संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| एकोनविंशतितमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - एकोनविंशतितमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत एकोनविंशतितमोऽध्यायः Translation - भाषांतर सूत उवाच ।एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् ।कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥१९.१तस्य वै तपतोऽत्यर्थं प्रादुर्भूतौ सुताविमौ ।वत्सरश्चासिश्चैव तावुभौ ब्रह्मवादिनौ ॥१९.२वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ।रैभ्यस्य जज्ञिरे शूद्राः पुत्रा श्रुतिमतां वराः ॥१९.३च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः ।सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥१९.४असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥१९.५शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः ।प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥१९.६शाण्डिल्या नैध्रुवो रैभ्यः त्रयः पुत्रास्तु काश्यपाः ।नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥१९.७तृणबिन्दोः सुता विप्रा नाम्ना ऐलविला स्मृता ।पुलस्त्याय तु राजर्षिस्तां कन्यां प्रत्यपादयत् ॥१९.८ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत ।तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धिकाः ॥१९.९पुष्पोत्कटा च वाका च कैकसी देववर्णिनी ।रूपलावण्यसंपन्नास्तासां वै श्रृणुत प्रजाः ॥१९.१०ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ।कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ॥१९.११कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् ।पुष्पोत्कटाप्यजनयत् पुत्रान् विश्रवसः शुभान् ॥१९.१२महोदरं प्रहस्तं च महापार्श्वं खरं तथा ।कुम्भीनसीं तथा कन्यां वाकायां श्रृणुत प्रजाः ॥१९.१३त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः ।इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥१९.१४पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ।भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥१९.१५अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे ।मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥१९.१६भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः ।स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥१९.१७अत्रेः पुत्रोऽभवद्वह्निः सोदर्यस्ताः पतिव्रताः ।कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति न श्रुतम् ॥१९.१८स तासु जनयामास स्वस्त्यात्रेयान् महौजसः ।वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥१९.१९नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् ।ऊर्ध्वरेतास्तु तत्रैव शापाद् दक्षस्य नारदः ॥१९.२०हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु ।शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥१९.२१यस्मान्मम सुताः सर्वे भवतो मायया द्विज ।क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥१९.२२अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् ।शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥१९.२३आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् ।लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥१९.२४द्वैपायनाच्छ्रको जज्ञे भगवानेव शंकरः ।अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥१९.२५शुकस्यास्याभवन् पुत्राः पञ्चात्यन्ततपस्विनः ।भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥१९.२६कन्या कीर्त्तिमती चैवं योगमाता धृतव्रता ।एतेऽत्रिवंशाः कथिता ब्रह्मणा ब्रह्मवादिनाम् ॥१९.२७अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥१९.२८इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनविंशोऽध्यायः॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP