TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ अष्टादशोऽध्यायः

मयमतम् - अथ अष्टादशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अथ अष्टादशोऽध्यायः

(प्रासादोर्ध्ववर्गाः)

गलभूषणमेतेषां शिरश्छन्दमथाधुना ।

लुपामानं च वक्ष्येहं स्थूपिकालक्षणं क्रमात् ॥१॥

गललक्षणम्

वेदिकाद्विगुणोत्सेधं कन्धरं शिखरोदयम् ।

तद्द्वित्रिगुणतुङ्गं वा वेदिकोच्चं तु वा गलम् ॥२॥

गर्भभित्तित्रिभागैकमङ्‌घ्रेर्वेद्यङ्‌घ्रिवेशनम् ।

ग्रीवावेशं ततस्तावदेवं दैवे च मानवे ॥३॥

पञ्चांशे भित्तिविष्कम्भे भागो वेद्यङ्‌घ्रिवेशनम् ।

ग्रीवावेशं ततस्तावच्चतुरंशे तथैव च ॥४॥

एवं त्रिविधनीत्या तु ग्रीवा साध्या प्रयत्नतः ।

उत्तरं वाजनं चैव मुष्टिबन्धं मृणालिका ॥५॥

दण्डिकावलयं चैव गलभूषणमिष्यते ।

मुष्टिबन्धोपरि क्षिप्तव्यालनाटकमूर्ध्वतः ॥६॥

दण्डिका च विधातव्या तदूर्ध्वे शिखरक्रिया ।

शिखरभेदाः

शिखरोत्सेधमात्तोच्चा भागमानवशेन वा ॥७॥

दण्डिकावधिविस्तारं पञ्चांश द्व्यंशमानकम् ।

सप्तनन्दशिवांशे तु त्रयोदशतिथौ तथा ॥८॥

सप्तदशांशके बन्धवेदभूतषडंशकम् ।

सप्तष्टांशं तु तारार्धमित्यष्टौ शिखरोदयाः ॥९॥

पाञ्चालं चापि वैदेहं मागधं चापि कौरवम् ।

कौसलं शौरसेनं च गान्धारावन्तिकं तथा ॥१०॥

यथाक्रमेण नामानि ज्ञातव्यानि विचक्षणैः ।

जघनाद् बहिरेवैते एकाः सर्वे समाहिताः ॥११॥

सर्वे ते तैतलानां स्युरर्धादधस्तु मानुष‍म् ।

तद्दशाद्यासप्तदशभागादेकांशवर्धनात् ॥१२॥

आवन्तिका प्रभृत्यूर्ध्वमष्टाविष्टलुपोदयाः ।

व्यामिश्रं च कलिङ्गं च तथा कौशिकमेव च ॥१३॥

वराटं द्राविडं चैव बर्बरं कोल्लकं पुनः ।

तथा शैण्डिकमित्येते व्यामिश्रादिलुपोदयाः ॥१४॥

शिखराकृतिः

देवानां प्रथितान्येव पाषण्ड्यास्त्रमिनणामपि ।

चतुरस्त्रं च वृत्तं च षडस्त्राष्टास्त्रमेव च ॥१५॥

द्वादशास्त्रं द्विराष्टस्नं पद्मकुड्‍मलसन्निभम् ।

तथमलकपक्वाभं दीर्घवृत्तं च गोलकम् ॥१६॥

अष्टास्त्राद्यष्टधाराणि हर्म्यादीनां शिरांसि हि ।

षडाद्याषष्टिकर्णं च सम्मतं शिखराकृतिः ॥१७॥

स्थूपिकोत्सेधः

तदुच्छ्रयचतुष्पञ्चभागं स्यात् पद्मतुङ्गकम् ।

तत्समोच्चत्रिभागा वा तदूर्ध्वे स्थूपिकायतिः ॥१८॥

अल्पीयसी शिरोर्धा वा भागोच्चा वा त्रिभागिके ।

सङ्‌क्षेपात् स्थूपिकाभूषा ह्युपरिष्टात् प्रकाश्यते ॥१९॥

लुपासंख्या

पञ्चाद्येकादशान्ताश्च चतुराद्या दशान्तकाः ।

चतुर्विधा लुपासंख्या देवेऽदेवे निकेतने ॥२०॥

पुष्करम्

पूर्वोक्तं ह्यन्तरोच्चं तु व्यामिश्रं नाम पुष्करम् ।

ऊर्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्धमानतः ॥२१॥

अर्धमारभ्य संवर्त्य पञ्चादुक्तोच्चसीमयक् ।

आरोह्याण्यवरोह्याणि गुह्यमेतदुदाह्रतम् ॥२२॥

लुपामानम्

दण्डिकावधि तारार्धं चतुरस्त्रीकृतं समम् ।

कोष्णीषसानसीमाख्यसूत्रयुक्तं खलं नयेत् ॥२३॥

दण्डिकोत्तरबाहूल्यं सूत्रयेदासनादधः ।

आसने चतुरंशाद्यादंशांशं बिन्दु विन्यसेत् ॥२४॥

कोष्णीषसन्धेस्तद्बिन्दु सीमच्छायोच्चमावहेत् ।

छायोच्चायतमानानि कमूलादासने न्यसेत् ॥२५॥

तान्येव दण्डिकादीनां पर्यन्तानि भवन्ति हि ।

कोष्णीषसङ्गात् पर्यन्तबिन्द्वन्तं तल्लुपायतम् ॥२६॥

तत्तत्पर्यन्तविस्तारं कसूत्रे विन्यसेत् पुनः ।

स्वस्वकर्णगतच्छायामानैः सर्वान् विमानयेत् ॥२७॥

तत्तत्पर्यन्तसूत्राणि मल्लपर्यन्तसूत्रवत् ।

एवं मध्यलुपासीम्नो वर्धन्ते वर्णसंख्यया ॥२८॥

एवमावर्त्य तत्पश्चादारोह्यैवावरोह्य च ।

तत्तत्पुष्करसञ्जातं तत्तन्मल्लायतं विदुः ॥२९॥

पञ्चलुपाभेदाः

समध्यं च विमध्यं च लुपाकलनमेव हि ।

मध्यं च मध्यकर्णं चाप्याकर्णमनुकोटिकम् ॥३०॥

कोटिरित्येवमुच्यन्ते पञ्च वर्णलुपाः क्रमात् ।

युग्मांशेऽयुगम्संख्याभिरयुग्मे युग्मसंख्यया ॥३१॥

कानतान्तरासिकोष्णीषसीमान्त स्वांशसंख्यया ।

चूलिका भ्रमणीया हि समयासमया च सा ॥३२॥

तत्तसूत्रात् स्तिता दन्तस्तनसूत्राणि सूत्रयेत् ।

शयितसूत्रादधः पृष्ठवंशसूत्राणि सूत्रयेत् ॥३३॥

शयितस्थितसूत्रान्तः कीलं तत्कूटमूर्धनि ।

निधायार्धेन्दुवत् सर्वाश्चूलिका विलिखेत् समाः ॥३४॥

लुपाविलुपमध्यान्तर्गता सा चूलिकाकृतिः ।

एवं स्याद् ऋजुकार्यं हि तथा कुक्कुटपक्षवत् ॥३५॥

बालकूटस्य विस्तारस्थितसूत्रस्तनान्तरे ।

कूटमध्यमसूत्रं तु वलयच्छिद्रमध्यगम् ॥३६॥

पर्यन्तसूत्रकादन्तर्दण्डिकोत्तरजा ततिः ।

तदन्तर्जानुकव्यासस्तदन्तश्चूलिकास्थितिः ॥३७॥

शिखरावयवमानानि

लुपातारं तु दण्डं वा सपादं सार्धमेव वा ।

विस्तारत्रिचतुष्पञ्चभागैकांशं तु तद्धनम् ॥३८॥

जानुव्यासं चोत्तरार्धचूलिकार्धधिमेव वा ।

दण्डिकाविपुलं तावत् त्रिपादार्धं तु तद्धनम् ॥३९॥

वलयं जानुनीव्र च दण्डिकाविपुलार्धतः ।

मल्लमध्यादिचामीली जानुकालम्बनं च यत् ॥४०॥

पर्यन्तजानुकान्तं च चूलिकाभाग एव सः ।

शयनात् तावदेव स्यान्नीव्रालम्बसूत्रकम् ॥४१॥

कुठारिकाललाटं च जघनं स समं मतम् ।

पादविष्कम्भकर्णो वा विष्कम्भद्विगुणोऽथ वा ॥४२॥

कूटव्यासो लुपापिण्डी कर्णस्तद्द्विगुणायतः ।

तदर्धं नालिकालम्बमूर्ध्वे मल्लाग्रसङ्गतिः ॥४३॥

छिद्रं तत्तीव्रमात्रं स्यानमल्लानां तु प्रवेशनम् ।

जानुकं च लुपामध्यं मध्यपृष्ठस्थवंशकम् ॥४४॥

समं स्यात् तीव्रताराभ्यां चूल्यंशो वा लुपान्तरम् ।

लुपातीव्राष्टगुणं वा वलयो वंशविस्तरः ॥४५॥

छादनम्

तदर्धं वेशनं तीव्रं फलकैर्लोहलोष्टकैः ।

मृण्मयैस्तु यथास्थैर्यमिच्छया छादयेत् पुनः ॥४६॥

लुपोर्ध्वे फलकान् न्यस्य वाष्टबन्धमधोर्ध्वतः ।

वलयसन्धिः

लुपामध्यादधश्छिद्र वलयस्य विधीयते ॥४७॥

क्रियायां परलेखास्तु कल्प्याः षोडशसंख्यया ।

कुक्षिव्यासाष्टभागैकं मात्रामानमिति स्मृतम् ॥४८॥

तेन भागेन सप्तार्धाद् द्वयर्धभागविवर्धनात् ।

आपञ्चदशसंक्यान्ताः परलेखास्तु षोडश ॥४९॥

लुपाध ऊर्ध्वबिन्द्वादि मध्ये विन्यस्य तद्विधिम् ।

तद्बिन्द्वादि विलोक्या हो परलेखा विचक्षणैः ॥५०॥

प्रासादानामिमाः प्रोक्ता गृहादीनां च षोडश ।

लुपायामाद्याद्द्विगुणं तन्मानं तेन बुद्धिमान् ॥५१॥

कोष्णीषासनसूत्राभ्यामधः शफरमालिखेत् ।

तस्मादुपरि मल्लस्य लेखयेत् तद्विचक्षणः ॥५२॥

मल्लायतादधोभागे त्रिःपञ्चांशीकृतेः क्रमात् ।

तत्तदंशावसानं तु मत्स्यं तत्तत् समुल्लिखेत् ॥५३॥

सर्वासां परलेखानां क्रमोऽयं परिकीर्तितः ।

पाञ्चालादिलुपानाम च प्रत्येकं प्रोच्यते बुधैः ॥५४॥

ऋजाकार्ययुता मल्लाद् या लेखासनकाग्रयोः ।

मध्ये परं हि सा प्राज्ञैः परलेखा प्रकीर्तिता ॥५५॥

घटिका

लुपाबाहुल्यमानेन घटिकां चतुरश्रिकाम् ।

वितस्त्यायामिनीमृज्वीं कृतमध्यमसूत्रिताम् ॥५६॥

चूलिकान्तर्वर्णलुपातिर्यक्‍ सूत्रस्वमध्यमात् ।

विन्यस्य घटिकां पश्चाच्छिन्नां शमनसूत्रवत् ॥५७॥

प्रतिवर्णं तु घटिकां तद्वर्णे तां निधापयेत् ।

क्षिप्तसूत्रस्य शेषांशच्छिन्ने वर्णलुपादरे ॥५८॥

दण्डिकोत्तरवलयस्थितसूत्रसमं लिखेत् ।

उदरायाममध्ये तु लिखिते ककरं भवेत् ॥५९॥

घटिकाललाटमध्यं ककरं च समं यथा ।

तथा निधाय घटिकां लुपोदरवशायताम् ॥६०॥

तल्ललाटकृतिच्छेद्या वलयाद्या लुपोदरे ।

इष्टपार्श्वे क्षिपेच्छायां छिद्रैश्च वलयस्य तु ॥६१॥

तत्तद्धटिकया तत्तन्मध्यसंहितमध्यया ।

या ललाटगतच्छाया तासां तासां तु सा भवेत् ॥६२॥

दण्डिकावलयच्छिद्रस्तनजानूत्तरादिषु ।

शिरोमध्येऽर्धमध्ये च न्यसेन्मुण्डतुलोपरि ॥६३॥

विटभागशिखोपेततुलापादः सवंशह्रत् ।

सवर्णा मत्स्यबन्धाश्च खर्जूरपत्रसन्निभाः ॥६४॥

पुनश्छादनम्

सवलयक्षो विधातव्या लुपाः शिखरकान्तरे ।

लुपोर्ध्वे फलकं वोर्ध्वे तस्याः कम्पं निधाय च ॥६५॥

इष्टकासुधया वाऽपि प्रच्छादनमलङ्‌क्रियात् ।

स्थूपिकाकीलम्

स्थूपिकाकीले दीर्घं च पादोत्सेधसमं मतम् ॥६६॥

अर्धार्धमग्रविस्तारं दण्डार्धं मूलविस्तृतम् ।

आशङ्कुमूलमुण्डान्तं तस्य मूलस्य वेधनम् ॥६७॥

वंशाधस्तान्निधातव्या मण्डनागाग्रपट्टिका ।

बालकूटस्तनं शङ्कुमूलमुण्डकमेव च ॥६८॥

अन्तःस्थवलयं वर्णपट्टिका च सनालिका ।

मत्स्यबन्धनखर्जूरपत्रमल्लनिबन्धनात् ॥६९॥

वलक्षस्वस्तिधाराभिः शिखरान्तरलङ्‌क्रियात् ।

विस्तारो मुखपट्ट्याश्च दण्डयो वाध्यर्ध एव वा ॥७०॥

नीप्रं षडष्टभागं वा कर्णिकोच्चं तु तत्ततिः ।

शक्तिध्वजस्य मूलस्य विपुलं दण्डमानतः ॥७१॥

तत्कण्ठं तावदेवोच्चं सपादं सार्धमेव वा ।

ग्रीवान्तगग्रपत्रं तु स्तम्भव्यासार्धतुङ्गवत् ॥७२॥

द्विदण्डादित्रिदन्डान्तमन्तरं गग्रपत्रयोः ।

वाताहतचलच्चारुलतावत् कर्णिकाक्रिया ॥७३॥

अर्धकर्णमधस्तस्माच्छिरोऽर्धार्धेन चानतिः ।

ग्रीवोपरि कपोलान्तं त्रिदण्डं सार्धमेव वा ॥७४॥

तावच्छक्तिध्वजान्तं स्यात् सपत्रं वा सशूलकम् ।

नेत्रसंश्लिष्टमल्लं तु चूलिकास्तनमण्डलम् ॥७५॥

शयितस्थितपट्टाभ्यां मृणाल्यादिविभूषितम् ।

अर्धकर्णोर्ध्वपट्टोर्ध्वप्रत्यूर्ध्वे मुष्टिबन्धनम् ॥७६॥

यथोशोभननिष्क्रान्तं त्रिमुखं स्यात् तदूर्ध्वतः ।

शूलाभं मतलाभं वा सव्यालं वा सनाटकम् ॥७७॥

ललाटभूषणम्

तदूर्ध्वे कूटकोष्ठादिमण्डितं स्याद् विमानवत् ।

सपट्टक्षुद्रकम्पाङ्गं मध्यतोरणमेव वा ॥७८॥

तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुजासिका ।

एवंविधैरथान्यैश्च मण्डनीया ललाटिका ॥७९॥

ललाटवंशसंविद्धमध्यशूलदृढीकृता ।

स्तम्बविस्तारविस्तीर्णा विधातव्या कुठारिका ॥८०॥

तत्कर्णं पत्रमकरं मण्डितं चावलम्बितम् ।

अर्धकर्णेन चार्धं वा यथायुक्ति यथारुचि ॥८१॥

स्थूपिका

अन्तर्गतलुपातिर्यगग्रबन्धनविष्टकम् ।

तदूर्ध्वे तेन निर्विद्धं स्थूपिका यूपमिष्यते ॥८२॥

पूर्वोक्तं स्थूपिकामानमलङ्कारमेथोच्यते ।

सार्धमर्धं तदूर्ध्वेऽर्धमर्धमंशं शरांशकम् ॥८३॥

अशमर्धं च भागं स्यादर्धमंशं तथार्धकम् ।

भागमर्धं ततार्धांशमंशमर्धं यथार्धकम् ॥८४॥

चतुरर्धं क्रमेणैवोत्तुङ्गे द्वाविंशदंशके ।

पद्मं च क्षेपणं वेत्रं क्षेपणं पङ्कजं घटम् ॥८५॥

पङ्कजं क्षेपणं धृक्‍ च क्षेपणं वेत्रमुर्ध्वतः ।

क्षेपणं धृक्‍ च कम्पं तु पद्मं फलकमम्बुजम् ॥८६॥

वेत्रं च मुकुलं चैव क्रमेणोक्तवशान्नयेत् ।

सप्तद्व्यंशत्रिकद्व्यंशैः पञ्चनन्देन्द्रियत्रिकैः ॥८७॥

द्वित्रिवेदत्रिकद्व्यंशैर्गुणपञ्चर्तुपञ्चभिः ।

द्वित्रिभागैः क्रमाद् मूलपद्मादिषु न्यसेत् ॥८८॥

मुकुलाग्रमंशमर्धार्धं यथाशोभवशान्नयेत् ।

चतुरष्टद्विरष्टास्त्रं साधारं वर्तुलं तु वा ॥८९॥

तदाकृतिः शिरश्छन्दमलङ्कारवशात्तु वा

तदाकृतिः सुरोर्वीशविप्राणां च विशां मतम् ॥९०॥

सुरद्विजनृपाणां तु वैश्यानां नैव शूद्रके ।

तत्सम्बन्धं समापाद्य ध्वजदण्डं तदूर्ध्वगम् ॥९१॥

एवं लक्षणसम्पन्नं विमानं सम्पदां पदम् ।

लेपः सुधाकर्म च

करालमुद्गी गुल्माषककचिक्कणसाह्वयाः ॥९२॥

चूर्णोपयुक्ताः पञ्चैते सर्वकर्मसनातनाः ।

अभयाक्षबीजमात्रशर्कराः स्युः करालकाः ॥९३॥

मुद्गबीजसमा क्षुद्रशर्करा मुद्गमिष्यते ।

सार्धत्रिपादद्विगुनकिञ्जल्कसिकतान्वितम् ॥९४॥

चूर्णस्य शर्कराशुक्त्योर्यद् गुल्माषं तदुच्यते ।

करालं चापि मुद्गीं च तेन मानेन् योजयेत् ॥९५॥

पूर्वोक्तमात्रसिकताचणकश्चूर्णमानतः ।

क्रियार्थं पेषितं कल्कं चिक्कणमस्तु केवलम् ॥९६॥

निश्छिद्रमिष्टमानेन गोत्रमिष्टकया दृढम् ।

पूर्वोक्तानां च पञ्चानां विधातव्यं पृथक् पृथक् ॥९७॥

तत्र तत्र तदुक्तेन द्रव्येण परिकल्पयेत् ।

केवलेनाम्भसा पूर्वं पूर्वांस्त्रिस्त्रिः प्रकुट्टयेत् ॥९८॥

क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैः पुनः ।

त्रिफलौदैस्ततस्तद्वन्माषयूषैस्ततस्तथा ॥९९॥

संयम्य शर्कराशुक्तिं चूर्णं तत्खातवारिणि ।

खुरसङ्कुट्टनं कृत्वा स्त्रावयित्वाऽथ वाससा ॥१००॥

कल्कं च चिक्कणं तेन कल्कनीयं विचक्षणैः ।

दधिदुग्धमाषयूषगुडाज्यकदलीफलैः ॥१०१॥

जलैश्च नालिकेरस्य चूतपक्वरसैः सह ।

कल्पितं शिल्पिभिर्यत्तद् बन्धोदकमिति स्मृतम् ॥१०२॥

शुद्धिं शुद्धोदकेनादौ कृत्वा बन्धाम्भसा ततः ।

आलिप्य सुधया कार्या नानारूपान्वितक्रिया ॥१०३॥

दग्धैश्च मृण्मयैश्चापि लोहलौष्टैऐर्यथोचितम् ।

गोपानस्योपरिष्टान्तु च्छादनीयं विचक्षणैः ॥१०४॥

करालश्च मुद्गिगुल्माषघनमेकैकमङ्गुलम् ।

कल्कमानं तदर्धेन तदर्धार्धं तु चिक्कणम् ॥१०५॥

जलस्थलप्रयुक्ते तु यथेष्टं घनमिष्यते ।

षण्मासमुत्तमं प्रोक्तं चतुर्मासं तु मध्यमम् ॥१०६॥

अधमं तु द्विमासं स्यादेषामुषितमिष्यते ।

ततो बन्धोदकैरेतान् संक्लेद्य क्रमशः कृतिः ॥१०७॥

लुपोपरीष्टकास्तारे चैवं चूर्णक्रियां पुनः ।

आच्छादनीयं यत्नेन तद्धनं छादनं विदुः ॥१०८॥

चित्रकर्म

देवानां च द्विजानां चावासे योग्यं सनातनम् ।

बहिरन्तश्च सर्वेषां चित्रं युञ्जीत बुद्धिमान् ॥१०९॥

सुमङ्गलकथोपेतं श्रद्धानृत्तक्रियान्वितम् ।

विप्रादीनां च वर्णानां निवासं सम्पदां पदम् ॥११०॥

संग्रामं मरणं दुःखं देवासुरकथान्वितम् ।

नग्नं तपस्विलीलां चामयाव्यादि न योजयेत् ॥१११॥

अन्येषामन्यथा वासे साधनीयं यथेष्टतः ।

पञ्चांशं माषयूषं स्यान्नवाष्टांशं गुडं दधिः ॥११२॥

आज्यं द्व्यंशंतु सप्तांशं क्षीरं चर्म षडंशकम् ।

त्रैफलं दशभागं स्यान्नालिकेरं युगांशकम् ॥११३॥

क्षौद्रमेकांशकं त्र्यंशं कदलीफलमिष्यते ।

लब्धे चूर्णे दशांशे तु युञ्जीतव्यं सुबन्धनम् ।

सर्वेषामधिकं शस्तं गुडं च दधि दुग्धकम् ॥११४॥

चूर्णद्व्यंशं करालं मधुघृतकदलीनालिकेरं च माषं

शुक्तेस्तोयं च दुग्धं दधिगुडसहितं त्रैफलं तत् क्रमेण ।

लब्धे चूर्णे शतांशेंऽशकमिदमधुना चानुवृद्धिं प्रकुर्या -

देतद् बन्धं दृषत्सदृशमिति कथितं तन्त्रविद्भिर्मुनीन्द्रैः ॥११५॥

मूर्ध्नेष्टका

देवानां द्विजभूमीशवैश्यानां भवनेऽधुना ॥११६॥

मूर्ध्नेष्टका विधातव्याश्चतस्त्रो लक्षणान्विताः ।

सुस्निग्धाः समदग्धाश्च सुस्वनास्ताः सुशोभनाः ॥११७॥

स्त्रीलिङ्गाश्चापि पुंल्लिङ्गा भिन्नच्चिद्रादिवर्जिताः ।

विस्तारायामतीव्रैस्तु प्रथमेष्टकया समाः ॥११८॥

शिलामये शिला प्रोक्ता सर्वदोषविवर्जिता ।

जन्माद्याशिखरान्तं च यैर्द्रव्यैश्च विनिर्मितम् ॥११९॥

तैरेवादौ तथान्ते च न्यस्तव्याश्चेष्टकाः शुभाः ।

मिश्रद्रव्यैश्च सङ्कीर्णे यैर्द्रव्यैरुपरि स्थितम् ॥१२०॥

तैरेव मूर्ध्नि विन्यासं रहस्यमिदमिरितम् ।

स्थूपिकाकीलम्

लोहजं दारुजं वाऽपि स्थूपिकाकीलमिष्यते ॥१२१॥

ऊर्ध्वभूम्यङ्‌घ्रिणायामविस्तारं पादतः समम् ।

अग्रमङ्गुलविस्तारमानुपूर्व्या कृशं तथा ॥१२२॥

चतुरस्त्रसमं कुर्यात् त्रिभागैकमधस्तथा ।

वृत्तमूर्ध्वमधः कुर्याच्छिखिपादं न्यसेदधः ॥१२३॥

विस्तारत्रिगुणायामं व्यासोच्चं पादतः समम् ।

अभ्रमं तु यथा भूमौ पञ्चमूर्तिसमन्वितम् ॥१२४॥

अथवा तच्छिखायामद्विगुणं कीलदैर्घिकम् ।

स्तम्भव्यासार्धविस्तारत्रिचतुर्भागमेव वा ॥१२५॥

अग्रमर्धाङ्गुलव्यासं शिखिपादं यथाबलम् ।

शिखराकृतिवत् कीलं लिङ्गच्छन्दमथापि वा ॥१२६॥

एवं त्रिधा समुद्दिष्टं स्थूपिकाकीलमार्यकैः ।

मूर्ध्नेष्टकादिस्थापनम्

सद्यनश्चोत्तरे पार्श्वे मण्डपे तु सुसंस्कृते ॥१२७॥

चतुष्प्रदीपसंयुक्ते वस्त्रैश्च परिवेष्टिते ।

सर्वमङ्गलसंयुक्ते शुद्धशाल्यास्तरे शुभे ॥१२८॥

स्थण्डिले चण्डित कृत्वा मण्डूकं वाथ तत्परम् ।

विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया ॥१२९॥

आराध्य गन्धपुष्पादैर्भुवनाधिपतिं जपेत् ।

देवताभ्यो बलिं दत्त्वा तत्तन्नाम्ना यथाविधि ॥१३०॥

स्थपतिः कलशान न्यस्य पञ्च पञ्च सलक्षणान् ।

सुगन्धोदकसम्पूर्णान् पञ्चरत्नसमायुतान् ॥१३१॥

ससूत्रान् वस्त्रकूर्चालान् सापिधानान् सहेमकान् ।

उपपीठाशदेवानां स्वस्वनाम्नाभिधाय च ॥१३२॥

प्रणवादिनमोऽन्तेन गन्धाद्यैरर्चयेत् क्रमात् ।

प्रक्षाल्य पञ्चगव्यैस्तु नवरत्नकुशोदकैः ॥१३३॥

इष्टकामश्च यथाकीलं सूत्रैरावेष्टयेत् क्रमात् ।

कुम्भस्य दक्षिणे शुद्धशालीस्थण्डिलमण्डले ॥१३४॥

आराध्य गन्धपुष्पैश्च बलिं दत्त्वा यथाविधि ।

इष्टकाश्चैव कीलांश्च वेष्ट्येदम्बरैः शुभैः ॥१३५॥

श्वेतवस्त्रास्तरस्योर्ध्वे न्यसेद् दर्भास्तरे शुचिः ।

स्थपतिर्वरवेषाढ्यः शुक्लमाल्यानुलेपनः ॥१३६॥

सितवस्त्रपरिच्छिन्नोत्तरीयो हैममुद्रिकः ।

पीत्वा शुद्धं पयो रात्रावपोष्याधिवसत् सुधीः ॥१३७॥

कलशस्योत्तरे पार्श्वे सितवस्त्रपरिस्तरे ।

ततः प्रभाते विमले नक्षत्रकरणान्विते ॥१३८॥

सुमुहूर्ते सुलग्ने च स्थपतिः स्थापकेन तु ।

पुष्पकुण्डलहारादिकटकैरङ्गुलीयकैः ॥१३९॥

पञ्चाङ्गभूषणैर्हेमनिर्मितैस्तु विभूषितः ।

हेमयज्ञोपवीतस्तु नववस्त्रपरिच्छदः ॥१४०॥

श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः ।

ध्यात्वा धरातलं सर्वं दिग्द्विपेन्द्रसमायुतम् ॥१४१॥

ससागरं सशैलेन्द्रमनन्तस्योपरि स्थितम् ।

सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् ॥१४२॥

स्नापयित्वेष्टकाकीलं पूर्वोक्तैः कलशोदकैः ।

आराध्य गन्धपुष्पैश्च धूपदीपसमन्वितैः ॥१४३॥

बलिं दत्त्वा यथान्यायं जयशब्दादिमङ्गलैः ।

विप्रस्वाध्यायघोषैश्च शङ्खभेर्यादिनिःस्वनैः ॥१४४॥

स्थापयेदिष्टकाः सम्यक्‌ पूर्वदक्षिणतः क्रमात् ।

शिखरार्धे विमानस्य गग्रपत्रान्तरेऽपि वा ॥१४५॥

शिखरत्रिचतुर्भागावसाने वाम्बुजादधः ।

तदाद्यात् स्थूपिकायामात् कीलदैर्घ्यं प्रगृह्यताम् ॥१४६॥

पूर्वमेवेष्टकास्थानं निश्छिद्रं तु दृढीकृतम् ।

तन्मध्ये नवरत्नानि विन्यसेच्च यथाक्रमम् ॥१४७॥

ऐन्द्रे मरकत विद्याद् वैडूर्यं वह्निगोचरे ।

इन्द्रनीलं तु याम्यायां मौक्तिकं पितरि स्मृतम् ॥१४८॥

वारुणे स्फाटिं विद्यान्महानीलं समीरणे ।

वज्रं तु सौम्यदेशे स्यादैशान्यां तु प्रवालकम् ॥१४९॥

माणिक्यं मध्यमे भागे हाटकं च विनिक्षिपेत्

रसोपरबीजैश्च धान्यान्यप्यौषधानि च ॥१५०॥

तदूर्ध्वे स्थूपिकाकीलं स्थापयेदचलं समम् ।

तस्मात् प्रकृतिभूम्यन्तमुदग्दिशि महाध्वजम् ॥१५१॥

ग्रथितं क्षौमवस्त्रैश्च कार्पासैर्वा मनोहरैः ।

लम्बयेत्तदुदक्प्राच्यौ प्रागुदग्विदिशं ततः ॥१५२॥

संस्पृशेद् यदि सर्वेषां प्राणिनां सम्पदृद्ध्ये ।

भवनं स्थूपिकीलं च पट्टैरावेष्ट्य शुभ्रकैः ॥१५३॥

चतुर्दिक्षु चतुर्गाश्च सवत्साः सन्निवेषयेत् ।

द्वारालङ्करणं कुर्यात् सुविचित्राम्बरैर्नवैः ॥१५४॥

दक्षिणादानम्

यजमानो विशुद्धात्मा प्रणम्य शिरसा गुरुम् ।

विमानस्थूपिकास्तम्भद्वारालङ्कराणि च ॥१५५॥

वस्त्राणि धनधान्यैश्च पशूनपि सवत्सकान् ।

मुदा स्थपतये दत्त्वा शेषान् भक्त्या तु तर्पयेत् ॥१५६॥

रत्नादिस्थानम्

एवं मुनिवरैः प्रोक्तं प्रसादानां तु मूर्धनि ।

हर्म्याणां गर्भसंयुक्तौ नेत्रभित्तौ तलान्तरे ॥१५७॥

मण्डपे मध्यदेशे तु सभादीनामधोऽम्बुजात् ।

प्रासादवद् विधातव्यं गोपुराणां तु मुर्धनि ॥१५८॥

कर्मसमाप्तिः

एवं तु विधिना सम्यक्‍ सम्पन्नं सम्पदां पदम् ।

येन यत् कर्म चारब्धमादौ तदवासनके ॥१५९॥

तेनैव निष्ठितं कर्म श्रीसौभाग्यायुरेधनम् ।

तस्याभावे तु तत्पुत्रः शिष्यो वा तं गुरुं पटे ॥१६०॥

लिखित्वा तन्नियोगेन सर्वकर्म समाचरेत् ।

अज्ञानात् त्वरितेनापि यद्वस्त्वन्येन भावितम् ।

करोति स्वामिनं शीघ्रमन्मथेति ह निश्चयः ॥१६१॥

प्रथमं कृतवान् विधिं यथावत्

कृतवानेव करोति निष्ठितान्तम् ।

अथ वा विधिरन्यथा भवेच्चे-

दशुभं स्वामिनमन्यथा करोति ॥१६२॥

एवं ग्रीवालङ्‌कृतं पुष्कराभं

मानं मल्लानां शिखाभूषणं च ।

युक्त्या सर्वेषां करालादिबन्धं

प्रोक्तं सम्यक्‌ चेष्टकाबन्धमूर्ध्वे ॥१६३॥

स्थूपिकीलवृक्षाः

खदिरसरलसालस्तम्बकाशोकवृक्षाः

पनसतिमिसनिम्बाः सप्तपर्णाश्च सर्वे ।

परुषवकुलवह्निक्षीरिणीत्येवमाद्याः

सुदृढविमलसाराः स्थूपिकीलाः प्रसिद्धा ॥१६४॥

सम्प्रोक्षणकर्म

अथ हर्म्ये परिनिष्ठिते तदा यजमानोऽपि गुरुश्च वर्धकिः ।

उदगायनशोभनपर्क्षपक्षे जलसम्प्रोक्षणकर्म चारभेत् ॥१६५॥

अधिवासमण्डपः

नवसप्तत्रिकपञ्चरात्रिके विधिना चाङ्कुरार्पणं कुरु ।

भवनस्योत्तरपूर्वदेशतः स्वधिवासार्हमण्डपं चरेत् ॥१६६॥

नवसप्तेषुकरैर्युगास्त्रकं वसुपादं नववस्त्रशोभितम् ।

सवितानं सुपटैर्निवेष्टितं सुमनोज्ञं सितपुष्पशोभितम् ॥१६७॥

तस्य मध्ये तु शालीभिः स्थण्डिलं दण्डमानतः ॥१६८॥

कृत्वाष्टाष्टपदं न्यस्य ब्रह्मादीन् वस्तुनायकान् ।

श्वेततण्डुलधाराभिर्विन्यस्याराध्य पुष्पकैः ॥१६९॥

गन्धैर्धूपैश्च दीपैश्च बलिं दत्त्वा विधानतः ।

तदूर्ध्वं पञ्चपञ्चैव कलशान् वस्त्रशोभितान् ॥१७०॥

मणिहेमसमायुक्तान् ससूत्रान् सापिधानकान् ।

निष्कलङ्कानसुषिरान् हाटकोदकपूरितान् ॥१७१॥

उपपीठपदस्थांस्तान् स्वस्वनाम्नाभिधाय च ।

ओङ्कारादिनमोऽन्तेन चार्चयित्वा न्यसेत्ततः ॥१७२॥

कलशस्योत्तरे पार्श्वे दर्भासनपरिस्तरे ।

चतुष्प्रदिपसंयुक्ते सर्वमङ्गलशोभिते ॥१७३॥

पूतचेता विशुद्धात्मा स्थपतिर्व्रतमास्थितः ।

पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेत्ततः ॥१७४॥

प्रासादस्याग्रतो यागमण्डपं विधिनाचरेत् ।

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥१७५॥

वासोभिर्दर्भमालाभिः स्त्रक्सुमैः समलङ्‍कृतम् ।

तन्मध्ये वेदिकां कुर्यात् तद्व्यासत्र्यंशमानतः ॥१७६॥

चतुरस्त्रं चतुर्दिक्षु विदिक्ष्वश्वत्थपत्रवत् ।

सुरेन्द्रेशानयोर्मध्ये कुण्डमष्टाश्रमिष्यते ॥१७७॥

त्रिमेखलासमायुक्तं वैकमेखलयान्वितम् ।

कुम्भस्थापनम्

स्थापको मुर्तिपैः सार्धं विधिना होममाचरेत् ॥१७८॥

शालिभिः स्थण्डिलं कृत्व वेदिमध्ये विचक्षणः ।

मूर्तिकुम्भं न्यसेत् सम्यग्‌ बीजमन्त्रमनुस्मरन् ॥१७९॥

प्रासादस्य चतुर्दिक्षु वृत्तकुण्डविधानतः ।

सन्तर्प्य स्थापको जातवेदसं निवसेत्तदा ॥१८०॥

विमानं जन्मतः स्थूपिकान्तं वस्त्रैर्निवेष्टयेत् ।

कुशास्तीर्णर्नवैर्वस्त्रैः स्थूपिकीलमलङ्‌क्रियात् ॥१८१॥

वास्तुदेवताबलिः

बल्यन्न पायसान्नं च मुद्गान्नं च यवान्नकम् ।

कृसरं गुलशुद्धान्नं पीतं कृष्णं तथारुणम् ॥१८२॥

गृहीत्वा सकलस्याग्रे हेमपात्रे निधाय च ।

दधिदुग्धघृतक्षौद्ररत्नपुष्पाक्षताम्बुभिः ॥१८३॥

कदलीफलसंयुक्तं पात्रं चैवान्यशिल्पिभिः ।

धारयित्वाम्बुभी रात्रौ वास्तुदेवबलिं चरेत् ॥१८४॥

चक्षुर्मोक्षणम्

ततः प्रभाते विमले नक्षत्रकरणान्विते ।

स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥१८५॥

धृतहाटकयज्ञोपवीतः श्वेतानुलेपनः ।

श्वेतपुष्पशिरः प्राप्तोष्णीषश्चाहतवस्त्रयुक् ॥१८६॥

दिशामूर्त्यपरांश्चक्षुर्मोक्षणं विधिनाचरेत् ।

स्नापयेत् कलशाम्भोभिरर्चयेद् गन्धपुष्पकैः ॥१८७॥

प्रथमं हेमया तत्र सूच्या नयनमण्डलम् ।

लिखित्वा तीक्ष्णशस्त्रेण मण्डलत्रयमुल्लिखेत् ॥१८८॥

आच्छाद्य नववस्त्रेण ब्राह्मणान् धान्यसञ्चयान् ।

धेनुं सवत्सां कन्यां च दर्शयित्वा यथाक्रमम् ॥१८९॥

सम्प्रोक्षणम्

विमानं पुनरारूह्य स्थपतिः स्थापकाज्ञया ।

शङ्खकाहलतूर्यादिघोषणैः स्वस्तिवाचनैः ॥१९०॥

स्थूप्यग्रादाप्रकृत्यन्तं चतुर्दिशि महाध्वजम् ।

लम्बयेत् क्षौमपट्टैर्वा कार्पासैर्ग्रथितं नरम् ॥१९१॥

चन्दनागरुतोयेन सर्वगन्धोदकेन च ।

कलशोदैः कुशाम्भोभिरुपरिष्टात् समन्ततः ॥१९२॥

प्रोक्षयेत् स्थपतिः प्राज्ञो भुवनाधिपति जपेत् ।

स्थूपिकुम्भः

तैतलानां विमानानां पाञ्चभौतिकसंश्रितात् ॥१९३॥

स्थूपिकुम्भं सुवर्णेन ताम्रेण रजतेन वा ।

उपलेष्टकसौधैर्वा कृत्वेष्टं कीलवत् स्मृतम् ॥१९४॥

सुसंस्थाप्यचलं यावत् प्रोक्षयेद् गन्धवारिणा ।

विमानादवरुह्याथ गर्भगेहं च मण्डपम् ॥१९५॥

प्रोक्षयित्वा मुखे स्थित्वा नत्वा देवं वदेदिदम् ।

धाराधिपातात् सलिलप्रकोपाद्

दंष्ट्र्या निपातात् पवनप्रकोपात् ।

अग्नेश्च दाहान्मुषितापचाराद्

रक्षत्विदं सद्म शिवं च मेऽस्तु ॥१९६॥

निरुजा मुदिता सधना प्रथिता यशसा महदद्बुतवीर्ययुता ।

सततं निर्पद्रवकर्मयुता पृथिवी पृथु जीवतु धर्मविधेः ॥१९७॥

ब्रह्मा विष्णुः शङ्करः सर्वदेवाः

क्षोणी लक्ष्मीर्वाग्वधूः सिंहकेतुः ।

ज्येष्ठ विश्वेदेवदेव्यः प्रजानां

श्रीसौभाग्यारोग्यभोग्यं कृषीरन् ॥१९८॥

उक्त्वैवं स्थपतेः कर्मण्यत्रैव परिनिष्ठिते ॥१९९॥

स्थापको विधिना शुद्धिं कुर्याद् यागादिकर्मभिः ।

प्रोक्षयित्वा घटाम्भोभिः पञ्चगव्यैः कुशोदकैः ॥२००॥

अर्चयेद् गन्धपुष्पाद्यैर्नेवेद्यं च प्रदापयेत् ।

प्रासादबीजमन्त्रांस्तु न्यसेत् सौधादिदेवताम् ॥२०१॥

दक्षिणादानम्

प्रासादाभिमुखे स्थित्वा यजमानः प्रसन्नधीः ।

स्थपतेर्धर्मसर्वस्वं क्लेशेन सह यद् भवेत् ॥२०२॥

तत् सर्वं परिगृह्णीत सुप्रीत्या स्थापकाज्ञया ।

पूजयेत्तु यथाशक्ति स्थापकं स्थपतिं ततः ॥२०३॥

पुत्रभ्रातृकलत्रैश्च यजमानो मुदा धनैः ।

धान्यैश्च पशुभिर्वस्त्रैर्वाहनैर्भूमिदानकैः ॥२०४॥

शेषानपि च तक्षादिवष्टिसर्वान् स कर्मणि ।

सन्तर्पयेद्धिरण्यैश्च वस्त्रैर्वाऽपि मनोहरैः ॥२०५॥

विमानस्थूपिकास्तम्भमण्डपालङ्‌कृतान्यपि ।

वस्त्रादीनि ध्वजं धेनुं प्रीत्या स्थपतये ददेत् ॥२०६॥

सम्प्रोक्षणावश्यकता

एवमेवं कृतं वस्तु वर्धयेन्नित्यमा युगात् ।

यजमानस्त्विहामुत्र फलं सम्यग्‍ लभेद् दृढम् ॥२०७॥

अन्यथा चेत फलं नैव लभते तत्र वस्तुनि ।

भूतप्रेतपिशाचादिराक्षसाश्च वसन्त्यलम् ॥२०८॥

तस्मात् प्रासादनिष्पन्ने सर्वथा प्रोक्षणं चरेत् ।

मण्डपे च सभायां वा रङ्गे विहारशालके ॥२०९॥

हेमगर्भसभायां तु तत्तुलाभारकूटके ।

विश्वकोष्ठे प्रपायां च धान्यागारे महानसे ॥२१०॥

वास्तुदेवबलिं दत्त्वाधिवास्य विधिना तथा ।

स्थपतिः पूतचित्तात्मा प्राप्तपञ्चाङ्गभूषणः ॥२११॥

नवाम्बरधरश्चैव नववस्त्रोत्तरीयकः ।

सर्वमङ्गलघोषैश्च जलसम्प्रोक्षणं चरेत् ॥२१२॥

सम्प्रोक्षणकालः

उत्तरायणमासे तु कृतं चेदुत्तमोत्तमम् ।

त्वरितेऽप्येवमेवं तु कुर्यात्तद् दक्षिणायने ॥२१३॥

त्रिरात्रमेकरात्रं वा सद्योऽधिवासमेव वा ।

तत्रैवाविकले द्रव्ये लभेत् कर्ता महत् फलम् ॥२१४॥

एकत्रिपञ्चकलशेषु तथाऽधिदेवा

एकत्रिपञ्च कथिता इह मूर्त्तयस्ताः ।

तत्तत् स्वमन्त्रसहितं तदधः सहेम-

रत्नं निधाय विधिना कलशात्र्यसेत्तत् ॥२१५॥

एवं मुदा भवनकर्मसमाप्तिमत्र

कुर्याज्जनेशजनगोकुलसम्पदृद्ध्यै ।

यद्वैपरीत्यमसमाप्तिकवस्तुवेशं

तद्वास्तुदेवबलिहीनमनर्थदं स्यात् ॥२१६॥

इति मयमते वस्तुशास्त्रे शिखरकरणभवनकर्म-

समाप्तिविधानं नामाष्टादशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:21.6270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

volume of smoke

  • धुराचे आकारमान, धूम्राचे आकारमान 
RANDOM WORD

Did you know?

In Hinduism, are women and men treated as equals?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.