TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ त्रिंशोऽध्यायः

अथ त्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अथ त्रिंशोऽध्यायः

(द्वारविधानम् )

द्विजनृपवणिजां वा सद्मनां शूद्रकाणा

मभिमुखविनिवेशद्वारतारं च तुङ्गम् ।

पृथगथ निजभेदं मण्डनं चापि नाम्ना

सुखमनुगतबुद्धिर्वस्तुवाक्यं मुनीनाम् ॥१॥

द्वारमानानि

त्रिवितस्तिविशालं स्याद्‌ दैर्घ्यं सप्तवितस्तिकम् ।

विस्तारायामतस्तस्मात् षड्‌द्वादशकराग्रजैः ॥२॥

वृद्ध्या त्रिपञ्चसैकेषुषड्‌वितस्त्यन्तकानि हि ।

पञ्चविंशतिमानानि द्वारतारोदयानि हि ॥३॥

तदाद्यं शयनीयस्य गृहस्य द्वादशैव हि ।

समावृतखलूरीणां तानि चोक्तानि पण्डितैः ॥४॥

नगरग्रामदुर्गाणां द्वादशोक्तानि वेश्मनाम् ।

विस्तारद्विगुणोत्सेधं शण्मात्रं साधिकं भवेत् ॥५॥

नवमात्राधिकं वाथ सर्वेषां समुदीरितम् ।

सषण्मात्रद्वितालं च सत्रिमात्रद्वितालकम् ॥६॥

द्वितालं क्षुद्रमानं च त्रिविधं परिपठ्यते ।

स्वव्यासद्विगुणोत्सेधं षण्मात्रं वा द्विमात्रकम् ॥७॥

अधिकं शुभदं चारं विप्रादीनां गृहे मतम् ।

स्तम्भायामाष्टभागे तु षडर्धं द्वारदैर्घ्यकम् ।

तदर्धे नन्दभागे तु सार्धाष्टांशा तु तत्ततिः ॥८॥

नीचमध्याद्यपि द्वारं भूमौ भूमौ विधीयते ।

व्यासद्विगुणतुङ्गं तु नेष्टद्वारं नृणां गृहे ॥९॥

स्तम्भायामाष्टभागोनं तुङ्गद्वारं सुरालये ।

नन्दपंक्त्यंशहीनं वा विस्तारं स्यात्तदर्धतः ॥१०॥

पादपादवशाद्‌ भूमौ भूमावत्र विधीयते ।

योगमानम्

सपादपादविस्तारः सार्धो वा योगविस्तरः ॥११॥

स्तम्भव्याससमो वाऽपि तदर्धबहुलं मतम् ।

त्रिपादं चोत्तराधस्ताद्‌ प्रतीकान्तस्य वाजनम् ॥१२॥

कवाटम्

त्रिचतुष्पञ्चषड्‌भागे भागेन स्तम्भवैपुले ।

कवाटबहलं प्रोक्तं देवद्विजमहीभृताम् ॥१३॥

द्विकवाटविशेषेण एक एव प्रकीर्तितः ।

सामन्तप्रमुखादीनां द्विकवाटं प्रशस्यते ॥१४॥

सार्धवेदेषुपातालनन्दरुद्रकरान्वितैः ।

उच्चानि तानि तल्पानि वेश्माभ्यन्तरतोदयात् ॥१५॥

गुल्फार्धविमलार्धं तु किञ्चित्तीव्रं यथाबलम् ।

वेश्माभ्यन्तरतल्पोच्चे त्रिचतुष्पञ्चभागिके ॥१६॥

द्वित्रिवेदांशतुङ्गं तत्सरपं पूर्ववर्तिनि ।

युग्मे महत्तरेऽल्पे च दक्षिणस्थे कवाटके ॥१७॥

विपुले चायते तस्मिंस्त्र्यंशे चञ्चांशके कृते ।

उपरिष्टादधस्तात्तु पार्श्वयोस्त्र्यंशमंशकम् ॥१८॥

त्यक्त्वा शेषं प्रवेशेन यदावारं तदुच्यते ।

यथाबलं यथाशोभमयः पट्टैर्दृढीकृतम् ॥१९॥

मध्ये महत्तरे हीने योग्यव्यासकलान्वितम् ।

त्रिचतुष्पञ्चषण्मात्रं व्यासार्धं द्वित्रियंशकम् ॥२०॥

सत्रिपादत्रिभागैश्च सभाजनविकासनम् ।

बहुली दशमात्रा स्याद्धस्तिहस्ताद्विशालि वा ॥२१॥

विकासने विधातव्यं वेत्रं सामुद्गपाणिवत् ।

अयुग्मफलकं ग्राह्यं मध्यसन्धिविवर्जितम् ॥२२॥

तल्पस्य भेषणी चैव मध्यं त्यक्त्वा समाहिते ।

कवाटयुगलोपेते यथाबलमभेषणी ॥२३॥

अथ तल्पघनस्यार्धघना द्विगुणविस्तृताः ।

दण्डत्रिपञ्चसप्तैव नवैकादशसंख्यया ॥२४॥

अश्वस्कन्धनखाभास्तेऽश्वत्थपत्राग्रसन्निभाः ।

स्वस्तिकाभास्तु घटिका मिर्णका वाऽथवा मताः ॥२५॥

श्रीमुखैर्वामदण्डैश्च पिञ्जरीगलकार्गलैः ।

क्षेपणैः सन्धिपत्रैश्च गुच्छगैर्वनकैस्तथा ॥२६॥

गुल्मैरन्तर्गतैर्ग्राह्येर्वालाभैर्मध्यकुण्डलैः ।

विषाणपरिघाक्षुद्रदण्डैर्युक्तं कवाटकम् ॥२७॥

इन्द्रकीलसमोपेतं सर्वचित्रमनोहरम् ।

अथवा सान्यलोहैश्च युक्त्या तत्र दृढीकृतम् ॥२८॥

गुल्फे सन्धे ललाटे च श्रृङ्गायोमयपत्रकैः ।

बध्नीयात् सर्वयत्नेन यथाशोभं यथाबलम् ॥२९॥

मुकुलानन्तरं पत्रत्रिनेत्रा सूचिकायता ।

योगोदयत्रिभागैकनिखातं वा यथाबलम् ॥३०॥

तल्पतीव्रसमा तीव्रद्विगुणं विस्तृतान्विता ।

पद्मपत्रविचित्रा सा पट्टाङ्गस्कन्धपट्टिका ॥३१॥

प्रवेशदक्षिणे तल्पे स्थापितव्या मनोहरा ।

सार्गलं दक्षिणं योगं वामे योगं सतल्पकम् ॥३२॥

विदध्याद्वामहस्तेन तल्प दक्षिणपाणिना ।

घटिकां रोपयेद्‌ विद्वान्‌ युग्मेऽयुग्मे करेण तु ॥३३॥

घाटनोद्धाटने तल्पे स्वस्वनादांशपूजिते ।

भेरीसमानशब्दञ्च हस्तिसिंहस्वरोपमम् ॥३४॥

वीणावेणुस्वरं चैव शस्त्रं कन्धरगर्जितम् ।

क्रोशनं कूजनं सर्वमन्यच्चापि विनिन्दितम् ॥३५॥

अधस्तादुपरिष्टात्तु प्रशस्तं घाटनं समम् ।

सच्छिद्रान्त्यार्गलत्वं च योगार्गलविघट्टनम् ॥३६॥

बन्धुक्षयकरं शत्रुपीडनोपद्रवं सदा ।

स्वयमेव पिधानं यत् स्वयमपावृतं तु तत् ॥३७॥

तद्‌द्वारं बन्धुनाशाय सम्पदां सापदं पदम् ।

वृक्षकर्णावधिस्थूणकूपविद्धं तथैव च ॥३८॥

देवायतनविद्धं च वाथिविद्धं तथैव च ।

वल्मीकभस्मविद्धं च सिरामर्मादिविद्धकम् ॥३९॥

विषनाडीसमानं च फणिनां पदमेव च ।

स्थूलभावावनं रक्षद्वारं तल्लसितं वरैः ॥४०॥

गमनागमने गजोपरिष्टाद्‌ द्विजघातावरणस्पृशा च ।

क्षयदं नृपतेर्हितं तु यत्सपदेऽवनतं विशेषतः ॥४१॥

फुल्लप्रवेशने भूपः सुचिरं जीवितं ध्रुवम् ।

परराज्याधिपत्यं च क्षीणत्वं नैव याति सः ॥४२॥

द्वारस्थानानि

मध्यद्वारं तु देवानां द्विजानामवनीभृताम् ।

शेषाणामपि सर्वेषामुपमध्यं विधीयते ॥४३॥

द्वात्रिंशद्देवतांशेषु तेषु माहेन्द्रके पदे ।

राक्षसे पुष्पदन्ते च भल्लाटे च चतुर्ष्वपि ॥४४॥

तद्दिगीशानमाश्रित्य द्वारं कुर्यात् सुशोभनम् ।

अन्तर्द्वारबहिर्द्वारमेवं युञ्जीत बुद्धिमान्‍ ॥४५॥

शेषद्वाराणि सर्वाणि सर्वदोषप्रदानि हि ।

ब्रह्मणोऽभिमुखं ब्रह्मापरावृत्तं निषिध्यते ॥४६॥

किमनेन प्रलापेन द्वारमन्यद्‌ विगर्हितम् ।

विशालं व्यक्ततारं स्याद्व्यत्यस्तं रोगदायि तत् ॥४७॥

विवृते संवृते कार्ये स्थापिते स्थितिमद्‌ भवेत् ।

उपरिष्टादधस्ताच्च व्यासायामं समं शुभम् ॥४८॥

अतिदूरे सशब्दत्वमथ धावकधावनम् ।

दोषदं सततं पत्युर्विपदामास्पदं भवेत् ॥४९॥

जयन्ते वितथे चैव सुग्रीवे मुख्यके पदे ।

जलद्वारं प्रयोक्तव्यं क्रमादन्यद विवर्जितम् ॥५०॥

पर्जन्ये भृशभागे तु पूष्णि भृङ्गनृपे तथा ।

दौवारिके तु शोषांशे नगेऽदितिपदे क्रमात् ॥५१॥

उपद्वारं प्रयोक्तव्यं तत्सुरङ्गमिति स्मृतम् ।

एकद्वितलसंयुक्तं बहुरक्षसमन्वितम् ॥५२॥

पादाधिष्ठानयोर्मानं नीत्वा रोषं यदुन्नतम् ।

तत्तु तत्रोपपीठोच्चे पूर्वोक्तद्वारतुङ्गकम् ॥५३॥

पुरतो वर्णकं गुह्यं सोपानं तल्पसंयुतम् ।

द्वारगोपुरगम्भीरं गृही योगं निधापयेत् ॥५४॥

सीमा सालं च सीमान्तं वेश्माद्नामुदीरितम् ।

गोपुरमानानि

इदानी द्वारशोभादिगोपुरान्तं तु विस्तृतम् ॥५५॥

दैर्घ्यमुत्तुङ्गमानं तु सङ्‌क्षेपाद्‌ वक्ष्यते क्रमात् ।

पञ्चसप्तत्रित्रिधैकादशत्रयोदशमानतः ॥५६॥

प्रथमावरणे द्वारशोभाव्यासास्तु पञ्चधा ।

त्रिपञ्चाद्यात्रयोविंशद्‌ द्वारशाला विशालता ॥॥५७॥॥

पञ्चविंशत्कराद्यावत्त्रयस्त्रिंशत्करान्तकम् ।

द्वारगोपुरविस्तारं पञ्चैव परिगीयते ॥५८॥

विस्तारत्रितयो द्व्यंशं पादमर्धं त्रिपादकम् ।

तत्समं वाधिकं तेषामायमाः स्युः पृथक् पृथक् ॥५९॥

उत्तुङ्गं तु तथैवेष्टमथवोन्नतमिष्यते ।

पञ्चांशेभ्यश्च सप्तांशे सप्तांशेभ्यो दशांशके ॥६०॥

स्वव्यासादधिकोत्सेधं पूर्वोक्तानामुदीरितम् ।

एकतलगोपुरम्

वक्ष्यते द्वारशोभादिपञ्चधालङ्‌कृतिक्रिया ॥६१॥

द्विचतुष्कषडायामं नालीगेहं तदर्द्धतः ।

शेषं तु भित्तिविष्कम्भं मध्ये द्वारं प्रयोजयेत् ॥६२॥

त्रिवर्गमण्डपाकारं नाम्ना तच्छ्रीकरं भवेत् ।

तदेव परितो भक्त्या महावारसमन्वितम् ॥६३॥

संवृतं विवृतं वाऽपि लाङ्गलाकारभित्तिकम् ।

वारोपरिष्टात्सोपानं प्रस्तलस्तुलसंवृतम् ॥६४॥

सकलं दुस्तकं कोष्ठं काननं मुखपट्टिका ।

मध्यपादसमायुक्तं नासिका मध्यमे भवेत् ॥६५॥

महावारेऽष्टनासं स्याद्‍ ग्रामे तच्छीतमिष्यते ।

तदैकककरं कोष्ठं काननं मुखपट्टिका ॥६६॥

श्रीभद्रमेतदुद्दिष्टं नाम्ना सर्वेषु पूजितम् ।

एकभूमि त्रिधा प्रोक्तं द्वितलं वक्ष्यतेऽधुना ॥६७॥

द्वितलगोपुरम्

रतिकान्तम्

चतुष्षड्‌विस्तृतायामं द्वारतारं विशिष्यते ।

एकत्रिभागिकैर्व्यासायामं नालीगृह तथा ॥६८॥

अर्धांशं परितः कुड्यं बहिर्वारमथांशकम् ।

तदर्धं तद्बहिः कुर्यात् त्र्यंशगोपानमञ्चकम् ॥६९॥

सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् ।

महावारेष्टनास्यङ्गं शिखरं कोष्ठकाकृतिः ॥७०॥

मुखेऽमुखे महानासा द्विभागविस्तृतान्विताः ।

सभद्रं वा विभद्रं वा भद्रं पादसमन्वितम् ॥७१॥

प्रादक्षिण्येन सोपानं महावाराधिरोहणम् ।

नाम्नेदं रतिकान्तं स्यात् सर्वेषां रतिवर्धनम् ॥७२॥

कान्तविजयम्

तदेव शिखरं दभ्रचतुर्नासिसमन्वितम् ।

यत् कान्तविजयं नाम्ना सर्वेषां कान्तिवर्धनम् ॥७३॥

सुमङ्गलम्

प्रहीणशिखराकारं हारोपेतं तदेव हि ।

वारे परीतनास्यङ्गमेतन्नाम्ना सुमङ्गलम् ॥७४॥

एतद्‌ द्वितलकं प्रोक्तं त्रितलं वक्ष्यतेऽधुना ।

त्रितलगोपुरम्

चतुष्षड्‌विस्तृतायामं द्वारतारं विशिष्यताम् ॥७५॥

द्वारस्य पार्श्वयोर्वासावंशेनांशेन योजितौ ।

तत्तत्परिवृत्तं कुड्यमर्धांशेन विधीयते ॥७६॥

भागेन परितो वारं द्विकं चैवात्र नासिकम् ।

गेहद्वयं ससोपानं हारोपेतमुपर्यपि ॥७७॥

वास्तलं च तयोर्मध्ये द्वारतारं विधीयते ।

द्वारहर्म्यमिदं नाम्ना मर्दलं राजमन्दिरे ॥७८॥

मात्रखण्डम्

षट्‌पङ्क्तिविस्तृतायामं द्वारतारं विधीयते ।

द्वारस्य पार्श्वयोर्वासमेकैकांशेन योजितम् ॥७९॥

तत्तत्परिवृतं कुड्यमर्धभागेन सम्मतम् ।

बहिः परिवृतं वारमेकैकांशेन योजयेत् ॥८०॥

जलस्थलि तयोर्मध्ये द्वारतारं विधीयते ।

बहिष्ठात्परितो वारं भागेनैव समन्वितम् ॥८१॥

मासावृतं महावारं प्रत्येकं चेष्टनासिकम् ।

प्रहीणशिखराकारं हारोपेतमुपर्यपि ॥८२॥

नासिका बाह्यवारे तु द्विसप्त परिकीर्तिताः ।

द्वारसोपानमार्गं च युक्त्या तत्र प्रयोजयेत् ॥८३॥

मात्रखण्डमिदं नाम्ना राज्ञामेतज्जयावहम् ।

श्रीनिकेतनम्

व्यासायामे दशाष्टांशे द्वारतारं विशिष्यताम् ॥८४॥

नालीगृहं द्विभागेन गृहपिण्डिस्तदंशके ।

अलिन्द्रमर्धभागेन परितोऽन्धारमंशकम्॥८५॥

अंशेन परितोऽलिन्द्रं हारं भागेन योजयेत् ।

द्विभागं कूटविस्तारं शालायामं षडंशकम् ॥८६॥

विस्तारे चतुरंशेन कोष्ठकायाममिष्यते ।

हारा भागेन कर्तव्या चूलहर्म्यसमन्विता ॥८७॥

जलस्थलं तदेवाहुः कूटशालान्तरेऽपि वा ।

एवमादितलं प्रोक्तं द्वितले भागमुच्यते ॥८८॥

पूर्ववन्नालिगेहं च गृहपिण्डिमलिन्द्रकम् ।

अर्धेन परितः पिण्डिगोपानप्रस्तरान्वितम् ॥८९॥

उपरिष्टान्महावारमष्टनासिसमन्वितम् ।

शिखरं कोष्ठकाकारमायामार्धेन विस्तरम् ॥९०॥

मुखेऽमुखे महानासि द्विभागविस्तृतान्वितम् ।

उपर्युपरि वेशं च युक्त्या मध्याङ्‌घ्रिसंयुतम् ॥९१॥

प्राददक्षिण्येन सोपानमुपर्युपरि योजयेत् ।

सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् ॥९२॥

ऊहप्रत्यूहसंयुक्तं नाम्नेदं श्रीनिकेतनम् ।

त्रितलं त्रिविधं प्रोक्तं शुद्धमिश्रतयान्वितम् ॥९३॥

नानावातायनोपेतमन्तस्सालेशु सम्मतम् ।

अधुना सप्तभौमादि चतुर्भूमान्तमिष्यते ॥९४॥

सप्ततलगोपुरम्

भद्रकल्याणम्

द्विसप्ताष्टांशके व्यासाद्‌ द्वारतारं विशिष्यताम् ।

नालिगेहं द्विषड्‌भागं व्यासायामसभित्तिकम् ॥९५॥

परितो द्व्यंशमानेनालीन्द्रं कुर्याच्चतुष्टयम् ।

हाराचतुष्टयं कुर्यादर्धांशेन समन्ततः ॥९६॥

तद्बहिस्त्वेकभागेन परितोऽलिन्द्रमिष्यते ।

हारभागं तु भागेन गृहपिण्डिस्तदर्धतः ॥९७॥

हारभागेन कर्तव्यं पार्श्वयोः पञ्जरस्य तु ।

सप्रत्यङ्गसहामूलं भूमौ भूमावुपर्यपि ॥९८॥

त्रितले खण्डहर्म्यादिमण्डितं वाःस्थलान्वितम् ।

उपर्युपरि च ग्रीवे महावारचतुष्टयम् ॥९९॥

उपर्युपरि युक्त्याङ्‌घ्रिं योजयेद्‌ द्वारमध्यमे ।

अयुग्मस्थूपिकोपेतशिरसाम्याङ्गपट्टिका ॥१००॥

तोरणैर्जालकैः क्षुद्रनीडैः सम्यग्‌ विचित्रितम् ।

तले तले महावारे युक्त्या नास्यङ्गसंयुतम् ॥१०१॥

द्वारस्योभयपार्श्वे तु कूटशालान्तरे ततः ।

उपपीठादिरोहार्थं सोपानं चारमिष्यते ॥१०२॥

सोपनाङ्गणकूटस्य त्रिखण्डं श्रृङ्गमण्डलम् ।

उपर्युपरि सोपानं युक्त्या तत्र प्रयोजयेत् ॥१०३॥

भद्रकल्याणमित्युक्तं नाम्नेदं द्वारगोपुरम् ।

तदेव शिखरे मध्ये नासिका पार्श्वयोर्द्वयोः ॥१०४॥

मुखेऽमुखे तु नास्यङ्गयुक्तं तस्य सुभद्रकम् ।

भद्रसुन्दरम्

द्व्यंशं वारितलं गर्भगेहे तत्पार्श्वयोर्द्वयोः ॥१०५॥

द्विभागं चतुरस्त्राभं चतुर्नास्यङ्गसौष्ठिकम् ।

भद्रसुन्दरमित्युक्तं नाम्ना तत्तत एव हि ॥१०६॥

द्विरष्टद्विनवांशेन व्यासे पार्श्वे नियोजयेत ।

स्वव्यासांशं चतुर्भागेऽप्यधिकं स्यात्तदायतम् ॥१०७॥

शेषं युक्त्या प्रकर्तव्यं शुद्धमिश्रतयान्वितम् ।

षट्‍तलगोपुरम्

एवं सप्ततलं ज्ञात्वा नाम्ना तत् त्रिविधं भवेत् ॥१०८॥

तदेवाधःस्थलं त्यक्त्वा षट्‍तलं यत्क्रमेण तु ।

सुबलं सुकुमारं च सुन्दरं चेति कीर्तितम् ॥१०९॥

पञ्चतलगोपुरम्

द्विसप्तविस्तारायामे द्वारतारं विशिष्यताम् ।

गृहपिण्डिं च गेहं च पूर्ववत् परिकल्पयेत् ॥११०॥

हारालिन्द्रं तु पञ्चार्धार्धांशेन परितः क्रमात् ।

अलीन्द्रं बाह्यभित्तिं च भागेनांशेन योजयेत् ॥१११॥

अङ्गणे सौष्ठिकद्व्यंशं शालायामं षडंशकम्६ ।

जलस्थलं त्रिभागेन कूटशालान्तरे विदुः ॥११२॥

विस्तारे वाःस्थलं द्व्यंशं महावारत्रयान्वितम् ।

शेषं पूर्ववदुद्दिष्टं पञ्चभूमं यथाक्रमम् ॥११३॥

श्रीच्छन्दं श्रीविशालं च विजयं चेति कीर्तितम् ।

नाम्नेदं त्रिविधं प्रोक्तं नानवयवशोभितम् ॥११४॥

चतुस्तलगोपुरम्

तदेव व्यासव्यायामे द्व्यंशेन परिवर्जिते ।

महावारद्वयोपेतं कूटकोष्ठं च पूर्ववत् ॥११५॥

ललितं चैव कल्याणं कोमलं च त्रिधा मतम् ।

नाम्ना चतुस्तलं चैव ग्रामादीनां च वेश्मनाम् ॥११६॥

सामान्यविधिः

त्रिद्व्येकालीन्द्रयुक्तं वा सप्तभौमादिषु त्रिषु ।

शेषं कुड्ये प्रयोक्तव्यं त्रित्रिकैरपि कारयेत् ॥११७॥

यथाबलं यथाशोभं तथा मण्डनमण्डितम् ।

स्तम्भायामं विशालं च प्रस्तरं पूर्ववद्‌ भवेत् ॥११८॥

ऊर्ध्वभूमेरधोभूमेरवधिः प्रतिरिष्यते ।

प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ॥११९॥

एकादिसप्तान्ततलानि युक्त्या त्रिसप्तभेदानि हि तानि नाम्ना ।

प्रोक्तानि विप्रादिचतुष्टयानां मयेन वेशायतनानि वासे ॥१२०॥

आद्यत्रयं सकलवर्णहितं तदेवै-

श्वर्योपयुक्तमनुजेषु विधीयते हि ।

ग्रामाग्रहारपुरपत्तनके द्वितीयं

सर्वं नृपेशभवने विहितं सुराणाम् ॥१२१॥

इति मयमते वस्तुशास्त्रे द्वारविधानं नाम त्रिंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:28.1900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वांझेला वेणा काय माहीत?

  • प्रसूति पहा. न हि वंध्या विजानाति गुर्वी प्रसववेदनाम्‍ । ‘ प्रसवे तीच अभिज्ञा ( शल्य ) तैसी न वांझ वेणेची॥ ’ -मोकर्ण. 
RANDOM WORD

Did you know?

आगमशास्त्राबद्दल माहिती मिळावी.
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.