संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| एकचत्वारिंशत्तमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - एकचत्वारिंशत्तमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत एकचत्वारिंशत्तमोऽध्यायः Translation - भाषांतर सूत उवाचअतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः ।त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥४१.१भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्ततः ।जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥४१.२सूर्याचन्द्रमसौ यावत् किरणैरेवभासतः ।तावद् भूर्लोक आख्यातः पुराणे द्विजपुंगवाः ॥४१.३यावत्प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् ।भुवर्लोकोऽपि तावान्स्यान्मण्डलाद् भास्करस्य तु ॥४१.४ऊर्ध्वंयन्मण्डलं व्योम्निध्रुवोयावद्व्यवस्थितः ।स्वर्लोकः समाख्यातस्तत्र वायोस्तु नेमयः ॥४१.५आवहः प्रवहश्चैव तथैवानुवहः पुनः ।संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥४१.६तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः ।भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥४१.७लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् ।नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥४१.८द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥४१.९अङ्गारकोऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः ।लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥४१.१०सौरिर्द्विलक्षेण गुरोर्ग्रहाणामथ मण्डलात् ।सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥४१.११ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रृवः ।मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥४१.१२नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ।त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥४१.१३द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः ।तुल्यस्तयोस्तु स्वर्भानुर्भूत्वा तानुपसर्पति ॥४१.१४उद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः ।स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥४१.१५चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते ।भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥४१.१६बृहस्पतेः पादहीनौ भौमसौरावुभौ स्मृतौ ।विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥४१.१७तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ।बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥४१.१८तारानक्षत्ररूपाणि हीनानि तु परस्परम् ।शतानि पञ्च चत्वारि त्रईणि द्वे चैव योजने ॥४१.१९पूर्वापरानुकृष्टानि तारकामण्डलानि तु ।योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥४१.२०उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥४१.२१तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः ।सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥४१.२२दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् ।तदा पूर्वग्रहाणां वै सूर्योऽधस्तात् प्रसर्पति ॥४१.२३विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ।नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥४१.२४नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥४१.२५तस्माच्छनैश्चरोऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् ।ऋषीणां चैव सप्तानां ध्रृवश्चोर्ध्वं व्यवस्थितः ॥४१.२६योजनानां सहस्राणि भास्करस्य रथो नव ।ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥४१.२७सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु ।योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥४१.२८त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके ।संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥४१.२९चत्वारिंशत् सहस्राणि द्वितीयाक्षो व्यवस्थितः ।पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्विजोत्तमाः ॥४१.३०अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ।ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य तु ॥४१.३१द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ।हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥४१.३२गायत्री च बृहत्युष्णिक् जगती पङ्क्तिरेव च ।अनष्टुप् त्रिष्टुबप्युक्ता श्छन्दांसि हरयो हरेः ॥४१.३३मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी ।दक्षिणायां यमस्याथ वरुणस्य तु पश्चिमे ॥४१.३४उत्तरेषु च सोमस्य तन्नामानि निबोधत ।अमरावती संयमनी सुखा चैव विभावरी ॥४१.३५काष्ठा गतो दक्षिणतः क्षिप्तेषुरिव सर्पति ।ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥४१.३६दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः ।सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखः ॥४१.३७उदयास्तमने चैव सर्वकालं तु संमुखे ।अशेषासु दिशास्वेव तथैव विदिशासु च ॥४१.३८कुलालचक्रपर्यन्तो भ्रमत्येष यथेश्वरः ।करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥४१.३९दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ।त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुंगवाः ॥४१.४०आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ।भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥४१.४१रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् ।द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥४१.४२सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ।सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥४१.४३द्वादशान्ये तथादित्या देवास्ते येऽधिकारिणः ।निर्वहन्ति वदन्त्यस्य तदंशा विष्णुमूर्तयः ॥४१.४४सर्वे नमस्यन्ति सहस्रभाहुंगन्धर्वयक्षोरगकिन्नराद्याः ।यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा-श्छन्दोमयं ब्रह्ममयं पुराणम् ॥४१.४५इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितार्या पूर्वविभागे एकचत्वारिंशोऽध्यायः ॥ ४१ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP