TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ षोडशोऽध्यायः

मयमतम् - अथ षोडशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अथ षोडशोऽध्यायः

प्रस्तरकरणम्

उत्तरादिवृतेरन्तं प्रस्तारावयवं क्रमात् ।

संवक्ष्ये क्षिप्य सर्वेषां हर्म्याणामथ योग्यक्रम् ॥१॥

उत्तरवाजनौ

उत्तरं त्रिविधं पादविस्तारं तत्समोद्गमम् ।

त्रिपादोदयमध्योच्चं विस्तारं पादतः समम् ॥२॥

खण्डोत्तरं पत्रबन्धं रूपोत्तरमिति त्रिधा ।

त्रिपादं वा त्रिभागोनमर्धं वा कर्णनिर्गमम् ॥३॥

स्वस्तिकं वर्धमानं च नन्द्यावर्तसमाकृतिः ।

सर्वतोभद्रवृत्तिर्वा प्रत्युत्तरनिवेशनम् ॥४॥

त्रिभागैकं चतुर्भागं वाजनं निर्गमोद्गमम् ।

चतुरस्त्रं सपर्णाग्रं तदूर्ध्वे मुष्टिबन्धनम् ॥५॥

तुलाच्छेदेन वा कुर्यात् पृथग्वा वाजनोपरि ।

स्तम्बार्धविपुलं स्वार्धं तीव्रं पट्टाम्बुजक्रियम् ॥६॥

सनालिकमधस्तात्तु वाजनाद्‍ दण्डनिर्गमम् ।

प्रमालिका

मूलाग्रयोः शिखोपेता तदूर्ध्वे तु प्रमालिका ॥७॥

स्तम्भव्याससमोच्चा वा त्रिचतुर्भागतीव्रका ।

कुम्भमण्डियुताग्रा च हस्तिमुण्डकसन्निभा ॥८॥

दण्डिका

दण्डिकासमनिष्क्रान्ता तदूर्ध्वे दण्डिका भवेत् ।

स्तम्भार्धविपुला स्वार्धतीव्रा नीव्रार्धनिष्क्रमा ॥९॥

मुष्टिबन्धसमाकारचतुरस्त्रा यथा तथा ।

वलयं गोपानञ्च

यथेष्टविपुलोत्तुङ्गं तत्तुङ्गसमवेशनम् ॥१०॥

वलयं स्यात्तदूर्ध्वे तु गोपानं वा तदूर्ध्वतः ।

मुष्टिबन्धविशालोच्चा पट्टिकाक्षेपणाम्बुजा ॥११॥

छित्त्वार्पितावशिष्टा तु दण्डिकोपरि पट्टिका ।

तस्यां छित्त्वा तु तन्मानं गोपानं चार्पयेद्बुधः ॥१२॥

उत्तरान्तावलम्बं वा यथामुक्ति यथारुचि ।

वाजनोर्ध्वे तुलोर्ध्वे वा गोपानं योजयेद्बुधः ॥१३॥

तुलान्तरसमं गोपानान्तरं प्रविधीयते ।

गोपानदण्डिकोर्ध्वं चेद्वाजनान्तावलम्बनम् ॥१४॥

दण्डार्धविपुलं स्वार्धं तीव्रं गोपानमूर्ध्वतः ।

कम्पं समान्तरं कुर्याद्‌ वलयच्छिद्रमन्तरे ॥१५॥

कायपादम्

दण्डिकावाजनान्तःस्थं कायपादं यथांशकम् ।

पादविस्तारमर्धार्धनिष्क्रान्तं साग्रपट्टिकम् ॥१६॥

पादानामन्तरं छाद्यं फलकैः सारदारुजैः ।

अष्टांशबहलं छन्नफलकाच्छाद्यमूर्ध्वतः ॥१७॥

गोपानस्योपरिष्टात्तु च्चादयेल्लोहलोष्टकैः ।

कपोतपालिकोत्सेधनिष्क्रान्तं द्वित्रिदण्डकम् ॥१८॥

एकहस्तं द्विहस्तं वा क्षुद्र महति मन्दिरे ।

यथाशोभं यथाचित्रं कपोते कर्णपालिका ॥१९॥

तथा मध्यस्थिता वाऽपि सौधे सैले समाहिता ।

वाजनम्

विधेया वाजनस्योर्ध्वे भूतहंसादिकावलिः ॥२०॥

दण्डोच्चा वा त्रिपादोच्चा वाजनं पूर्ववद्भवेत् ।

कपोतालम्बनं तत्स्याद्दण्डार्धं वाऽथ दण्डकम् ॥२१॥

अध्यर्धादित्रिदण्डान्तं कपोतोच्चविनिर्गतम् ।

वसन्तकं वा निद्रा वा विधेया वाजनोपरि ॥२२॥

त्रिपादोच्चा तदूर्ध्वं स्यात्कपोतोच्चं तु पूर्ववत् ।

कपोतम्

एवं स्याद्‍ दृढकल्प्यं तच्छिलयेष्टकमात्रकैः ॥२३॥

यथाप्रयोगं स्थैर्यं तु तथा योज्यं विचक्षणैः ।

कपोतोच्चत्रिभागं वा पादं वा क्षुद्रनिष्कृतिः ॥२४॥

कपोते नासिका क्षुद्रे नीव्रोर्ध्वे स्थितकर्णिका ।

सपाददण्डा वाध्यर्धं द्विदण्डं विस्तृता स्थिता ॥२५॥

सिंहश्रोत्रशिखालिङ्गं पट्टिकान्तस्य पट्टिका ।

विधेया स्वस्तिकाकृत्य नासिकोर्ध्वे तु नासिका ॥२६॥

कुक्षिमानं शिखामानं यथाशोभनमेव वा ।

प्रतिवाजनकस्योर्ध्वे नेष्यते नासिकोच्छ्रयम् ॥२७॥

प्रस्तरोर्ध्वभागम्

आलिङ्गं पादपादोच्चं पादात् पादविनिर्गतम् ।

तस्मादन्तरितं चोर्ध्वे निष्क्रान्तावेशनक्रियम् ॥२८॥

त्रिपट्टाग्रं हि पादोच्चं पादे पादान्तरे स्थितम् ।

दण्डं त्रिपादमर्धं वा प्रत्युत्सेधं तदूर्ध्वतः ॥२९॥

स्वोच्चत्रिपादनिष्क्रान्ता प्रतिरर्धेन वा तथा ।

दण्डः सपादः सार्धो वा प्रतिवक्त्रं विनिर्गमः ॥३०॥

तावदूर्ध्वोद्गतिस्तस्याः प्रागुक्तविधिना कुरु ।

सव्याला वा ससिंहेभा ऋज्वी वा स्यात्प्रतेः कृतिः ॥३१॥

तदुच्चत्रिचतुर्भागं वाजनं निर्गमोद्गमम् ।

समकरं चित्रखण्डं नागवक्त्रमिति त्रिधा ॥३२॥

नागवक्त्रं नागफणं स्वस्ताकृतिशिरःक्रियम् ।

तैतिलानां द्विजातीनां भवेत् समकरा प्रतिः ॥३३॥

चतुरस्त्रं तु खण्डाग्रं मकरं चित्रखण्डकम् ।

नृपाणां वणिजां शूद्रजन्मनामर्धचन्द्रकम् ॥३४॥

हस्तिरूपं भवेन्मुण्डं प्रत्यग्रं चित्रसन्निभम् ।

ककरं कर्कटं बन्धमन्यदप्येवमूह्यताम् ॥३५॥

तुलादिबन्धम्

वाजनोर्ध्वे वलीकोर्ध्वे तुलां सम्यङ् निवेशयेत् ।

दण्डोच्चं वा त्रिपादोच्चमर्धतारसमन्वितम् ॥३६॥

त्रिचतुष्पज्चदण्डेन दीर्घं तत्साग्रनालिकम् ।

सव्यालाग्रं सम्भृताग्रं पार्श्वाङ्गस्थतरङ्गवत्॥३७॥

वलीकं स्याद्वलीकोर्ध्वे कर्तव्या वर्णपट्टिका ।

दण्डार्धार्धविशालोच्चा निश्छिद्रं स्यात्तदन्तरे ॥३८॥

फलकैश्च तदूर्ध्वे तु दण्डोत्सेधा तुला स्थिरा ।

त्रिपादविस्तृता न्यस्ता प्रवेशानुगता शुभा ॥३९॥

तुलाविस्तारतारोच्चा जयन्ती स्यात्तुलोपरि ।

अर्धदण्डेन तत्रोच्चा जयन्त्यूर्ध्वेऽनुमार्गकम् ॥४०॥

तदूर्ध्वे फलका पादपादषड्‌भागतीव्रकाः ।

इष्टकाचूर्णसङ्घातप्रस्तरस्तम्भविस्तरम् ॥४१॥

करालमुद्गिगुल्मासकल्कचिक्कणकर्मवान् ।

उत्तरं वाजनं चैव तत्पार्श्वानुगतं भवेत् ॥४२॥

तुला द्वारानुयाता हि जयन्ती तिर्यगागता ।

अनुमार्गं तदूर्ध्वे तु द्वारस्यानुगतं शुभम् ॥४३॥

द्वारतिर्यग्गता वाऽथ तुला देवनृपेशयोः ।

त्रिदण्डं वा द्विदण्डं वा स्याद्वलीकतुलान्तरम् ॥४४॥

द्विदण्डं सार्धमध्यर्धं जयन्त्यन्तरमिष्यते ।

दण्डान्तरमनु मार्गं निश्छिद्रं स्यात्तदूर्ध्वतः ॥४५॥

अथ चित्रविचित्राङ्गा विधेया प्रस्तरक्रिया ।

क्षुद्राणां तु तुलादीनि यथा स्थैर्यं तथाचरेत् ॥४६॥

विरूपं वा सरूपं वा सर्वमङ्गं प्रयोजयेत् ।

तुलाद्रव्योपरिष्टात्तु फलकाच्छादनं तु वा ॥४७॥

इष्टका वा पिधातव्या शेषं पूर्ववदाचरेत् ।

प्रस्तरमानम्

पङ्‌क्त्यष्टभागविकलं हि मसूरकोञ्चा-

न्मञ्चोन्नतं मतमथो तलिपार्धकं वा ।

यावद्‌ बलं विपुलसुन्दरतां समेति

तावद्‍ विधेयमधुना विधिना विधिज्ञैः ॥४८॥

लेपः

मधुघृतदधिदुग्धं माषयूषं च चर्म

कदलिफलगुलञ्च त्रैफल नालिकेरम् ।

क्रमवशमनुभागैर्वर्धितं लब्धचूर्णं

शतमथ कृतमस्य द्वैगुणं शर्करास्तु ॥४९॥

युग्मायुग्ममानम्

हतस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुग्मं यथा

युग्मायुग्मकसंख्यया सुरगृहे युञ्जीत हस्तादिकान् ।

द्वारम्

मध्ये द्वारमनिन्दितं सुरमहिदेवक्षितीशालये

शेषाणामुपमध्यमेव विहित तत्सम्पदामास्पदम् ॥५०॥

वेदिः

प्रतेरुपरि वेदिः स्यात् सार्धद्वित्र्यङ्‌घ्रिणोदयम् ॥५१॥

द्वौ षट्‌ चत्वारि कम्पानि पादपादघनानि च ।

पद्मशैवलपत्रादिचित्राङ्गा वेदिका मताः ॥५२॥

कम्पाधस्तात् प्रयोज्या हि स्तम्भास्तत्रैव युक्तितः ।

ऊर्ध्वाधः कम्पवत् पद्मपट्टिकं चाग्रबन्धनम् ॥५३॥

जालकानि

वेदिकोपरि योज्यानि जालकानि विचक्षणैः ।

त्यक्त्वा भित्त्यङ्‌घ्रिमध्यं तु चतुर्दण्डान्तविस्तृतम् ॥५४॥

द्विदण्डादिनिजव्यासाद्विगुणं तुङ्गमीरितम् ।

सार्धमङ्‌घ्र्न्यूनकं वोच्चं त्यक्त्वा मध्याङ्‌घ्रिरन्ध्रकम् ॥५५॥

युग्मायुग्माङ्‌घ्रिभिः कम्पैर्युक्तं तुङ्गे च वैपुले ।

गवाक्षं कुञ्जराक्षं च नन्द्यावर्तमृजुक्रियम् ॥५६॥

पुष्पखण्डं सकर्णं च योजितव्यं यथोचितम् ।

दीर्घास्त्रं कर्णकच्छिद्रं तद्‍ गवाक्षमिति स्मृतम् ॥५७॥

युगास्त्रं कर्णकच्छिद्रं कुञ्जराक्षमिति स्मृतम् ।

पञ्चसूत्रमयच्छिद्रं प्रदक्षिणवशात् कृतम् ॥५८॥

नन्द्यावर्ताकृतिवशान्नन्द्यावर्तमिति स्मृतम् ।

स्तम्भतिर्यग्गतं कम्पमृजुत्वात्तदृजुक्रियम् ॥५९॥

पुष्पखण्डं सकर्णं च नन्द्यावर्तं तथोच्यते ।

भित्तिमध्याद्बिहिस्तस्य स्तम्भयोगं कवाटयुक्‍ ॥६०॥

कवाटयुगलं वैकं घाटनोद्धाटनक्षमम् ।

पादवर्गे भवेद्‌ ग्रीवावर्गे वातायनस्थितिः ॥६१॥

गुलिकाजालकं धामविन्यासाकृतिरन्ध्रकम् ।

स्वस्तिकं वर्धमानं च सर्वतोभद्रसन्निधम् ॥६२॥

भित्तिः

द्रुमोपलेष्टकाद्रव्यैर्युक्त्या युञ्जीत बुद्धिमान् ।

जालकं फालकं कुड्यमैष्टकञ्च त्रिधा मतम् ॥६३॥

जालकं जालकैर्युक्तमिष्टकामयमैष्टकम् ।

फालकं फलकोपेतं भित्तिमध्येऽङ्‌घ्रिसंयुतम् ॥६४॥

भित्तिबन्धनमूर्ध्वाधःपद्मसङ्घपट्टपट्टिकम् ।

पादपादषडष्टांशबहला फलका भवेत् ॥६५॥

शिबिकाकुड्यवद्‍ वाऽथ सर्वत्र फलकामयम् ।

एतत्तु फलकाकुड्यं यत्तु यत्र यथोचितम् ।

तदेव तत्र योज्यं स्याद् वस्तुविद्याविचक्षणैः ॥६६॥

एवं प्रोक्तं प्रस्तरं वेदिकाङ्ग युक्त्या तज्ज्ञैर्जालकं च त्रिकुड्यम् ।

नैव च्छेद्या वेदिका जालकार्थं न प्रत्यङ्गं सर्वतश्छेदनीयम् ॥६७॥

इति मयमते वस्तुशास्त्रे प्रस्तरकरणं

नाम षोडशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:20.6100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विधातृ

  • n. ब्रह्मा का एक मानसपुत्र, जो भृगु ऋषि एवं ख्याति का पुत्र कहलाता है । इसके धातृ एवं श्री नामक दो भाई थे । अपने इन भाईयों के साथ, यह शिशुमार पर्वत पर रहता था । कमलों में निवास करनेवाली लक्ष्मी इसकी बहन थी । मेरुकन्या नियति इसकी पत्नी थी, जिससे इसे प्राण नामक पुत्र उत्पन्न हुआ था [भा. ४.१.४३-४४] 
RANDOM WORD

Did you know?

ऐश्वर्याचे प्रकार किती व कोणते?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.