संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ अष्टमोऽध्यायः

मयमतम् - अथ अष्टमोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(बलिकर्म)

देवानां स्वपदस्थानां बलिकर्म विधीयते ।

सामान्याहत्यमार्गेण ब्रह्मादीनां यथाक्रमम् ॥१॥

आहत्यबलिः

गन्धमाल्यैश्च धूपेन पयसा मधुसर्पिषा ।

पायसौदनलाजैश्च ब्रह्मस्थानं समर्चयेत् ॥२॥

आर्यके फलभक्ष्यं स्यान्माषान्नं च तिलानि च ।

विवस्वति विनिक्षिप्तं दधि दूर्वा च मित्रके ॥३॥

महीधरे भवेद् दुग्धमेवमन्तर्बलिः स्मृतः ।

पर्जन्यस्याज्यमैन्द्रस्य नवनीतं सपुष्पकम् ॥४॥

इन्द्रे कोष्ठं च पुष्पं च मधु कन्दाश्च भास्करे ।

सत्यके मधुकं दद्याद् भृशाय नवनीतकम् ॥५॥

माषं रजनिचूर्णं च गगनस्य बलिं ददेत् ।

दुग्धाज्यं तगरं वह्नेः शिम्बान्नं पूष्णि पायसम् ॥६॥

कङ्‌क्वन्नं वितथे शीधु राक्षसे बलिरिष्यते ।

शिम्बान्नं कृसरं याम्ये गन्धर्वेऽखिलगन्धकम् ॥७॥

भृङ्गराजेऽब्धिमत्स्यः स्यान्मृषे मत्स्यौदनं विदुः ।

निऋतौ तैलपिण्याकं बीजं दौवारिके बलिः ॥८॥

सुग्रीवे मोदकं पुष्पदन्तके पुष्पतोयकम्‌ ।

वरुणे पायसं धान्यं शोणितेनासुरे बलिः ॥९॥

सतिल तण्डुलं शोषे रोगे स्याच्छुष्कमत्स्यकम् ।

स्विन्नं हारिद्रकं वायौ नागे मद्यं च लाजकम् ॥१०॥

धान्यचूर्णं हि मुख्यस्य दधि सर्पिश्च सम्मतम् ।

गुलौदनं तु भल्लाटे सोमे दुग्धौदनं ददेत् ॥११॥

शुष्कमांसं मृगे दद्याद् देवमातरि मोदकम् ।

उदितौ तिलभक्ष्येण क्षीरान्न सर्पिरीशके ॥१२॥

लाजं धान्यं सविन्द्रस्य साविन्द्रे गन्धतोयकम् ।

बस्तमेदस्तथा मुद्गचूर्णमिन्द्रेन्द्रराजयोः ॥१३॥

रुद्रे रुद्रजये मांसं स्विन्नमापापवत्सयोः ।

कुमुदं मत्स्यमांसं च शङ्खकच्छपमांसकम् ॥१४॥

मद्यमाज्यं चरक्यास्तु विदार्या लवणो बलिः ।

पूतनायास्तिलं पिष्टमन्याया मुद्गसारकम् ॥१५॥

साधारणबलिः

साधारणबलिःशुद्धभोजनं सघृतं दधि ।

सर्वेषामपि देवानां गन्धादीनि ददेत् क्रमात् ॥१६॥

कन्यका वाऽथ वेश्या वा बलिधारणयोग्यकाः ।

अङ्गन्यासकरन्यासेः पूतचेता यथाक्रमम् ॥१७॥

ओङ्कारादिनमोऽन्तेन स्वस्वनामाभिधाय च ।

दत्वा पूर्वं जलं पश्चात् साधारणबलिं ददेत् ॥१८॥

तत्तद्योग्यबलिं पश्चाद् देयं तोयं तथा बुधैः ।

ग्रामादीनां तु मण्डूकपदे परमशायिके ॥१९॥

सन्तर्प्य देवता ह्येवं पूर्वोक्तविधिना क्रमात् ।

विसर्जयेत्ततो देवान् विन्यासार्थं तु मन्त्रवत् ॥२०॥

ब्रह्माणं बाह्यदेवांश्च तत्तदुक्तपदे न्यसेत् ।

देवालयविधानार्थं द्वारार्थं ते प्रकीर्तिताः ॥२१॥

शेषाश्च निष्पदाः सर्वे रक्षार्थ तु निवेशिताः ।

एवं ग्रामादिषु प्रोक्तं रहस्यमिदमीरितम् ॥२२॥

कृतोपवासः स्थपतिः प्रभाते

विशुद्धदेहोऽविकलं गृहीत्वा ।

विशेषसामान्यबलिं सुराणां

यथोक्तनीत्या विदधीत सम्यक् ॥२३॥

इति मयमते वस्तुशास्त्रे बलिकर्मविधानो नामाष्टमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP