संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| चतुर्दशोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - चतुर्दशोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत चतुर्दशोऽध्यायः Translation - भाषांतर सूत उवाचप्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।धर्मज्ञौ तौ महावीर्यौ शतरूपा व्यजीजनत् ॥१४.१ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् ।भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥१४.२ध्रुवात् सृष्टिंच भाव्यं च भार्या शम्भुर्व्यजायत ।श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥१४.३वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् ।आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥१४.४रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥१४.५रिपोराधत्त महिषी चाक्षुषं सर्वतेजसम् ।सोऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् ॥१४.६प्रजापतेरात्मजायां वीरणस्य महात्मनः ।मनोरजायन्त दश नकुलायां महौजसः ॥१४.७कन्यायां सुमहावीर्यो वैराजस्य प्रजापतेः ।ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् शुचिः ॥१४.८अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ।ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् ॥१४.९अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ।अङ्गाद् वेनोऽभवत् पश्चाद् वैन्यो वेनादजायत ॥१४.१०योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ।येन दुग्धा मही पूर्वं प्राजानां हितकारणात् ॥१४.११नियोगाद् ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा ।वेनपुत्रस्य वितते पुरा पैतामहे मखे ॥१४.१२सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ।प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः ॥१४.१३तं मां वित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम् ।अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥१४.१४श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ।मदन्वये तु ये सूताः संभूता वेदवर्जिताः ॥१४.१५तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ।स तु वैन्यः पृथुर्धीमान् सत्यसंधो जितेन्द्रियः ॥१४.१६सार्वभौमो महातेजाः स्वधर्मपरिपालकः ।तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणेऽभवत् ॥१४.१७गोवर्धनगिरिं प्राप्तः तपस्तेपे जितेन्द्रियः ।तपसा भगवान्प्रीतः शङ्खचक्रगदाधरः ॥१४.१८आगत्य देवो राजानं प्राह दामोदरः स्वयम् ।ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ ॥१४.१९मत्प्रसादादसंदिग्धौ पुत्रौ तव भविष्यतः ।एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥१४.२०वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् ।सोऽपालयत् स्वकं राज्यं न्यायेन मधुसूदनम् ॥१४.२१अचिरादेव तन्वङ्गी भार्या तस्य शुचिस्मिता ।खिखण्डिनं हविर्द्धानमन्तर्द्धानात् व्यजायत ॥१४.२२शिखण्डनोऽभवत् पुत्रः सुशील इति विश्रुतः ।धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ॥१४.२३सोऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः ।मतिं चक्रे भाग्ययोगात् संन्यांसं प्रति धर्मवित् ॥१४.२४स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः ।जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥१४.२५तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् ।अपश्यद् योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥१४.२६तत्र मन्दाकिनी नाम सुपुण्या विमला नदी ।पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥१४.२७स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्युतम् ।सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ॥१४.२८मन्दाकिनीजले स्नात्वा संतर्प्य पितृदेवताः ।अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥१४.२९ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् ।संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥१४.३०रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च ।अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ॥१४.३१अथास्मिन्नन्तरेऽपश्यत् तमायान्तं महामुनिम् ।श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥१४.३२भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् ।तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥१४.३३समाप्य संस्तवं शंभोरानन्दास्राविलेक्षणः ।ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥१४.३४धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः ।योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ॥१४.३५अहो मे सुमहद्भाग्यं तपांसि सफलानि मे ।किं करिष्यामि शिष्योऽहं तव मां पालयानघ ॥१४.३६सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् ।शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥१४.३७सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः ।ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥१४.३८अशेषवेदसारं तत् पशुपाशविमोचनम् ।अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥१४.३९उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः ।ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्यपरायणाः ॥१४.४०मया प्रवर्त्तितां शाखामधीत्यैवेह योगिनः ।समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥१४.४१इह देवो महादेवो रममाणः सहोमया ।अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥१४.४२इहाशेषजगद्धाता पुरा नारायणः स्वयम् ।आराधयन्महादेवं लोकानां हितकाम्यया ॥१४.४३इहैनं देवमीशानं देवानामपि दैवतम् ।आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥१४.४४इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् ।दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥१४.४५तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः ।तिष्ठ नित्यं मया सार्द्धं ततः सिद्धिमवाप्स्यसि ॥१४.४६एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् ।आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥१४.४७सर्वपापोपशमनं वेदसारं विमुक्तिदम् ।अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ॥१४.४८सोऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः ।साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ॥१४.४९भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः ।शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ॥१४.५०हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् ।प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥१४.५१प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः ।समुद्रतनयायां वै दश पुत्रानजीजनत् ॥१४.५२प्रचेतसस्ते विख्याता राजानः प्रथितैजसः ।अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥१४.५३दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥१४.५४स तु दक्षो महेशेन रुद्रेण सह धीमता ।कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ॥१४.५५समायान्तं महादेवो दक्षं देव्या गृहं हरः ।दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥१४.५६तदा वै तमसाविष्टः सोऽधिकां ब्रह्मणः सुतः ।पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥१४.५७कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ।भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥१४.५८अन्ये जामातरः श्रेष्ठा भर्त्तुस्तव पिनाकिनः ।त्वमप्यसत्सुताऽस्माकं गृहाद् गच्छ यथागतम् ॥१४.५९तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ।विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥१४.६०प्रणम्य पशुभर्त्तारं भर्त्तारं कृत्तिवाससम् ।हिमवद्दुहिता साऽभूत् तपसा तस्य तोषिता ॥१४.६१ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्त्तिहरो हरः ।शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥१४.६२त्यक्त्वा देहमिमं ब्रह्मं क्षत्रियाणां कुले भव ।स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥१४.६३एवमुक्त्वा महादेवो ययौ कालासपर्वतम् ।स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥१४.६४एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु ।विसर्गं दक्षपर्यन्तं श्रृण्वतां पापनाशनम् ॥१४.६५इति श्रीकूर्मपुराणे षट्माहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः॥१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP