TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ एकविंशोऽध्यायः

मयमतम् - अथ एकविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अथ एकविंशोऽध्यायः

(त्रिभूमिविधानम्)

त्रितलं पञ्चधामानं संक्षेपाद् वक्ष्यतेऽधुना

सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥१॥

स्वस्तिकम्

सप्तष्टानन्दहस्ते तु सप्ताष्टांशैर्विभाजिते ॥२॥

भागेन कूटविस्तारं कोष्ठद्वित्रिगुणायतम् ।

लम्बपञ्जरमर्धांशं हाराभागं तु तत्समम् ॥३॥

ऊर्ध्वभूमौ षडंशेंऽशं कूटं तद्द्विगुणायतम् ।

कोष्ठकं चान्तरे हारं भागेनैव प्रकल्पयेत् ॥४॥

ऊर्ध्वभूमौ त्रिभागेन मध्ये भद्रं विधीयते ।

दण्डं सार्धं द्विदण्डं वा भद्रं तत् कारयेद् बुधः ॥५॥

विमानोच्चे विशेषेण चतुर्विंशतिभाजिते ।

पाशगङ्गाश्विनीभिस्तु सत्रिपादगुणांशकैः ॥६॥

सार्धांशैः सार्धबन्धांशैः सपादांशार्धकांशकैः ।

सार्धत्रिभिस्तु भागेन योजयेत्तु विचक्षणः ॥७॥

धरातलमधः स्तम्भञ्चमङ्‌घ्रिकमञ्चकम् ।

तलिपं प्रस्तरं वेदीकन्धरं शिखरं घटम् ॥८॥

कूटं नीडं कोष्ठकं चाष्टकं तद्वेदास्त्राभं जन्मतः स्थूपिकान्तम् ।

ऊर्ध्वे भूमावल्पनीडं द्विरष्टाविष्टं ह्यस्मिन् षण्णवत्यल्पनासम् ॥९॥

नानाधिष्ठानाङ्‌घ्रिवेद्यादियोगं मुर्धन्यष्टार्धं तथादभ्रानासम् ।

कोष्ठं कूटादुन्नतं चेत्समं च शम्भोर्वासं स्वस्तिकं तत्त्रिभौमम् ॥१०॥

विमलाकृतिकम्

तारे सप्तनवांशे तु भाग सौष्ठिकविस्तृतम् ।

शालाभागं तथा द्व्यंशं हाराभागेन कल्पयेत् ॥११॥

अष्टकूटं तु तत्कोष्थं द्वादशैव विधीयते ।

अष्टौ नीडानि विंशत्तु शतमत्राल्पनासिकम् ॥१२॥

अष्टास्त्रं मस्तकं वेदी कन्धरं चाष्टनासिकम् ।

विमलाकृतिकं नाम्ना शम्भोर्वासं सनातनम् ॥१३॥

हस्तनवसप्तततिसप्तनवभागं

भागततिकूटवसुकं तु रविकोष्ठम् ।

ऊर्ध्ववसुपञ्जरमथाष्टगलनासं

विंशतिशतानु विमलाकृति विमानम् ॥१४॥

हस्तिपृष्ठम्

एकादशकरं व्यासमष्टभागैर्विभाजयेत् ।

तच्चतुर्भागमाधिक्यमायतं वृत्तमिष्यते ॥१५॥

द्व्यस्त्रवृत्तमधिष्ठानं तद्वत् कन्धरमस्तकम् ।

तद्विस्तारार्धमानेन वर्तुलं वर्तनीयकम् ॥१६॥

अस्त्रात् पार्श्वे च पृष्ठं च कुर्यादर्कद्वयांशकम् ।

कूटकोष्ठकनीडानां विस्तारं भागमिष्यते ॥१७॥

कोष्ठकं द्विगुणायामं हारा भागेन योजिता ।

मुखमण्डपम्

समं त्रिपादमर्धं वा मुखमण्डपमिष्यते ॥१८॥

मण्डपोर्ध्वं यथा हर्म्यं तथालङ्कारमीरितम् ।

कूटकोष्ठादिसंयुक्तं मण्डपं सर्वहर्म्यके ॥१९॥

त्रिवर्गसहितं वाऽपि तोरणाद्यैर्विचित्रतम् ।

मण्डपं समसूत्रं चेदन्तरालं तु निम्नकम् ॥२०॥

कूटकोष्ठादि सर्वाङ्गं मानसूत्राद् बहिर्गतम् ।

स्वव्यासार्धं तदर्धार्धं दण्डं सार्धद्विदण्डकम् ॥२१॥

द्विदण्डार्धं त्रिदण्डं वा मानसूत्राद् बहिर्गतम् ।

एवं युञ्जीत हर्म्यं तु सम्पदामास्पदं सदा ॥२२॥

ऋजुसूत्रं प्रमाणान्तं तद्भङ्गं विपदां पदम् ।

षड्‌भागं स्यात्तदूर्ध्वे तु पृष्ठतस्तस्य पार्श्वयोः ॥२३॥

कृत्वार्कद्विगुणांशं तु कूटकोष्ठादि पूर्ववत् ।

ऊर्ध्वभौमं चतुर्भागं यथायुक्तिवशान्नयेत् ॥२४॥

मस्तके पुरतो नेत्रशालावक्त्रसमन्वितम् ।

गर्भकूटोपसम्पन्नं क्षुद्रनास्यङ्‌घ्रिसंयुतम् ॥२५॥

कूटकोष्ठादिसंयुक्तं यथालङ्कारमाचरेत् ।

शिखरे दश नास्यः स्युस्तिस्त्रः पादसमन्विताः ॥२६॥

अष्टकूटं तथा कोष्ठं नीडं द्वादश चैव हि ।

हारायां क्षुद्रनीडं स्यादर्कद्विगुणसंख्यया ॥२७॥

नानामसूरकस्तम्भवेदिकाद्यैरलङ्‍कृतम् ।

सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥२८॥

हस्तिपृष्ठमिदं नाम्ना सर्वदेवेषु योग्यकम् ।

स्तम्भतोरणम्

पादोच्चत्रिद्विभागोच्चं पादं सर्वाङ्गसंयुतम् ॥२९॥

पोतिकारहितं वीरकाण्डोपरि समण्डितम् ।

उत्तरं वाजनं साब्जक्षेपणं निम्नवाजनम् ॥३०॥

तदूर्ध्वे झषकाण्डं स्यान्नानापत्रैर्विचित्रितम् ।

तोरणाकृतिसंयुक्तं मृणाल्यन्वितकन्धरम् ॥३१॥

सर्वालङ्कारसंयुक्तं स्तम्भतोरणमीरितम् ।

पादान्तरे वा हारायां कर्णप्रासादमध्यमे ।

शालामध्येऽन्तराले तु कुर्यात् सर्वेषु धामसु ॥३२॥

स्तम्भे सर्वाङ्गयुक्ते समतलमुभयोः पार्श्वयोर्वीरकाण्ड-

स्याग्रे न्यस्तोत्तरं वाजनमुपरि दलं क्षेपणं तोरणाग्रम् ।

नक्रैः पत्रादिभिर्यद् विरचितमथ तद् धाम्नि वा मण्डपे वा

शालायामन्यवस्तुष्वभिमतमयुतस्तम्भयुक् तोरणं स्यात् ॥३३॥

पुनः हस्तिपृष्ठम्

तदेव चतुरस्त्राभमायतं तन्मसूरकम् ॥३४॥

विस्तारमष्टभागं स्यादायामं दशभागभाक् ।

कूटकोष्ठकनीडं च भागेन परिकल्पयेत् ॥३५॥

हाराभागं तु भागेन षडंशं चोर्ध्वभूमिके ।

तदूर्ध्वे तु चतुर्भागमायामे द्व्यंशमाधिकम् ॥३६॥

सायतं द्व्यस्त्रवृतं स्याद् वेदिकागलमस्तकम् ।

कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥३७॥

नानाधिष्ठानसंयुक्तं नानापादैरलङ्‍कृतम् ।

पादोपरि भवेन्नासी स्वस्तिबन्धनशोभिता ॥३८॥

यथा बलं यथा योगं तथा कुर्याद् विचक्षणः ।

एतदप्युदितं सौधं गजपृष्ठं पुरातनैः ॥३९॥

युग्मेऽप्येवं प्रयुञ्जीयात् सर्वहर्म्यं विचक्षणः ।

भद्रकोष्ठम्

त्रयोदशकरव्यासं नवधा विभजेत् समम् ॥४०॥

ग्र्भगेहं त्रिभागेन गृहपिड्णिस्तु भागतः ।

अन्धारमंशमंशेन परितोऽन्धारिका भवेत् ॥४१॥

अंशेन सौष्ठिकं कोष्ठं विस्तारं त्रिगुणायतम् ।

अर्धेन नीडविस्तारं शेषं हाराङ्गमिष्यते ॥४२॥

कोष्ठमध्ये त्रिदण्डेन नासी निर्गमनान्विता ।

उपर्यपि षडंशेंऽशं कूटं तद्द्विगुणायतम् ॥४३॥

कोष्ठकं भागतो हारा पञ्चरैरन्विता भवेत् ।

ऊर्ध्वभागं त्रिभागेन मध्ये दण्डेन निर्गमम् ॥४४॥

चतुरस्त्रमधिष्ठानं वस्वस्त्रं गलमस्तकम् ।

आदौ तले चतुष्कर्णे कूटं वेदास्त्रमस्तकम् ॥४५॥

अष्टास्त्रमुर्ध्वभूमौ तु सौष्ठिकानां तु मस्तकम् ।

अष्टकूटं तथा नीडं कोष्ठकं तु तथैव हि ॥४६॥

क्षुद्रनीडं तथाप्यष्टावष्टौ स्युर्गलनासिकाः ।

स्वस्तिकाकारसंयुक्तं नासिकाभूषणं भवेत् ॥४७॥

भद्रकोष्ठमिदं नाम्ना यथार्थं परिकीर्तितम् ।

वृत्तकूटम्

तदेव वर्तुलं कर्णकूटमूर्ध्वोर्ध्वभूमिके ॥४८॥

मस्तकं तस्य वृत्तं स्याच्चतुर्नासीसमन्वितम् ।

वृत्तकूटमिदं नाम्ना देवानां सार्वदेशिकम् ॥४९॥

सुमङ्गलम्

तदेवाष्टांशमाधिक्यमायतं चतुरस्त्रकम् ।

कर्णकूटं युगास्त्रं स्यादायतं वृत्तमस्तकम् ॥५०॥

कोष्ठभद्रं विना तत्र शेषं पूर्ववदाचरेत् ।

स्थूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ॥५१॥

गान्धारम्

पञ्चदशकरव्यासं पङ्‌क्त्यंशेन विभाजयेत् ।

गर्भगेहं चतुर्भागमन्धार्यंशेन योजिता ॥५२॥

अलिन्द्रमंशमंशेन खण्डहर्म्यं बहिः क्रमात् ।

कर्णे मध्येऽन्तरे कार्यं कूटं कोष्ठं च पञ्जरम् ॥५३॥

भागेन कोष्ठकायामं द्विगुणं सम्मतं बुधैः ।

ऊर्ध्वभूमौ रसांशे तु भागं सौष्ठिकविस्तृतम् ॥५४॥

कोष्ठकं द्विगुणायामं हारा भागेन योजयेत् ।

तदूर्ध्वे तु चतुर्भागं द्विभागं मध्यनिर्गमम् ॥५५॥

दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वा विशेषतः ।

चतुरस्त्रमधिष्ठानं तद्वत् कन्धरमस्तकम् ॥५६॥

अष्टकूटं तथा नीडं कोष्ठकं तु तथैव च ।

लम्बनीदमुपर्यष्टौ वर्षस्थलसमन्वितम् ॥५७॥

नासिका स्वस्तिकाकार सर्वत्र परिशोभिता ।

नानामसूरकस्तम्भवेदीजालकतोरणम् ॥५८॥

उन्नतौ कूटकोष्ठौ चेदन्तरप्रस्तरान्वितौ ।

एतद् गान्धारमित्युक्तमष्टास्त्रं वा गलं शिरः ॥५९॥

श्रीभोगम्

तदेव वर्तुलं वेदी कन्धरं शिखरं भवेत् ।

शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगमिष्यते ॥६०॥

कूटकोष्ठादि

वृत्ते वृत्तायते द्व्यस्त्रवुत्तेऽष्टास्त्रे षडस्त्रके ।

कूटकोष्ठकनीडानामुपर्युपरि च क्रमात् ॥६१॥

कूटकौष्ठकनीडैश्च मण्डित खण्डहर्म्यके ।

ऋजुभागविशालात्तु द्व्यस्त्रवृत्ते तु वर्तुले ॥६२॥

भागं किञ्चिद् भवेन्न्यूनं भागं सर्वं समं तु वा ।

अष्टांशोनदशांशोनमूर्ध्वांशं वाऽप्यधोंऽशकात् ॥६३॥

यथा शोभाबलवाप्तिस्तथा युञ्जीत बुद्धिमान् ।

पुनः धामभेदाः

अर्पितानर्पितं चैव प्रासादं द्विविधं भवेत् ॥६४॥

अर्पित न च सालिन्द्रमनर्पितमलिन्द्रभाक् ।

एवमल्पक्रमं सर्वं योजयेत्तद् विचक्षणः ॥६५॥

नालीगृहम्

गुणशरमुनिनन्दैकादशैकाधिकाकै-

स्तिथिमुनिदशभागे हर्म्यतारे कृतेऽस्मिन् ।

शशिगुणयुगबाणैः षड्यमीनागनदैः

स्वभवनविपुलस्यार्धेन नालीगृहं स्यात् ॥६६॥

वेदिका

हर्म्याङ्गानां कूटकोष्ठादिकानां ग्रीवाधस्ताद् वेदिका योजनीया ।

हाराभागे वेदिकावेदिका वा नीडं वा तत्राल्पनासं च कुर्यात् ॥६७॥

तोरणादिविधानम्

तोरणं त्रिविधं पत्रतोरणं मकरान्वितम् ।

चित्रतोरणमित्येषां मण्डनं त्वधुनोच्यते ॥६८॥

बालचन्द्रनिभं पत्रैश्चित्रितं पत्रतोरणम् ।

द्वयोर्मकरयोर्वक्त्रस्थितमध्यमपूरितम् ॥६९॥

नानाविधलतायुक्तमेतन्मकरतोरणम् ।

तदेव पार्श्वयोर्मध्यं पूरिमध्यं द्वयोस्ततः ॥७०॥

नक्रतुण्डं प्रगृह्यैव द्वयोरास्यविनिर्गतैः ।

विद्याधरैश्च भूतैश्च सिंहैर्व्यालैश्च हंसकैः ॥७१॥

बालैः स्तग्दामकैरन्यैर्मणिबन्धैर्विचित्रितम् ।

चित्रतोरणमेतत् स्याद् देवानां भूभुजां वरम् ॥७२॥

गुहासु प्रतिमास्तासु पार्श्वपादयुतानि च ।

तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ॥७३॥

स्तम्भोच्चे पञ्चषट्‌सप्तद्व्यंशोच्चं तोरणाग्रकम् ।

शेषं पादोदयं पादं चतुरस्त्राष्टवृत्तयुक् ॥७४॥

कुम्भमण्ड्यादिसंयुक्तं पोतिकारहितं तु वा ।

उत्तरं वाजनं साब्जक्षेपणं क्षुद्रवाजनम् ॥७५॥

पोतिकापरि वा कुर्याद् वीरकाण्डस्य चोपरि ।

उत्सन्ध्यन्तानताग्रं तु कुर्यान्मकरविष्टरम् ॥७६॥

तुङ्गार्धं त्रिचतुष्पञ्चदण्डतोरणविस्तृतम् ।

द्वारतुल्योन्नतं व्यासान्तरं स्तम्भद्वयोरपि ॥७७॥

उत्तरोत्तरयुक्ताष्टमङ्गलोर्ध्वस्थनक्रवत् ।

फलकं पञ्चवक्त्रं तु तदूर्ध्वे शूलसंयुतम् ॥७८॥

छत्रकेतुपताकाश्रीर्भेरी कुम्भं च दीपिक ।

नन्द्यावर्तेन चाष्टौहि सर्वेषामष्टमङ्गलम् ॥७९॥

एवं प्रोक्तं चतुर्भेदं देवादीनां तु तोरणम् ।

पद्मासनोर्ध्वे कुम्भस्य तिर्यक् चारुलताकृतिः ॥८०॥

तदूर्ध्वे फलकोर्ध्वाब्जमिष्टकुम्भलताग्रकम् ॥८१॥

पद्मकुम्भलतैवं स्यादन्यदप्येवमूह्यताम् ।

तदेवोत्सन्धिकोर्ध्वे तु वीरकाण्डसमन्वितम् ॥८२॥

स्तम्भकुम्भलतैवं स्याद् स्तम्भतोरणविच्छिरः ।

हारायां तु प्रकर्तव्यां दैवेऽदैवे निकेतने ॥८३॥

षडष्टदशमार्ताण्डमनुवैकारमात्रकैः ।

व्यासं तारार्धनिष्क्रान्तं द्विद्व्यंशं वा त्रिभागिकम् ॥८४॥

वृत्ताकारसमं छन्नं तोरणाङ्‌घ्रिवदायतम् ।

सकन्धरं तदूर्ध्वे तु शुकनास्या विभूषितम् ॥८५॥

वृत्तस्फुटितमित्युक्तं द्युसदां सद्मभूषणम् ।

तले तले तु सोपानं प्रयुञ्जीत विचक्षणः ॥८६॥

त्रिविधं तस्य मूलं तु चतुरं वृत्तमायतम् ।

चतुर्विधप्रकारं स्यात्त्रिखण्डं शङ्खमण्डलम् ॥८७॥

वल्लीमण्डलमत्यर्धगोमूत्रेण समाहितम् ।

मूलादग्रं क्रमक्षीणं प्रथितं शङ्खमण्डलम् ॥८८॥

स्याद् वल्लीमण्डलं वृक्षारोहिवल्लीसमक्रियम् ।

अश्वपादोपरि स्थित्यारोहणं दक्षिणाङ्‌घ्रिणा ॥८९॥

द्विदण्डाद्या सप्तदण्डात् सोपानस्य विशालता ।

अश्वपादस्य विस्तारो द्विगुणाद्यश्चतुर्गुणात् ॥९०॥

शयितव्यासपादार्धत्रिपादांशं दृशोदयैः ।

स्थितानीभबालवृद्धसमखण्डान्यनुक्रमात् ॥९१॥

शयानफलकव्यासः षोडशाष्टादशाङ्गुलाः ।

समुद्गतं षडंशैकमेवं सोपानकल्पनम् ॥९२॥

हस्तव्यासं द्विदण्डं तत्पादव्यासं तु बाहलम् ।

हस्ते यथाबलं योज्यं प्रविशेत् स्थितशायिनोः ॥९३॥

अयुग्ममेव सोपानं गुह्यागुह्यवशात्ततः ।

एकभक्तिविनिष्क्रान्तं मण्डपादिषु बाह्यतः ॥९४॥

सोपानं सर्ववर्णानां प्रादक्षिण्याधिरोहणम् ।

प्रशस्तं विपरीतं तद् विनाशाय भवेदिह ॥९५॥

अधिष्ठानाधिरोहार्थं सोपानं पार्श्वयोर्मुखम् ।

हस्तिहस्तं चाश्वपादफलकान्तं प्रयोजयेत् ॥९६॥

सोपानं तदधिष्ठानस्तम्भप्रस्तरवद् भवेत् ।

एवं विधिविशिष्टं तु सोपानं सम्पदां पदम् ॥९७॥

एवं प्रोक्तं तैतिलानां नराणां वासे योग्यं तोरणं चैव युक्त्या ।

सोपानं तद्भेदमाकारमस्मिन् सम्यग् योज्यं वास्तुविद्याविधिज्ञैः ॥९८॥

स्यान्नागरं द्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि ।

महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आधिदैवाः ॥९९॥

इति मयमते वस्तुशास्त्रे त्रिभूमिविधानो नामैकविंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:23.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बॅबदॉ

  • पु. ( गो . ) दारुडा ; दारुबाज माणूस . [ पोर्तु . ] 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.