुत्सेधात् पादं पादार्धमेव वा ।

वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमम् ॥४२॥

तत्समं वा त्रिपादं वा महावाजननिर्गमम् ।

एवं तीव्रक्रमं प्रोक्तं शोभाबलवशात्तु वा ॥४३॥

प्रवेशनिर्गमं कुर्यात् सर्वाङ्गानां मसूरके ।

अधिष्ठानप्रतिच्छेदविधिः

प्रतिच्छेदं न कर्तव्यं सर्वत्रैवं विचक्षणैः ॥४४॥

द्वारार्थं यत् प्रतिच्छेदं सम्पद्‌द्वारं च नेत्यलम् ।

पादबन्धमधिष्ठानं छेदनीयं यथोचितम् ॥४५॥

जन्मादिपञ्चवर्गे तु तत्तत्तुङ्गावसानके ।

सपटिकाङ्गेऽधिष्ठानेऽप्यन्यस्मिन्नेवमूह्यताम् ।

यद्‍ यत्रैवोचितं प्राज्ञास्तत् तत्रैव प्रयोजयेत् ॥४६॥

स्तम्भोच्चार्धं वा मसूरोच्चमानं तत् षट्‌सप्ताष्टांशकं भागहीनम् ।

वस्त्वाधारोच्चं भवेत् सर्ववस्तुष्वेवं पूर्वं शम्भुना सम्यगुक्तम् ॥४७॥

इति मयमते वस्तुशास्त्रे अधिष्ठानविधानो

नाम चतुर्दशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP