TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ त्रयोविंशोऽध्यायः

मयमतम् - अथ त्रयोविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

अथ त्रयोविंशोऽध्यायः

(प्राकारपरिवारविधानम्)

तत्र प्राकारविधानम्

रक्षार्थं च विमानानां शोभार्थं च तथाऽधुना ।

परिवारनिवेशार्थं प्राकारं प्रोच्यते बुधैः ॥१॥

प्राकारमानम्

कृत्वा चतुष्पदं मूलप्रासादस्य तु विस्तृतम् ।

आद्यं सालं महापीथं पदैः षोडशभिर्युतम् ॥२॥

मण्डूकाख्यं द्वितीयं स्यान्मध्यं भद्रमहासनम् ।

चतुर्थं सुप्रतीकान्तं पञ्चमं चेन्द्रकान्तकम् ॥३॥

एवं युग्मपदैर्युक्तमयुग्मैरथ वक्ष्यते ।

एकमाद्यं विमानं स्यादाद्यं सालं तु पीठकम् ॥४॥

द्वितीयं स्थण्डिलं सालं मध्यं चोभयचण्डितम् ।

सुसंहितं चतुर्थं स्यादीशकान्तं तु पञ्चमम् ॥५॥

चतुरस्त्रीकृते तेन मुखायाममिहोर्ध्वतः ।

पादाधिकमथाध्यर्धं पादोनद्विगुणं क्रमात् ॥६॥

द्विगुणं द्विगुणार्धं च त्रिगुणं वा चतुर्गुणम् ।

मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ॥७॥

क्षुद्राणामल्पहर्म्याणां स्वव्यासार्धप्रमाणतः ।

अन्तर्मण्डलकं कुर्यात् सत्रिहस्तं तु तत्समम् ॥८॥

द्वितीय़ं हि तृतीयं तु तस्मात् पञ्चकराधिकम् ।

तस्मात् ससप्तहस्तं तु तत्समं स्याच्चतुर्थकम् ॥९॥

नवहस्तसमायुक्तं तत्समं पञ्चमं भवेत् ।

मध्यमानां स्वतारार्धमन्तर्मण्डलमिष्यते ॥१०॥

तत्समं पञ्चहस्तेन संयुक्तं स्याद्‍ द्वितीयकम् ।

सप्तहस्ताधिकं तस्मा‍त् सालमुक्तं तृतीयकम् ॥११॥

नवहस्ताधिकं तस्माच्चातुर्थं सालमीरितम् ।

एकादशकरैर्युक्तं तत्समं पञ्चमं भवेत् ॥१२॥

उत्तमानां स्वतारार्धमाद्यं सालं प्रकीर्तितम् ।

तत्समं सप्तहस्तेन संयुक्तं स्याद्‌ द्वितीयकम् ॥१३॥

नवहस्ताधिकं तस्मात् तृतीयं सालमुच्यते ।

तस्मादेकादशाधिक्यं तत्समं तु चतुर्थकम् ॥१४॥

त्रयोदशकरैर्युक्तं तत्समं पञ्चमं भवेत् ।

एवं क्षुद्राल्पमध्यानामुत्कृष्टाना प्रकीर्तितम् ॥१५॥

एतेन कारयेद्‌ धीमान् पूर्वोक्तेन क्रमेण वा ।

प्राकारं परितस्तस्मान्मुखायामं तु पूर्ववत् ॥१६॥

भित्त्यभ्यन्तरमानेन मानयेन्मानवित्तमः ।

भित्तिमध्येन बाह्येन कैश्चिदुक्तं तु सुरिभिः ॥१७॥

प्राकारभित्तिः

अन्तर्मण्डलभित्तेश्च विष्कम्भं सार्धहस्तकम् ।

तस्मात् त्रित्र्यङ्गुलाधिक्याद्‌ द्विहस्तान्तं यथाक्रमम् ॥१८॥

पञ्चानामपि सालानां विष्कम्भं परिगृह्यताम् ।

तत्तद्विष्कम्भमानेन त्रिगुणं वा चतुर्गुणम् ॥१९॥

प्राकारोदयमुद्दिष्टं स्वाष्टांशोनग्रविस्तरम् ।

उत्तरान्तोचिता वाऽपि कुम्भमण्ड्यन्तकोदयाः ॥२०॥

मसूरकादिवर्गाढ्याः खण्डहर्म्याभिमण्डिताः ।

ऋजिभित्तियुता वाऽद्बुदार्धेन्दुशीर्षकाः ॥२१॥

क्षुद्राल्पानां तु सालानां भित्तिर्हस्तप्रमाणतः ।

सार्धहस्तावधिर्यावत् पूर्ववद्‍ वर्धयेत् क्रमात् ॥२२॥

सोत्तरा वाजनच्छत्रशीर्षाभाः सालभित्तयः ।

भित्तिव्याससमोत्तुङ्गं पादार्धाधिकमेव वा ॥२३॥

तदुच्चे रुद्रभागऽप्यग्निमोक्षोऽक्षिशिवांशकैः ।

उत्तरं वाजनाब्जं च क्षेपणं च यथाक्रमम् ॥२४॥

ऋजुभित्तियुतं ह्येतत् खण्डहर्म्याभिमण्डितम् ।

अधिष्ठानादिवर्गाढ्यं निर्गमोद्गमसंयुतम् ॥२५॥

आवृतमण्डपम्

एकद्वित्रितलोपेतं कुर्यादावृतमण्डपम् ।

अभ्यन्तरे बहिष्ठात्तु ऋजिभित्तियुता भवेत् ॥२६॥

अधोभूमित्रिभागे तु द्विभागं चोर्ध्वभूमिकम् ।

तत्पादाष्टांशहीनं वा बहिर्भित्त्युन्नतं भवेत् ॥२७॥

मालिकाकृतिरेवं वा महावारयुतं तु वा ।

मानान्तं बाह्यभित्त्युच्चमधो धूमेः स्थलान्तकम् ॥२८॥

मूलसद्योन्तरान्तं वा प्रस्तरान्तमथापि वा ।

खण्डहर्म्योत्तरान्तं वा शिखरान्तोन्नतं तु वा ॥२९॥

मण्डपं द्वितलं वैकतलं वाऽपि तदावृतम् ।

अधिष्ठानादिवर्गाढ्यं समं वाष्टांशहीनकम् ॥३०॥

त्रिपादं वा विशेषेण सालाधिष्ठानतुङ्गता ।

द्विगुणं चरणोतुङ्गं षडष्टांशोनमेव वा ॥३१॥

सालशीर्षालङ्कारः

उक्षं वा भूतरूपं वा कर्तव्यं सालशीर्षके ।

मूलजन्मतलं हस्तमात्रोच्चं जन्मसालतः ॥३२॥

अधिष्ठानोत्सेधः

प्रतिसालं तु षण्मात्रहीनं स्याच्छेषसालके ।

क्षुद्रे साष्टादशाङ्गुल्यं मध्यमे मूलपादुकम् ॥३३॥

क्षपयेत्तु चतुर्मत्रैर्यावत् पञ्चान्तसालकम् ।

योजयेद्‌ विधिनानेन स्थपतिस्तत्क्रमेण तु ॥३४॥

परिवारालयविधानम्

परिवारविमानानां मानं गर्भार्धमिष्यते ।

मूलवस्तुत्रिभागैकं मध्यं वा पादबाह्यकम् ॥३५॥

त्रिचतुष्पञ्चषट्‌सप्तहस्तैर्वा हर्म्यविस्तृतम् ।

अष्टौ वा परिवाराः स्युस्तथा द्वादश षोडश ॥३६॥

द्वात्रिशंत् परिवाराश्च हीष्यन्ते शास्त्रकोविदैः ।

परिवारामरोत्सेधं युक्त्या तत्रैव योजयेत् ॥३७॥

यद्क्तं सकले बेरे तन्मानं गृह्यतां वरैः ।

सर्वलक्षणसंयुक्तं स्थानकासनमेव वा ॥३८॥

अष्टौ परिवाराः

हीनविमानानामथ परिवाराश्चाष्ट वै प्रोक्ताः ।

प्राकारोऽप्येकः स्यात् पीठपदे चार्यकादिषु वा ॥३९॥

ऋषभगणाधिपकमलजामातृगुहार्याच्युताश्च चण्डेशः ।

द्वादश परिवाराः

उपपीठपदे चान्तर्द्वादश परिवारकाः स्थाप्याः ॥४०॥

वृषकमलजगुहहरयः पूर्ववदुदितास्तथार्यकादिपदे ।

रविगजवदनयमास्ते मातृजलेशौ च दुर्गा च ॥४१॥

धनदश्चण्डः क्रमशः सूर्यपदादिष्ववामगताः ।

षोडश परिवाराः

षोडश परिवाराः स्युश्चोग्रे पीठे निधातव्याः ॥४२॥

अन्तश्चार्यकभागादिषु वृषभाद्यास्तथा प्राग्वत् ।

ईशपदे च जयन्ते भृशभागैऽग्नौ च वितथे च ॥४३॥

भृङ्गनृपे पितृसुगले शोषे वायौ च मुख्यकेऽप्युदितौ ।

चन्डश्चन्द्रः सूर्यो गजवदनः श्रीः सरस्वती चेति ॥४४॥

ता मातरश्च शुक्रो जीवो दुर्गा दितिस्तथाप्युदितिः ।

द्वात्रिंशत परिवाराः

द्वात्रिंशत्परिवाराः स्थण्डिलकाख्ये तु चण्डिते स्थाप्याः ॥४५॥

ब्रह्मपदं नवबाह्यो श्रीज्येष्ठोमा सरस्वती चैताः ।

साविन्द्रेन्द्रजयांशे रुद्रजये चापवत्से च ॥४६॥

आर्यादिषु च पदेषु वृषभाद्याः पूर्ववत् कथिताः ।

ईशे पर्जन्यपदे माहेन्द्रे भानुभागे तु ॥४७॥

सत्यान्तरिक्षकानलपूषगृहक्षतार्किभागे तु ।

गन्धर्वे मृषभागे पितृबोधनपुष्पदन्तवरुणेषु ॥४८॥

असुरे यक्षसमीरणभागे नागे च भल्लाटे ।

सोमपदे मृगभागेऽप्युदितौ देवाः क्रमात्स्थाप्याः ॥४९॥

ईशशशिनन्दिकेश्वरसुरपतयो वै महाकालः ।

निकरवह्निबृहस्पतिगजवदनयमाश्च भिङ्गिरिटिः ॥५०॥

चामुण्डाप्यथ निऋतिश्चागस्त्यो विश्वकर्मा च ।

जलपतिरथ भृगुनामा दक्षः प्रजापतिर्वायुः ॥५१॥

दुर्गा च वीरभद्रो धनदश्चण्डेश्वरः शुक्रः ।

स्थण्डिलचण्डितभागे पण्डितजनमण्डलैरुदिताः ॥५२॥

युग्मायुग्मपदे ते कुड्यगता वागताश्च परमध्ये ।

त्रिपाकारे पञ्चप्राकारेऽप्येवमेव भवेत् ॥५३॥

अष्टाद्याः परिवारा मध्यान्तर्हारयोरुदिताः

प्रत्यग्दिङ्‌मुखहर्म्ये मित्रे वृषभस्थितिः प्रोक्ता ॥५४॥

कमलजगुहहरयस्ते भूधरभागार्ययोर्विवस्वति च ।

यन्मुखमीश्वरभवनं तन्मुखमेवोदितं तेषाम् ॥५५॥

शिष्टा हर्म्याभिमुखाः पूर्वोक्तपदे निधातव्याः ।

प्राक्प्रत्यङ्‌मुखमुक्षा देवाभिमुखो न वाऽभिमुखः ॥५६॥

अवागुत्तरदिशि मुखिनौ चण्डेशेभाननौ च मतौ ।

प्रासादमण्डपसभाशालाकाराणि कार्याणि ॥५७॥

परिवारविमानानि सर्वाण्यङ्गानि युक्तिवशात् ।

मालिकापङ्‌क्तिः

मध्यान्तर्हारयोरेव मालिकापङ्क्तिरिष्यते ॥५८॥

एकद्वित्रिचतुर्भूमियुक्ता वा पञ्चभूमिका ।

भित्तेरुपरि भित्तिः स्यात् पादः पादोपरि स्मृतः ॥५९॥

भित्तेरुपरि पादो वा पादोपरि न भित्तिका ।

कूटकोष्ठादियुक्ता वा जालभित्तिरलङ्‌कृता ॥६०॥

मण्डपाकृतियुक्ता वा शालाकारसभान्विता ।

भक्तिमानं तथा पादायामं संक्षिप्य वक्ष्यते ॥६१॥

मूलधाम्नस्तूत्तरान्तमुपानाद्द्युन्नतं क्रमात् ।

सप्तभागैः समं कृत्वा द्व्यंशं मसूरकोन्नतम् ॥६२॥

पादायामं तु पञ्चांशं पादं सर्वाङ्गसंयुतम् ।

अथवा पादमानं तु नवभागैर्विभाजयेत् ॥६३॥

अधिष्ठानं द्विभागं स्याच्छेषं पादोदयं भवेत् ।

सार्धद्विहस्तमारभ्य षट्‌षडङ्गुलवर्धनात् ॥६४॥

षड्ढस्तान्तं समुत्सेधं स्तम्भं त्रिः पञ्चसंख्यया ।

भित्त्यभ्यन्तरतस्तावदेवं तस्या विशालता ॥६५॥

भक्त्यायामं च तावत् स्यात् क्षुद्रे महति मन्दिरे ।

षडङ्गुलात् समारभ्य वाङ्गुलाङ्गुलवर्धनात् ॥६६॥

विंशन्मात्राविधिर्यावत् पादविष्कम्भमिष्यते ।

पादोच्चार्धमधिष्ठानं षडष्टांशोनमेव वा ॥६७॥

पादोदयत्रिभागैकं चतुर्भागैकमेव वा ।

पादबन्धनमधिष्ठान चारुबन्धमथापि वा ॥६८॥

पादोनमप्यलङ्कारं प्रस्तरस्याप्यलङ्‌कृतम् ।

पूर्वोक्तेन प्रकारेण युक्त्या तत्रैव योजयेत् ॥६९॥

खलूरिका मनुष्याणां वासेष्वेवमुदीरिताः ।

प्रथमावरणाद्यावत् त्रिपाकारान्तमावृत्तिः ॥७०॥

यथेष्टदिशि हि द्वारं युक्त्या युक्तं नृणां मतम् ।

परिवारविमानानि तत्तदुक्तपदे क्रमात् ॥७१॥

आर्यात्पूर्वोक्तनीत्या तु पासादाभिमुखान्यपि ।

नृत्तमण्डपपीठादि परिवाराद्‌ बहिः पुरः ॥७२॥

स्नानार्थं मण्डपं वाऽपि नृत्तमण्डपमेव वा ।

परिवारालयान्तैर्वा कर्तव्यं स्वप्रमाणतः ॥७३॥

पीठलक्षणम्

गर्भगृहार्धेन समौ पीठव्यासोच्छ्रयौ मतौ ।

एकद्वित्रिकरव्यासोत्सेधं वा बलिविष्टरम् ॥७४॥

गोपुरात्तु बहिः पीठं प्रासादार्धेन निर्गमम् ।

तत्समं वा त्रिपादं वा निर्गमं बलिविष्टरम् ॥७५॥

पञ्चानामपि सालानामारात् पैशाचमग्रतः ।

पैशाचपीठप्रासादमध्ये तु बलिविष्टरम् ॥७६॥

पीठोत्सेधे षोडशभागे भागेन जन्मं स्यात् ।

जगती चतुरंशेन कुर्यात् कुमुदं त्रिभिर्भागैः ॥७७॥

भागेनोपरि पट्टं कण्ठं कुर्यात् त्रिभागेन ।

एकेनोपरि कम्पं द्व्यंशं स्याद्वाजनं चोर्ध्वे ॥७८॥

तदुपरि वाजनमेकं तद्व्यासार्धं त्रिपादमुपरिदलम् ।

पद्मत्त्रिभागमूर्ध्वे कर्तव्या कर्णिका मध्ये ॥७९॥

तस्यार्धं कमलोच्चं वार्धोच्चं कर्णिकायास्तु ।

मध्ये भद्रयुतं वाभद्रं वा सोपपीठं वा ॥८०॥

नानाधिष्ठाननामाकृतयो वा यथा तथाप्युक्ताः ।

एवं पीठालङ्‍कृतमुदितं प्रवरैः पुरातनैर्मुनिभिः ॥८१॥

ध्वजस्थानम्

वृषभस्यात्रतः कुर्यात् प्रसादार्धप्रमाणतः ।

ध्वजस्थानं तदग्रे तु तन्नीत्वा त्रिशिखालयम् ॥८२॥

एते वृषादयः सर्वे चान्तर्वामे तु गोपुरात् ।

प्राकाराश्रितस्थानानि

मर्यादिसालमाश्रितय पावके हव्यकोष्ठकम् ॥८३॥

अग्निगोपुरयोर्मध्ये धनधान्यगृहं भवेत् ।

याम्ये मज्जनशाला स्यात्तत्रस्थं पुष्पमण्डपम् ॥८४॥

नैऋतिस्थानमाश्रित्य कुर्यादायुधमण्डपम् ।

वरुणे वायुदेशे तु शयनस्थानमिष्यते ॥८५॥

सौम्यायां तु प्रकर्त्तव्यं धर्मश्रवणमण्डपम् ।

ईशे वापी च कूपं स्यादापवत्सपदाश्रितम् ॥८६॥

ईशगोपुरयोर्मध्ये वाद्यस्थानं प्रकीर्तितम् ।

आरादीशे विमानस्य स्थानं चण्डेश्वरस्य वा ॥८७॥

पूर्वोक्तस्थानदेशे वा कर्तव्यं भवनं बुधैः ।

शक्तिस्तम्भः

शक्तिस्तम्भं पीठात्पुरतो विद्याद्विमानमानेन ॥८८॥

क्षुद्राणां द्विगुणोदयमल्पानां तत्समं विद्यात् ।

मध्यविमानानामपि तुङ्गार्धं वा त्रिपादोच्चम् ॥८९॥

उदयत्रिभागमुदितं वाऽर्धं वोत्कृष्टहर्म्याणाम् ।

हस्तं षोडशमात्रं द्वादशदशमात्रकं विपुलम् ॥९०॥

मण्डीकुम्भयुतं तत्फलकोऽर्ध्वे भूतमुक्षा वा ।

शैलं दारुमयं वा वृत्तं वाष्टास्त्रकं द्विरष्टास्त्रम् ॥९१॥

इतरस्थानानि

वेशस्थानं वापी कूपारामौ च दीर्घिका चैव ।

सर्वत्र सम्मतं स्यान्मठभुक्तिनिकेतनं चापि ॥९२॥

नान्तर्मण्डलमथ वा चान्तर्हारं तथैकसालं चेत् ।

अन्तर्हारा मध्यमहारा मर्यादाभित्तिश्च ॥९३॥

त्रिप्राकारेऽप्युदिताः पञ्चयुताः पञ्चसालाः स्युः ।

एषां प्रकाराणामुपरि वृषाः स्युः सपङ्क्तिकाः परितः ॥९४॥

शक्तिस्तम्भात् पुरतस्त्रिचतुःपञ्चान्तरलयं नीत्वा ।

गणिकागृहमथ पार्श्वाद्वये तु संवाहिकासहितम् ॥९५॥

प्राकारबहिः परितो वासं परिवारकाणां तु ।

दासीनामपि तद्वत् पुरतो वा वासमुद्दिष्टम् ॥९६॥

यमदिशि गुरुमठमुदितं पूर्वस्मिन् वाऽप्यवाग्वदनम् ।

शेषमनुक्तं सर्वं कुर्याद्‍ राजोपचारेण ॥९७॥

विष्णुपरिवारकम्

विष्णुधिष्णयेऽहमद्यापि वक्ष्यामि परिवारकम् ।

प्रमुखे वैनतेयश्च वह्नौ गजमुखालयम् ॥९८॥

यमे पितामहः सप्तमातरः पितरीरिताः ।

गुह्ये जलेशे वायव्ये दुर्गा सोमे धनाधिपः ॥९९॥

सेनापतिरथैशाने पीठादीनां तु पूर्ववत् ।

विष्णु-देवालय के परिवार-देवता

प्राकारोऽप्येक एवं स्यादुच्यन्ते द्वादशाधुना ॥१००॥

विष्णोरभिमुखं चक्रं गरुडस्तत्प्रदक्षिणे ।

शङ्खो वामे बर्हिवक्त्राश्चैते सकलरूपिणः ॥१०१॥

सूर्याचन्द्रमसौ पार्श्वे गोपुरस्यान्तराननौ ।

वह्नौ पचनगेहं स्याच्छेषं पूर्ववदाचरेत् ॥१०२॥

मध्यान्तर्हारयोरेव परिवारास्तु षोडश ।

मडपस्याग्रतः कुर्यात्पक्षिराजं तु पीठकम् ॥१०३॥

लोकेशाः क्रमशः स्थाप्यास्तत्तदंशे शिवं विना ।

आदित्यश्च भृगुश्चैवमश्विनौच सरस्वती ॥१०४॥

पद्मा च पृथिवी चैव मुनयः सचिवस्तथा ।

द्वारपालकमध्यादिष्वन्तराले तु कीर्तिताः ।

द्वात्रिंशत्परिवारांश्च युक्त्या तत्रैव योजयेत् ॥१०५॥

चण्डप्रचण्डरथनेमिसपाञ्चजन्य-

दुर्गागणेशविचन्द्रमहानुभावाः

सर्वेश्वरः सुरपतिश्च तथा दशैते

प्राकारपञ्चमुखगोपुरकल्पनीयाः ॥१०६॥

वृषलक्षणम्

वृषस्य लक्षणं सम्यक्‌ संक्षिप्येह प्रवक्ष्यते ॥१०७॥

द्वारलिङ्गसमं श्रेष्ठं चतुरंशविहीनकम् ।

मध्यमं त्रिद्विभागोच्चं कन्यसं वृषभोदयम् ॥१०८॥

गर्भाधं कन्यसं नालीगेहतुल्यं वरोदयम् ।

तदन्तरेऽष्टभागे तु नवमानमुदीरितम् ॥१०९॥

एकादिनवहस्तान्तं कनिष्ठादित्रयं त्रयम् ।

पञ्चाशदंशकं तुङ्गमेकांशमात्रमीरितम् ॥११०॥

पञ्चाष्टाङ्गुलमायामं तन्मानमधुनोच्यते ।

मूर्ध्नस्तु गलपर्यन्तं दशमात्रं ततस्त्वधः ॥१११॥

ग्रीवोच्चमष्टमात्रं स्यादुरोऽन्तं षोडशाङ्गुलम् ।

ऊरुदैर्घ्यं च षण्मात्रं जानुमानं द्विमात्रकम् ॥११२॥

जङ्घादीर्घं षडङ्गुल्या खुरं कोलकमुच्यते ।

श्रृङ्गान्तरं द्विमात्रं स्याच्छृङ्गदैर्घ्यं द्विकोलकम् ॥११३॥

मूलव्यासं त्रिभागेन श्रृङ्गाग्रं तु द्विमात्रकम् ।

ललाटं नवमात्रं स्यान्मुखव्यासं शराङ्गुलम् ॥११४॥

उत्सेधं तत्समं नेत्रायाम द्व्यङ्गुलमीरितम् ।

सार्धाङ्गुलं तदुत्सेधं नेत्रमध्यान्मुखायतम् ॥११५॥

वसुमात्रं ततः पृष्ठं ग्रीवान्तं तु षडङ्गुलम् ।

नेत्रमध्याल्ललाटोच्चं चतुर्मात्रं प्रकीर्तितम् ॥११६॥

नेत्रात्कर्णान्तरं तावत्कर्णायामं शराङ्गुलम् ।

कर्णमूलं द्विमात्रं स्याद्भागं कर्णस्य मध्यमम् ॥११७॥

अग्रमङ्गुलविस्तारं घनमर्धाङ्गुलं भवेत् ।

घ्राणं सार्धाङ्गुलायाममङ्गुलं गाढविस्तृतम् ॥११८॥

अङ्गुलं नासिकातुङ्गमास्यं पञ्चाङ्गुलायतम् ।

उत्तरोष्ठं त्रिमात्रोच्चमधरोष्ठं द्विमात्रकम् ॥११९॥

जिह्वायामविशालोच्चं त्रिद्वयेकाङ्गुलमीरितम् ।

ग्रीवाव्यासं दशाङ्गुल्या मूलं द्वादशमात्रकम् ॥१२०॥

मूलेऽग्रे च घनं पृष्ठे ग्रीवस्याष्टषडङ्गुलम् ।

ककुत् षडङ्गुलव्यासमुत्सेधं तु तदर्धकम् ॥१२१॥

ग्रीवस्याग्रविशालं तु द्विमात्रं युक्ततो न्यसेत् ।

ककुदस्तु शरीरोच्चं त्रिःषडङ्गुलमीरितम् ॥१२२॥

द्विःसप्तमात्रकं पृष्ठे व्यासं द्वादशमात्रकम् ।

अपरोरुविशालं तु दशाष्टचतुरङ्गुलम् ॥१२३॥

पञ्चागुलं तदायामं जानुदेशं द्विमात्रकम् ।

जङ्घादैर्घ्यं शराङ्गुल्या त्र्यङ्गुलं स्याद्विशालकम् ॥१२४॥

सुरोत्सेधं त्रिमात्रं स्यात् पुच्छमूलं तथैव च ।

सार्धाङ्गुलं तु पुच्छाग्रं जङ्घान्तं तस्य लम्बनम् ॥१२५॥

मुष्कायामविशालं तु त्रिद्विमात्रं यथाक्रमम् ।

शेफायामं त्रिमात्रं स्यादुदरादङ्गुलं घनम् ॥१२६॥

ऊरुमूलविशालं तु चतुरङ्गलमग्रतः ।

जङ्घाग्रे तु द्विमात्रं स्याच्छेषं युक्तिवशान्नयेत् ॥१२७॥

स्थितं वा शयित वाऽपि यथायोग्यं तथाचरेत् ।

सुधालोहैः परैर्द्रव्यैर्यथा योग्यं तथा चरेत् ॥१२८॥

घनं वाऽप्यघनं वाऽपि लोहजं युक्तितो नयेत् ।

सकलस्य तु यन्मानं तन्मानं वृषभोदयम् ॥१२९॥

किञ्चिन्न्यूनाधिकं कार्यं सर्वदोषसमुद्भवम् ।

तस्मात् परिहरेद्विद्वान् सर्वलक्षणसंयुतम् ॥१३०॥

द्वारलिङ्गसमं वृषभं वरं मध्यमं चतुरंशविहीनकम् ।

द्वित्रिभागसमोदयमीरितं कन्यसं त्रिविधं मुनिभिर्वरैः ॥१३१॥

इति मयमते वस्तुशास्त्रे प्राकारपरिवारविधानो

नाम त्रयोंविशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:24.2370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

disturbed harmonic process

  • विक्षोभित संवादी प्रक्रम 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.