संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| सप्तदशोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - सप्तदशोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत सप्तदशोऽध्यायः Translation - भाषांतर श्रीकूर्म उवाच ।अन्दके निगृहीते वै प्रह्लादस्य महात्मनः ।विरोचनो नाम सुतो बभूव नृपतिः सुतः ॥१७.१देवाञ्जित्वा सदेवेन्द्रान बहून् वर्षान् महासुरः ।पालयामास धर्मेण त्रैलोक्यं सचराचरम् ॥१७.२तस्यैवं वर्तमानस्य कदाचिद् विष्णुचोदितः ।सनत्कुमारो भगवान् पुरं प्राप महामुनिः ॥१७.३दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः ।ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत् ॥१७.४धन्योऽस्म्यनुगृहीतोऽस्मि संप्राप्तो मे पुरातनः ।योगीश्वरोऽद्य भगवान् यतोऽसौ ब्रह्मवित् स्वयम् ॥१७.५किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः ।ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ॥१७.६सोऽब्रवीद् भगवान् देवो धर्मयुक्तं महासुरम् ।द्रष्टुमभ्यागतोऽहं वै भवन्तं भाग्यवानसि ॥१७.७सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम ।त्रिलोके धार्मिको नूनं त्वादृशोऽन्यो न विद्यते ॥१७.८इत्युक्तोऽसुरराजस्तु पुनः प्राह महामुनिम् ।धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ॥१७.९सोऽब्रवीद् भगवान् योगी दैत्येन्द्राय महात्मने ।सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ॥१७.१०स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् ।निधाय पुत्रे तद्राज्यं योगाभ्यासरतोऽभवत् ॥१७.११स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः ।ब्रह्मण्यो धार्मिकोऽत्यर्थं विजिग्येऽथ पुरंदरम् ॥१७.१२कृत्वा तेन महद् युद्धं शक्रः सर्वामरैर्वृतः ।जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ॥१७.१३तदन्तरेऽदितिर्देवी देवमाता सुदुः खिता ।दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ॥१७.१४तताप सुमहद् घोरं तपोराशिस्तपः परम् ।प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ॥१७.१५कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् ।वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ॥१७.१६प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः ।आविर्बभूव योगात्मा देवमातुः पुरो हरिः ॥१७.१७दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता ।मेने कृतार्थमात्मानं तोषयामास केशवम् ॥१७.१८अदितिरुवाच ।जयाशेषदुःखौघनाशैकहेतोजयानन्तमाहात्म्ययोगाभियुक्त ।जयानादिमध्यान्तविज्ञानमूर्त्तेजयाशेषकल्पामलानन्दरूप ॥१७.१९नमो विष्णवे कालरूपाय तुभ्यंनमो नारसिंहाय शेषाय तुभ्यम् ।नमः कालरुद्राय संहारकर्त्रेनमो वासुदेवाय तुभ्यं नमस्ते ॥१७.२०नमो विश्वमायाविधानाय तुभ्यंनमो योगगम्याय सत्याय तुभ्यम् ।नमो धर्मविज्ञाननिष्ठाय तुभ्यंनमस्ते वराहाय भूयो नमस्ते ॥१७.२१नमस्ते सहस्त्रार्कचन्द्राभमूर्त्तेनमो वेदविज्ञानधर्माभिगम्य ।नमो देवदेवादिदेवाय तुभ्यंप्रभो विश्वयोनेऽथ भूयो नमस्ते ॥१७.२२नमः शंभवे सत्यनिष्ठाय तुभ्यंनमो हेतवे विश्वरूपाय तुभ्यम् ।नमो योगपीठान्तरस्थाय तुभ्यंशिवायैकरूपाय भूयो नमस्ते ॥१७.२३एवं स भगवान् कृष्णो देवमात्रा जगन्मयः ।तोषितश्छंदयामास वरेण प्रहसन्निव ॥१७.२४प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् ।त्वामेव पुत्रं देवानां हिताय वरये वरम् ॥१७.२५तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः ।दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ॥१७.२६ततो बहुतिथे काले भगवन्तं जनार्दनम् ।दधार गर्भं देवानां माता नारायणं स्वयम् ॥१७.२७समाविष्टे हृषीकेशे देवमातुरथोदरम् ।उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ॥१७.२८निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः ।प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ॥१७.२९बलिरुवाच ।पितामह महाप्राज्ञ जायन्तेऽस्मत्पुरेऽधुना ।किमुत्पातो भवेत् कार्यमस्माकं किंनिमित्तकाः ॥१७.३०निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः ।नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ॥१७.३१प्रह्लाद उवाच ।यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् ।दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ॥१७.३२यस्मादभिन्नं सकलं भिद्यते योऽखिलादपि ।स वासुदेवो देवानां मातुर्देहं समाविशत् ॥१७.३३न यस्य देवा जानन्ति स्वरूपं परमार्थतः ।स विष्णुरदितेर्देहं स्वेच्छयाऽद्य समाविशत् ॥१७.३४यस्माद् भवन्ति भूतानि यत्र संयान्ति संक्षयम् ।सोऽवतीर्णो महायोगी पुराणपुरुषो हरिः ॥१७.३५न यत्र विद्यते नामजात्यादिपरिकल्पना ।सत्तामात्रात्मरूपोऽसौ विष्णुरंशेन जायते ॥१७.३६यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी ।माया भगवती लक्ष्मीः सोऽवतीर्णो जनार्दनः ॥१७.३७यस्य सा तामसी मूर्त्तिः शंकरो राजसी तनुः ।ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत् ॥१७.३८इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा ।तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ॥१७.३९ततः प्रह्लादवचनाद् बलिर्वैरोचनिर्हरिम् ।जगाम शरणं विश्वं पालयामास धर्मतः ॥१७.४०काले प्राप्ते महाविष्णुं देवानां हर्षवर्द्धनम् ।असूत कश्यपाच्चैनं देवमाताऽदितिः स्वयम् ॥१७.४१चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् ।नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ॥१७.४२उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः ।उपेन्द्र इन्द्रप्रमुखा ब्रह्मा चर्षिगणैर्वृतः ॥१७.४३कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः ।समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन् ॥१७.४४एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः ।स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥१७.४५ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् ।यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ॥१७.४६ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् ।ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ॥१७.४७विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः ।आस्थाय वामनं रूपं यज्ञदेशमथागमत् ॥१७.४८कृष्णाजिनोपवीताङ्ग आषाढेन विराजितः ।ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः ॥१७.४९संप्राप्यासुरराजस्य समीपं भिक्षुको हरिः ।स्वपद्भ्यां क्रमितं देशमयाचत बलिं त्रिभिः ॥१७.५०प्रक्षाल्य चरणौ विष्णोर्बलिर्भावसमन्वितः ।आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ॥१७.५१दास्ये तवेदं भवते पदत्रयंप्रीणातु देवो हरिरव्ययाकृतिः ।विचिन्त्य देवस्य कराग्रपल्लवेनिपातयामास जलं सुशीतलम् ॥१७.५२विचक्रमे पृथिवीमेष चैता-मथान्तरिक्षं दिवमादिदेवः ।व्यपेतरागं दितिजेश्वरं तंप्रकर्तुकामः शरणं प्रपन्नम् ॥१७.५३आक्रम्य लोकत्रयमीशपादःप्राजापत्याद् ब्रह्मलोकं जगाम ।प्रणेमुरादित्यसहस्त्रकल्पंये तत्र लोके निवसन्ति सिद्धाः ॥१७.५४अथोपतस्थे भगवाननादिःपितामहास्तोषयामास विष्णुम् ।भित्त्वा तदण्डस्य कपालमूर्ध्वंजगाम दिव्याभरणानि भूयः ॥१७.५५अथाण्डभेदान्निपपात शीतलंमहाजलं तत् पुण्यकृद्भिश्चजुष्टम् ।प्रवर्तते चापि सरिद्वरा तदागङ्गेत्युक्त्वा ब्रह्मणा व्योमसंस्था ॥१७.५६गत्वा महान्तं प्रकृतिं प्रधानंब्रह्माणमेकं पुरुषं स्वबीजम् ।अतिष्ठदीशस्य पदं तदव्ययंदृष्ट्वा देवास्तत्र तत्र स्तुवन्ति ॥१७.५७आलोक्य तं पुरुषं विश्वकायंमहान् बलिर्भक्तियोगेन विष्णुम् ।ननाम नारायणमेकमव्ययंस्वचेतसा यं प्रणमन्ति वेदाः ॥१७.५८तमब्रवीद् भगवानादिकर्त्ताभूत्वा पुनर्वामनो वासुदेवः ।ममैव दैत्याधिपतेऽधुनेदंलोकत्रयं भवता भावदत्तम् ॥१७.५९प्रणम्य मूर्ध्ना पुनरेव दैत्योनिपातयामास जलं कराग्रे ।दास्ये तवात्मानमनन्तधाम्नेत्रिविक्रमायामितविक्रमाय ॥१७.६०प्रगृह्य सूनोरपि संप्रदत्तंप्रह्लादसूनोरथ शङ्खपाणिः ।जगाद दैत्यं जगदन्तरात्मापातालमूलं प्रविशेति भूयः ॥१७.६१समास्यतां भवता तत्र नित्यंभुक्त्वा भोगान् देवतानामलभ्यान् ।ध्यायस्व मां सततं भक्तियोगात्प्रवेक्ष्यसे कल्पदाहे पुनर्माम् ॥१७.६२उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः ।पुरंदराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥१७.६३संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः ।ब्रह्मा शक्रोऽथ भगवान् रुद्रादित्यमरुद्गणाः ॥१७.६४कृत्वैतदद्भुतं कर्म विष्णुर्वामनरूपधृक् ।पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥१७.६५सोऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः ।प्रह्लादेनासुरवरैर्विष्णु भक्तस्तुतत्परः ॥१७.६६अपृच्छद् विष्णुमाहात्मयं भक्तियोगमनुत्तमम् ।पूजाविधानं प्रह्लादं तदाहासौ चकार सः ॥१७.६७अथ रथचरणंसशङ्खपाणिंसरसिजोलचनमीशमप्रमेयम् ।शरणमुपपयौ स भावयोगात्प्रणयगतिं प्रणिधाय कर्मयोगम् ॥१७.६८एष वः कथितो विप्रा वामनस्य पराक्रमः ।स देवकार्याणि सदा करोति पुरुषोत्तमः ॥१७.६९इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशोऽध्याय॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP