संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| नवचत्वारिंशात्तमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - नवचत्वारिंशात्तमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत नवचत्वारिंशात्तमोऽध्यायः Translation - भाषांतर सूत उवाच ।जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।संवेष्टयित्वा क्षीरोदं प्लक्षद्वीपो व्यवस्थितः ॥४९.१प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।सिद्धायुताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥४९.२गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते ।नारादो दुन्दुभिश्चैव सोमस्य ऋषभस्तथा ॥४९.३वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः ।तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ॥४९.४उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ।तेषु पुण्या जनपदा आधयो व्याधयो न च ॥४९.५न तत्र पापकर्त्तारः पुरुषा वा कथञ्चन ।तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ॥४९.६तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ।अनुतप्ता शिखे चैव विपापा त्रिदिवा कृता ॥४९.७अमृता सुकृता चैव नामतः परिकीर्त्तिताः ।क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि ॥४९.८न चैतेषु युगावस्था पुरुषा वै चिरायुषः ।आर्यकाः कुरराश्चैव विदशा भाविनस्तथा ॥४९.९ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्त्तिताः ।इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥४९.१०तेषां च सोमसायुज्यं सारूप्यं मुनिपुंगवाः ।सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ॥४९.११पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ।प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ॥४९.१२संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ।सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ॥४९.१३ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ।कुमुदश्चोन्नदश्चैव तृतीयश्च बलाहकः ॥४९.१४द्रोणः कंसस्तु महिषः ककुद्वान् सप्त पर्वताः ।योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥४९.१५निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ।न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ॥४९.१६न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ।यजन्ति सततं तत्र वर्णा वायुं सनातनम् ॥४९.१७तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ।कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ॥४९.१८पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः ।शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥४९.१९संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ।विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ॥४९.२०कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ।धुतपापा शिवा चैव पवित्रा संमिता तथा ॥४९.२१विद्युदन्ता मही चेति नद्यस्तत्र जलावहाः ।अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ॥४९.२२तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ।ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ॥४९.२३वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्त्तिताः ।सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः ॥४९.२४यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ।यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ॥४९.२५तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ।कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ॥४९.२६क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ।क्रौञ्चो वामनकश्चैव तृतीयश्चाधिकारिकः ॥४९.२७देवाब्दश्च विवेदश्च पुण्डरीकस्तथैव च ।नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥४९.२८गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा ।कोभिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥४९.२९पुष्कराः पुष्कला धन्यास्तिष्या वर्णा क्रमेण वै ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥४९.३०अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।व्रतोपवासैर्विविधैर्होमैः स्वाध्यायतर्पणैः ॥४९.३१तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।सलोकता च सामीप्यं जायते तत्प्रसादतः ॥४९.३२क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥४९.३३उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा ।आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥४९.३४सुकुमारी कुमारी च नलिनी रेणुका तथा ।इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥४९.३५आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।अनामयाश्चाशोकाश्च रागद्वेषविवर्जिताः ॥४९.३६मृगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥४९.३७यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥४९.३८तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥४९.३९शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥४९.४०तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥४९.४१नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥४९.४२नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।नारायणपराः सर्वे नारायणपरायणाः ॥४९.४३केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनोऽपरे ॥४९.४४अन्ये निर्बीजयोगेन ब्रह्मभावेन भाविताः ।ध्यायन्ति तत् परं ब्रह्म वासुदेवं परं पदम् ॥४९.४५एकान्तिनो निरालम्बा महाभागवताः परे ।पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥४९.४६सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥४९.४७अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।सुयोगोद्भूतिकरणा महागरुडवाहनाः ॥४९.४८सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥४९.४९तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥४९.५०हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् ।प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ॥४९.५१हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ।हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ॥४९.५२शुभ्रास्तरणसंयुक्तै विचित्रैः समलंकृतम् ।नन्दनैर्विविधाकारैः स्रवन्तीभीश्च शोभितम् ॥४९.५३सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ।पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ॥४९.५४वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ।नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ॥४९.५५हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥४९.५६तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् ।नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥४९.५७नानाविलाससंपन्नैः कामुकैरतिकोमलैः ।प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥४९.५८ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।अशेषविभवोपेतैर्भूषितैस्तनुमध्य विभूषितैः ॥४९.५९सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।संलापालापकुशलैर्दिव्याभरणभूषितैः ॥४९.६०स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥४९.६१प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥४९.६२श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।तस्य मध्येऽतितेजस्कमुद्यत्प्राकारतोरणम् ॥४९.६३स्थानं तद् वैष्णवं दिव्यं योगिनां सिद्धिदायकम् ।तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ॥४९.६४शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ।विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ॥४९.६५स्वात्मानन्दामृतं पीत्वा पुरस्तात् तमसः परः ।सुपीतवसनोऽनन्तो महामायो महाभुजः ॥४९.६६क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ।सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ॥४९.६७समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ।न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ॥४९.६८वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ।न मेऽत्र भवति प्रज्ञा कृत्स्नशास्त्रन्निरूपणे ॥४९.६९एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ।स एव परमं ब्रह्म वासुदेवः सनातनः ॥४९.७०शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥४९.७१नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥४९.७२इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशत्तमोऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP