संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| पञ्चदशोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - पञ्चदशोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत पञ्चदशोऽध्यायः Translation - भाषांतर अथ दक्षयज्ञविध्वंसनम्॥नैमिषेया ऊचुः ।देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।उत्पत्तिं विस्तरात् ब्रूहि सूत वैवस्वतेऽन्तरे ॥१५.१स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ।किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥१५.२सूत उवाच ।वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् ।त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥१५.३स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ।विनिन्द्य पूर्ववैरेण गङ्गाद्वरेऽयजद् भवम् ॥१५.४देवाश्च सर्वे भागार्थमाहूता विष्णुना सह ।सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥१५.५दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनागतम् ।दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥१५.६दधीच उवाच ।ब्रह्माद्यस्तु पिशाचान्ता यस्याज्ञानुविधायिनः ।स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥१५.७दक्ष उवाच ।सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ।न मन्त्रा भार्यया सार्द्धं शंकरस्येति नेज्यते ॥१५.८विहस्य दक्षं कुपितो वचः प्राह महामुनिः ।श्रृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥१५.९दधीच उवाच ।यतः प्रवृत्तिर्विश्वात्मा यश्चास्य परमेश्वरः ।संपूज्यते सर्वयज्ञैर्विदित्वा किन्न शंकरः ॥१५.१०न ह्यं शंकरो रुद्रः संहर्त्ता तामसो हरः ।नग्नः कपाली विदितो विश्वात्मा नोपपद्यते ॥१५.११ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणः स्वराट् ।सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥१५.१२दधीच उवाच ।किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते ।सर्वलोकैकसंहर्त्ता कालात्मा परमेश्वरः ॥१५.१३यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः ।सोऽयं साक्षी तीव्ररोचिः कालात्मा शांकरीतनुः ॥१५.१४एष रुद्रो महादेवः कपर्दो च घृणी हरः ।आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥१५.१५संस्तूयते सहस्रांशुः सामगाध्वर्युहोतृभिः ।पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥१५.१६दक्ष उवाच ।य एते द्वादशादित्या आगता यज्ञभागिनः ।सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥१५.१७एवमुक्ते तु मुनयः समायाता दिदृक्षवः ।बाढमित्यब्रुवन् दक्षं तस्य साहाय्यकारिणः ॥१५.१८तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् ।सहस्त्रशोऽथ शतशो भूय एव विनिन्द्यते ॥१५.१९निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् ।अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥१५.२०देवाश्च सर्वे भागार्थमागता वासवादयः ।नापश्यन् देवमीशानमृते नारायणं हरिम् ॥१५.२१हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः ।पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥१५.२२अन्तर्हिते भगवति दक्षो नारायणं हरिम् ।रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥१५.२३प्रवर्त्तयामास च तं यज्ञं दक्षोऽथ निर्भयः ।रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥१५.२४पुनः प्राह च तं दक्षं दधीचो भगवानृषिः ।संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै रुद्रविद्विषः ॥१५.२५अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ।नरः पापमवाप्नोति महद् वै नात्र संशयः ॥१५.२६असतां प्रग्रहो यत्र सतां चैव विमानना ।दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ॥१५.२७एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः ।समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥१५.२८यस्माद् बहिष्कृता वेदात्भवद्भिः परमेश्वरः ।विनिन्दितो महादेवः शंकरो लोकवन्दितः ॥१५.२९भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः ।निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥१५.३०मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः ।प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥१५.३१त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः ।भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्मुखः ॥१५.३२एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः ।जगाम मनसा रुद्रमशेषाघविनाशनम् ॥१५.३३एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् ।पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥१५.३४देव्युवाच ।दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ।विनिन्द्य भवतो भावमात्मानं चापि शंकर ॥१५.३५देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः ।विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥१५.३६एवं विज्ञापितो देव्या देवदेव परः प्रभुः ।ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥१५.३७सहस्रशीर्षपादं च सहस्राक्षं महाभुजम् ।सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥१५.३८दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् ।दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥१५.३९वीरभद्र इति ख्यातं देवदेवसमन्वितम् ।स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥१५.४०तमाह दक्षस्य मखं विनाशय शिवोऽस्तु ते ।विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥१५.४१ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया ।वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥१५.४२मन्युना चोमया सृष्टा भद्रकाली महेश्वरी ।तया च सार्द्धं वृषभं समारुह्य ययौ गणः ॥१५.४३अन्ये सहस्रशो रुद्रा निसृष्टास्तेन धीमता ।रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥१५.४४शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा ।कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥१५.४५सर्वे वृषभमारूढाः सभार्याश्चातिभीषणाः ।समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥१५.४६सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् ।ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥१५.४७देवाङ्गनासहस्त्राढ्यमप्सरोगीतनादितम् ।वेणुवीणानिनादाढ्यं वेदवादाभिनादितम् ॥१५.४८दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् ॥१५.४९उवाच भद्रया रुद्रैर्वीरभद्रः स्मयन्निव ॥१५.५०वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ।भागाभिलिप्सया भागान् प्राप्ता यच्छध्वमीप्सितान् ॥१५.५१अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः ।भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥१५.५२तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः ।एवमुक्ता गणेशेन प्रजापतिपुरः सराः ॥१५.५३देवा ऊचुः नेज्यते र्यज्ञभागेन न च मन्त्रा इति प्रभुः ।मन्त्रा ऊचुः सुरा यूयं तमोपहतचेतसः ॥१५.५४येनाध्वरस्य राजानं पूजयध्वं महेश्वरम् ।ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः ॥१५.५५पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः ॥एवमुक्त्वा महीशानं मायया नष्टचेतनाः ॥१५.५६न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् ।ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः ॥१५.५७स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः ।मन्त्राः प्रमाणं न कृता युष्माभिर्बलदर्पितैः ॥१५.५८यस्मात् प्रसह्य तस्माद् वो नाशयाम्यद्य गर्वितान्।इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः ॥१५.५९गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः ॥१५.६०गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः ।वीरभद्रोऽपि दीप्तात्मा शक्रस्योद्यच्छतं करम् ॥१५.६१व्यष्टम्भयददीनात्मा तथाऽन्येषां दिवौकसाम् ।भगस्य नेत्रे चोत्पाट्य कराग्रेणैव लीलया ॥१५.६२निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् ।तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया ॥१५.६३धर्षयामास बलवान् स्मयमानो गणेश्वरः ।वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥१५.६४जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः ।तथा विष्णुं सहरुडं समायान्तं महाबलः ॥१५.६५विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् ।समालोक्य महाबाहुरागत्य गरुडो गणम् ॥१५.६६जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा ।ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् ॥१५.६७वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः ।तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः ॥१५.६८विसृज्य माधवं वेगात् तदद्भुतमिवाभवत् ।अन्तर्हिते वैनतेये भगवान् पद्मसंभवः ॥१५.६९आगत्य वारयामास वीरभद्रं च केशवम् ।प्रसादयामास च तं गौरवात् परमेष्ठिनः ॥१५.७०संस्तूय भगवानीशं साम्बस्तत्रागमत् स्वयम् ।वीक्ष्य देवाधिदेवं तमुमां सर्वगणैर्वृताम् ॥१५.७१तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः ।विशेषात् पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥१५.७२स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥ततो भगवती देवी प्रहसन्ती महेश्वरम् ॥१५.७३प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः ।त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः ॥१५.७४अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः ।ततः प्रहस्य भगवान् कपर्दी नीललोहितः ॥१५.७५उवाच प्रणतान् देवान् प्राचेतसमथो हरः ।गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥१५.७६संपूज्यः सर्वयज्ञेषु न निन्द्योऽहं विशेषतः ।त्वं चापि श्रृणु मे दक्ष वचनं सर्वरक्षणम् ॥१५.७७त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः ।भविष्यसि गणेशानः कल्पान्तेऽनुग्रहान्मम ॥१५.७८तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः ।एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः ॥१५.७९अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ।अन्तर्हिते महादेवे शंकरे पद्मसंभवः ॥१५.८०व्याजहार स्वयं दक्षमशेषजगतो हितम् ।ब्रह्मोवाच ।किं तवापगतो मोहः प्रसन्ने वृषभध्वजे ॥१५.८१यदाचष्टे स्वयं देवः पालयैतदतन्द्रितः ।सर्वेषामेव भूतानां हृद्येष वसतीश्वरः ॥१५.८२पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः ।स आत्मा सर्वभूतानां स बीजं परमा गतिः ॥१५.८३स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः ।तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् ॥१५.८४चेतसा भावयुक्तेन स याति परमं पदम् ।तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् ॥१५.८५कर्मणा मनसा वाचा समाराधय यत्नतः ।यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् ॥१५.८६भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः ।यस्तु चैष महायोगी रक्षको विष्णुरव्ययः ॥१५.८७स देवदेवो भगवान् महादेवो न संशयः ।मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् ॥१५.८८मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः ।वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ॥१५.८९एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ।यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ॥१५.९०इति मत्वा यजेद् देवं स याति परमां गतिम् ।सृजत्येष जगत्सर्वं विष्णुस्तत् पश्यतीश्वरः ॥१५.९१इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् ।तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः ॥१५.९२समाश्रय्महादेवं शरण्यं ब्रह्मवादिनाम् ।उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः ॥१५.९३जगाम शरणं देवं गोपतिं कृत्तिवाससम् ।येऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः ॥१५.९४द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ ।त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः ॥१५.९५पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह ।मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु ॥१५.९६निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् ।ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥१५.९७समाराध्य तपोयोगादीशानं त्रिदशाधिपम् ।भविष्यन्ति यथा पूर्वं शंकरस्य प्रसादतः ॥१५.९८एतद्वः कथितं सर्वं दक्षयज्ञनिषूदनम् ।श्रृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥१५.९९इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पञ्चदशोध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP