संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| द्वाविंशतितमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - द्वाविंशतितमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत द्वाविंशतितमोऽध्यायः Translation - भाषांतर रोमहर्षण उवाच ।ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् ।तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ॥२२.१आयुर्मायुरमायुश्चर्विश्वायुश्चैव वीर्यवान् ।शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ॥२२.२आयुषस्तनया वीराः पञ्चैवासन् महौजसः ।स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ॥२२.३नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः ।नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥२२.४उत्पन्नाः पितृकन्यायां विरजायां महाबलाः ।यतिर्ययातिः संयातिरायातिः पञ्चकोऽश्वकः ॥२२.५तेषां ययातिः पञ्चानां महाबलपराक्रमः ।देवयानीमुशनसः सुतां भार्यामवाप सः ॥२२.६शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ।यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥२२.७द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् ।सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम् ॥२२.८पुरुमेव कनीयांसं पितुर्वचनपालकम् ।दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ॥२२.९दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् ।प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ॥२२.१०तैरियं पृथिवी सर्वा धर्मतः परिपालिता ।राजाऽपि दारसहितो नवं प्राप महायशाः ॥२२.११यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः ।सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नीलोऽजिनोरघुः ॥२२.१२सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः ।सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ॥२२.१३हैहयश्च हयश्चैव राजा वेणुहयश्च यः ।हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ॥२२.१४तस्य पुत्रोऽभवद् विप्रा धर्मनेत्रः प्रतापवान् ।धर्मनेत्रस्य कीर्त्तिस्तु संजितस्तत्सुतोऽभवत् ॥२२.१५महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः ।भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ॥२२.१६दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् ।अन्धकस्य तु दायादाश्चत्वारो लोकसम्मताः ॥२२.१७कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ।कृतौजाश्च चतुर्थोऽभूत् कार्त्तवीर्योऽर्जुनोऽभवत् ॥२२.१८सहत्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः ।तस्य रामोऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ॥२२.१९तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः ।कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः ॥२२.२०शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च ।जयध्वजश्च बलवान् नारायणपरो नृपः ॥२२.२१शूरसेनादयः सर्वे चत्वारः प्रथितौजसः ।रुद्रभक्ता महात्मानः पूजयन्ति स्म शंकरम् ॥२२.२२जयध्वजस्तु मतिमान् देवं नारायणं हरिम् ।जगाम शरणं विष्णुं दैवतं धर्मतत्परः ॥२२.२३तमूचुरितरे पुत्रा नायं धर्मस्तवानघ ।ईश्वराराधनरतः पिताऽस्माकमिति श्रुतिः ॥२२.२४तानब्रवीन्महातेजा एष धर्मः परो मम ।विष्णोरंशेन संभूता राजानो ये महीतले ॥२२.२५राज्यं पालयिताऽवश्यं भगवान् पुरुषोत्तमः ।पूजनीयो यतो विष्णुः पालको जगतो हरिः ॥२२.२६सात्त्विकी राजसी चैव तामसी च स्वयंभुवः ।तिस्त्रस्तु मूर्त्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ॥२२.२७सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा ।सृजेद् ब्रह्मा रजोमूर्त्तिः संहरेत् तामसो हरः ॥२२.२८तस्मान्महीपतीनां तु राज्यं पालयतामयम् ।आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ॥२२.२९निशम्य तस्य वचनं भ्रातरोऽन्ये मनस्विनः ।प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ॥२२.३०अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः ।तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ॥२२.३१या सा घोरतमा मूर्त्तिरस्य तेजोमयी परा ।संहरेद् विद्यया सर्वं संसारं शूलभृत्तया ॥२२.३२ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः ।सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥२२.३३तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः ।मोचयेत् सत्त्वसंयुक्तः पूजयेत्सततं हरम् ॥२२.३४अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः ।स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ॥२२.३५तथा च वैष्णवीं शक्ति र्नृपाणान् दधतां सदा ।आराधनं परो धर्मो पुरारेरमितौजसः ॥२२.३६तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः ।यदर्जुनोऽस्मज्जनकः स धर्मं कृतवानिति ॥२२.३७एवं विवादे वितते शूरसेनोऽब्रवीद् वचः ।प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ॥२२.३८ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः ।गत्वा सर्वे सुसंरब्धाः सप्तर्षीणां तदाश्रमम् ॥२२.३९तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः ।या यस्याभिमता पुंसः सा हि तस्यैव देवता ॥२२.४०किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् ।विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ॥२२.४१नृपाणां दैवतं विष्णुस्तथैव च पुरंदरः ।विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ॥२२.४२देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ।गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ॥२२.४३विद्याधराणां वाग्देवी सिद्धानां भगवान्हरिः ।रक्षसां शंकरो रुद्रः किंनराणां च पार्वती ॥२२.४४ऋषीणां दैवतं ब्रह्मा महादेवस्त्रिशूलभृत् ।मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ॥२२.४५गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् ।वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ॥२२.४६भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः ।सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥२२.४७इत्येवं भगवान् ब्रह्मा स्वयं देवोह्यभाषत ।तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ॥२२.४८किंतु रुद्रेण तादात्म्यं बुध्वा पूज्यो हरिर्नरैः ।अन्यथा नृपतेः शत्रुं न हरि संहरेद्यतः ॥२२.४९तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् ।पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ॥२२.५०ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः ।भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ॥२२.५१दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः ।शूलमादाय सूर्याभं नादयन् वै दिशो दश ॥२२.५२तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते ।तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ॥२२.५३ततः सर्वे सुसंयत्ताः कार्त्तवीर्यात्मजास्तदा ।शूरसेनादयः पञ्च राजानस्तु महाबलाः । ॥२२.५४युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः ॥तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव ॥२२.५५युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः ।शूरोऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् ॥२२.५६प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च ।जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च ॥२२.५७भञ्जयामास शूलेन तान्यस्त्राणि स दानवः ।ततः कृष्णो महावीर्यो गदामादाय भीषणाम् ॥२२.५८स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च ।संप्राप्य सा गादाऽस्योरो विदेहस्य शिलोपमम् ॥२२.५९न दानवं चालयितुं शशाकान्तकसंनिभम् ।दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् ॥२२.६०जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् ।विष्णुं जयिष्णुं लोकादिमप्रमेयमनामयम् ॥२२.६१त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् ।ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् ॥२२.६२आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् ।जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः ॥२२.६३प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः ।संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् ॥२२.६४पृथिव्यां पातयामास शिरोऽद्रिशिखराकृति ।तस्मिन् हते देवरिपौ शूराद्या भ्रातरो नृपाः ॥२२.६५तद्दि चक्रं पुरा विष्णुस्तपसाराध्य शंकरम्यस्मदवाप तत्तस्मादसुराणां विनाशकम् ॥२२.६६समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् ।श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् ॥२२.६७कार्त्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः ।तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः ॥२२.६८समावेश्यासने रम्ये पूजयामास भावतः ।उवाच भगवान् घोरः प्रसादाद् भवतोऽसुरः ॥२२.६९निपातितो मया संख्ये विदेहो दानवेश्वरः ।त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम् ॥२२.७०प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः ।यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् ॥२२.७१कथं केन विधानेन संपूज्यो हरिरीश्वरः ।कोऽयं नारायणो देवः किंप्रभावश्च सुव्रत ॥२२.७२सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे ।जयध्वजस्य वचनं श्रुत्वा शान्तो मुनिस्ततः ।.दृष्ट्वा हरौ परां भक्तिं विश्वामित्र उवाच ह ॥२२.७३विश्वामित्र उवाच ।यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ॥२२.७४स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ॥यमक्षरात्परतरात्परं प्राहुर्गुहश्रयम् ॥२२.७५आनन्दं परमं व्योम स वै नारायण स्मृतः ।.नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः ॥२२.७६चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम् ।परमैत्मा परन्धाम परं व्योम परं पदम् ॥२२.७७त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः ।स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः ॥२२.७८यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः ।स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ॥२२.७९अकामहतभावेन समाराध्यो न चान्यथा ।एतावदुक्त्वा भगवान् विश्वामित्रो महातपाः ॥२२.८०शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् ।अथ शूरादयो देवमयजन्त महेश्वरम् ॥२२.८१यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् ।तान् वसिष्ठस्तु भगवान् याजयामास धर्मवित् ॥२२.८२गौतमोऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः ।विश्वामित्रस्तु भगवान् जयध्वजमरिंदमम् ॥२२.८३याजयामास भूतादिमादिदेवं जनार्दनम् ॥तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः ॥२२.८४आविरासीत् स भगवान् तदद्भुतमिवाभवत् ॥२२.८५जयध्वजोऽपि तं विष्णुं रुद्रस्य परमां तनुम् ।इत्येवं परमं बुद्ध्वा यत्नेनायजदच्युतम् ।.य इमं श्रृणुयान्नित्यं जयध्वजपराक्रमम् ॥२२.८६सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ॥२२.८७इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP