संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| प्रथमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - प्रथमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराण प्रथमोऽध्यायः Translation - भाषांतर नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥नमस्कृत्याऽप्रमेयाय विष्णवे कूर्मरूपिणे ।पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥१.१सत्रान्ते सूतमनघं नैमिषेया महर्षयः ।पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥१.२त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः ।इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥१.३तस्य ते सर्वरोमाणि वचसा त्दृषितानि यत्द्वैपायनस्य तु भवांस्ततो वै रोमहर्षणः ॥१.४भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ।मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥१.५त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः ।संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥१.६तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् ।वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥१.७मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः ।प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥१.८रोमहर्षण उवाच ।नमस्कृत्य जगद्योनिं कूर्मरूपधरं हरिम् ।वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥१.९यां श्रुत्वा पापकर्माऽपि गच्छेत परमां गतिम् ।न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ॥१.१०श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये ।इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ॥१.११सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥१.१२ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च ।शैवं भागवतं चैव भविष्यं नारदीयकम् ॥१.१३मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ।लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥१.१४कौर्म्मं मात्स्यं गारुडं च वायवीयमनन्तरम् ।अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ॥१.१५अन्यान्युपपुराणानि मुनिभिः कथितानि तु ।अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ॥१.१६आद्यं सनत्कुमारोक्तं नारसिहमतः परम् ।तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥१.१७चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् ।दुर्वाससोक्तमाश्चर्यं नारदीयमतः परम् ॥१.१८कापिलं वामनं चैव तथैवोशनसेरितम् ।ब्रह्माण्डं वारुणं चैव कालिकाह्वयमेव च ॥१.१९माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् ।पराशरोक्तं मारीचं भार्गवाह्वयम् ॥१.२०इदं तु पञ्चदशकं पुराणं कौर्ममुत्तमम् ।चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥१.२१ब्राह्मी भागवती सौरी वैष्णवी च प्रकीर्तिताः ।चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥१.२२इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता ।भवन्ति षट्सहस्राणि श्लोकानामत्र संख्यया ॥१.२३यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः ।माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥१.२४सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं पुण्या दिव्या प्रासङ्गिकी कथाः ॥१.२५ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः ।तामहं वर्णयिष्यमि व्यासेन कथितां पुरा ॥१.२६पुरामृतार्थं दैतेयदानवैः सह देवताः ।मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥१.२७मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः ।बभार मन्दरं देवो देवानां हितकाम्यया ॥१.२८देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः ।कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥१.२९तदन्तरेऽभवद् देवी श्रीर्नारायणवल्लभा ।जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥१.३०तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः ।मोहिताः सह शक्रेण श्रेयो वचनमब्रुवन् ॥१.३१भगवन् देवदेवेश नारायण जगन्मय ।कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम् ॥१.३२श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः ।प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान् ॥१.३३इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी ।माया मम प्रियाऽनन्ता ययेदं मोहितं जगत् ॥१.३४अनयैव जगत्सर्वं सदेवासुरमानुषम् ।मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥१.३५उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् ।विद्यायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥१.३६अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन् द्विजाः ।ब्रह्मेशानादयः सर्वे सर्वशक्तिरियं मम ॥१.३७सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका ।प्रागेव मत्तः संजाता श्रीः कल्पे पद्मवासिनी ॥१.३८चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता ।कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥१.३९नालं देवा न पितरो मानवा वसवोऽपि च ।मायामेतां समुत्तर्त्तुं ये चान्ये भुवि देहिनः ॥१.४०इत्युक्तो वासुदेवेन मुनयो विष्णुमब्रुवन् ।ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रयेऽपि च ॥को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥१.४१अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः ।अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥१.४२पूर्वजन्मनि राजासावधृष्यः शंकरादिभिः ।दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् ॥१.४३संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् ॥ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः ॥१.४४मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः ॥संभाषितो मया चाथ विप्रयोनिं गमिष्यसि ॥१.४५इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् ।सर्वेषामेव भूतानां देवानामप्यगोचरम् ॥१.४६वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ ।लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥१.४७अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः ।वैवस्वतेऽन्तरेऽतीते कार्यार्थं मां प्रवेक्ष्यसि ॥१.४८मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् ।कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥१.४९भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् ।मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥१.५०ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहितेऽक्षरे ।विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः ॥१.५१सोऽर्चयामास भूतानामाश्रयं परमेश्वरम् ।व्रतोपवासनियमैर्होमैर्ब्राह्मणतर्पणैः ॥१.५२तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ।आराधयन् महादेवं योगिनां हृदि संस्थितम् ॥१.५३तस्यैवं वर्तमानस्य कदाचित् परमा कला ।स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥१.५४दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् ।संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ॥१.५५इन्द्रद्युम्न उवाच ।का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे ।याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥१.५६तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला ।हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥१.५७श्रीरुवाचन मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः ।नारायणात्मिका मेकां मायाऽहं तन्मया परा ॥१.५८न मे नारायणाद् भेदो विद्यते हि विचारतः ।तन्मय्यऽहं परं ब्रह्म स विष्णुः परमेश्वरः ॥१.५९येऽर्चयन्तीह भूतानामाश्रयं परमेश्वरम् ।ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥१.६०तस्मादनादिनिधनं कर्मयोगपरायणः ।ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥१.६१इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः ।प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥१.६२कथं स भगवानीशः शाश्वतो निष्कलोऽच्युतः ।ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥१.६३एकमुक्ताऽथ विप्रेण देवी कमलवासिनी ।साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥१.६४उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् ।स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥१.६५सोऽपि नारायणं द्रष्टुं परमेण समाधिना ।आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥१.६६ततो बहुतिथे काले गते नारायणः स्वयम् ।प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥१.६७दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् ।जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥१.६८इन्द्रद्युम्न उवाच ।यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥१.६९नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥१.७०निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥१.७१नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥१.७२नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥१.७३नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने ।अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥१.७४नमस्ते परमार्थाय मायातीताय ते नमः ।नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥१.७५नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥१.७६त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥१.७७त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥१.७८प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥१.७९एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः ।भाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥१.८०स्पृष्टमात्रो भगवता विष्णुना मुनिपुंगवः ।यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥१.८१ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् ।प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥१.८२त्वत्प्रसादादसंदिग्धमुत्पन्नं पुरुषोत्तम ।ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥१.८३नमो भगवते तुभ्यं वासुदेवाय वेधसे ।किं करिष्यामि योगेश तन्मे वद जगन्मय ॥१.८४श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः ।उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥१.८५श्रीभगवानुवाच ।वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः ।ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥१.८६विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् ।प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥१.८७सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् ।अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥१.८८त्रिविधा भावना ब्रह्मन् प्रोच्यमाना विबोध मे ।एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया ॥१.८९अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा ॥आसामन्यतमां चाथ भावनां भावयेद् बुधः ॥१.९०अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः ॥तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ॥१.९१समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥इन्द्रद्युम्न उवाच ।किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन ॥१.९२भगवान् उवाच ।किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥१.९३परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् ।नित्यानन्दं स्वयंज्योतिरक्षरं तमसः परम् ॥१.९४ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते ।कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥१.९५अहं हि सर्वभूतानामन्तर्यामीश्वरः पुरः ।सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥१.९६एतद् विज्ञाय भावेन यथावदखिलं द्विज ।ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥१.९७इन्द्रद्युम्न उवाच ।के ते वर्णाश्रमाचारा यैः समाराध्यते परः ।ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥१.९८कथं सृष्टमिदं पूर्वं कथं संह्रियते पुनः ।कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च ।कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥१.९९तीर्थान्यर्कादिसंस्थानं पृथिव्यायामविस्तरे ।कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः ॥१.१००ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाऽखिलम् ॥श्रीकूर्म उवाच ।एवमुक्तोऽथ तेनाहं भक्तानुग्रहकाम्यया ॥१.१११यथावदखिलं सर्वमवोचं मुनिपुंगवाः ॥व्याख्यायाशेषमेवेदं यत्पृष्टोऽहं द्विजेन तु ॥१.१०२अनुगृह्य च तं विप्रं तत्रैवान्तर्हितोऽभवम् ।सोऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः ॥१.१०३आराधयामास परं भावपूतः समाहितः ॥त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः ॥१.१०४संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः ।आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् ॥१.१०५संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् ।अवाप परमं योगं येनैकं परिपश्यति ॥१.१०६यं विनिद्रा जितश्वासाः कांक्षन्ते मोक्षकांक्षिणः ।ततः कदाचिद् योगीन्द्रो ब्रह्माणं द्रष्टुमव्ययम् ॥१.१०७जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् ।आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥१.१०८विमानं सूर्यसंकाशं प्रादुर्भूतमनुत्तमम् ।अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः ॥१.१०९दृष्ट्वाऽन्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः ।ततः स गत्वा तु गिरिं विवेश सुरवन्दितम् ॥१.११०स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् .संप्रान्य परमं स्थानं सूर्यायुतसमप्रभम् ॥१.१११विवेश चान्तर्भवनं देवानां च दुरासदम् ।विचिन्तयामास परं शरण्यं सर्वदेहिनाम् ॥१.११२अनादिनिधनं देवं देवदेवं पितामहम् ।ततः प्रादुरभूत् तस्मिन् प्रकाशः पर१.११३माद्भुतः ।तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् ॥महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम् ॥१.११४चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् ।सोऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् ॥१.११५प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे ।परिष्वक्तस्य देवेन द्विजेन्द्रस्याथ देहतः ॥१.११६निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् ।ऋग्यजुः सामसंज्ञं तत् पवित्रममलं पदम् ॥१.११७हिरण्यगर्भो भगवान् यत्रास्ते हव्यकव्यभुक् ।द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् ॥१.११८ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् ।दृष्टमात्रो भगवता ब्रह्मणाऽर्चिर्मयो मुनिः ॥१.११९अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् ।स्वात्मानमक्षरं व्योम यत्र विष्णोः परमं पदम् ॥१.१२०आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् ।सर्वभूतात्मभूतः स्थः परमैश्वर्यमास्थितः ॥१.१२१प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् ।तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः ॥१.१२२समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ।सूत उवाच ।व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः ॥१.१२३शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ।ऋषय ऊचुः ।देवदेव हृषीकेश नाथ नारायणामल ॥१.१२४तद् वदाशेषमस्माकं यदुक्तं भवता पुरा .इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् ॥१.१२५शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय ।ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः ॥१.१२६रसातलगतो देवो नारदाद्यैर्महर्षिभिः ।पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् ॥१.१२७सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् ।धन्यं यशस्यमायुष्यं पुण्यं मोक्षप्रदं नृणाम् ॥१.१२८पुराणश्रवणं विप्राः कथनं च विशेषतः ।श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते ॥१.१२९उपाख्यानमथैकं वा ब्रह्मलोके महीयते ।इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा ॥१.१३०उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥१.१३१इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेइन्द्रद्युम्नमोक्ष वर्णनं नाम प्रथमोऽध्यायः ॥ N/A References : N/A Last Updated : November 29, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP