TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
दशमोऽध्यायः

पूर्वभागः - दशमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


दशमोऽध्यायः
श्रीकूर्म उवाच ।
गते महेश्वरे देवे सोधिवासं पितामहः ।
तदेव सुमहत्पद्मं भेजे नाभिसमुत्थितम् ॥१०.१

अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ ।
महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥१०.२

क्रोधेन महताविष्टौ महापर्वतविग्रहौ ।
कर्णान्तरसमुद्‌भूतौ देवदेवस्य शार्ङ्गिणः ॥१०.३

तावागतौ समीक्ष्याह नारायणमजो विभुः ।
त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥१०.४

तदस्य वचनं श्रुत्वा हरिर्नारायणः प्रभुः ।
आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥१०.५

तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः ।
व्यजयत् कैटभं जिष्णुः विष्णुश्च व्यजयन्मधुम् ॥१०.६

ततः पद्मासनासीनं जगन्नाथं पितामहम् ।
बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥१०.७

अस्मान्मयोह्यमानस्त्वं पद्मादवतर प्रभो ।
नाहं भवन्तं शक्नोमि वोढुं तेजोमयं गुरुम् ॥१०.८

ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः ।
अवाच वैष्णवीं निद्रामेकीभूतोऽथ विष्णुना ॥१०.९

सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः ।
ब्रह्मा नारायणाख्योऽसौ सुष्वाप सलिले तदा ॥१०.१०

सोऽनुभूय चिरं कालमानन्दं परमात्मनः ।
अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥१०.११

ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः ।
ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥१०.१२

पुरस्तादसृजद्देवः सनन्दं सनकं तथा ।
ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥१०.१३

ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः ।
विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥१०.१४

तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः ।
बभूव नष्टचेता वै मायया परमेष्ठिनः ॥१०.१५

ततः पुराणपुरुषो जगन्मूर्ति सनातनः।
व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥१०.१६
विष्णुरुवाच ।
कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः ।
यदुक्तवानात्मनोऽसौ पुत्रत्वे तव शंकरः ॥१०.१७

प्रयुक्तवान् मनो योऽसौ पुत्रत्वेन तु शङ्करः
अवाप संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥१०.१८

प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् ॥
तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत ॥१०.१९

ततो दीर्घेण कालेन दुःखात्क्रोधोऽभ्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥१०.२०

ततस्तेभ्योऽश्रुबिन्दुभ्य भूताः प्रेतास्तथाभवन् ।
सर्वांस्तान्ग्रतो दृष्ट्वा ब्रह्मात्मानमनिन्दत ॥१०.२१

जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ॥
तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभोर्मुखात् ॥१०.२२

सहस्त्रादित्यसंकाशो युगान्तदहनोपमः ॥
रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः ॥१०.२३

रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत ।
रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥१०.२४

अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् ।
स्थानानि तेषामष्टानां ददौ लोकपितामहः ॥१०.२५

भवः शर्वस्तथेशानः पशूनां पतिरेव च ।
भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥१०.२६

सूर्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥१०.२७

स्थानेष्वेतेषु ये रुद्रान् ध्यायन्ति प्रणमन्ति च ।
तेषामष्टतनुर्देवो ददाति परमं पदम् ॥१०.२८

सुवर्चला तथैवोमा विकेशी च शिवा तथा ।
स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥१०.२९

शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥१०.३०

एवंप्रकारो भगवान् देवदेवो महेश्वरः ।
प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥१०.३१

आत्मन्याधाय चात्मानमैश्वरं भावमास्थितः ।
पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥१०.३२

प्रजाः सृजति चादिष्टो ब्रह्मणा नीललोहितः ।
स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥१०.३३

कपरछ्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः ।
त्रिशूलहस्तानुद्रिक्तान् महानन्दांस्त्रिलोचनान् ॥१०.३४

जरामरणनिर्मुक्तान् महावृषभवाहनान् ।
वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान्प्रभुः ॥१०.३५

तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान् ।
जरामरणनिर्मुक्तान् व्याजहर हरं गुरुः ॥१०.३६

मा स्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः ।
अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥१०.३७

ततस्तमाह भगवान् कपर्दी कामशासनः ।
नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥१०.३८

ततः प्रभृति देवोऽसौ न प्रसूतेऽशुभाः प्रजाः ।
स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत ॥१०.३९

स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः ॥
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥१०.४०

द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च ॥
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ॥१०.४१

एवं स शंकरः साक्षात्पिनाकी परमेश्वरः ॥
ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम् ॥१०.४२

सहैव मानसैः रुद्रैः प्रीतिविस्फारलोचनः ॥
ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा ॥१०.४३

तुष्टाव जगतामीशं कृत्वा शिरसि चाञ्जलिम् ॥
ब्रह्मोवाच ।
नमस्तेऽस्तु महादेव नमस्ते परमेश्वर ॥१०.४४

नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥
नमोऽस्तु ते महेशाय नमः शान्ताय हेतवे ॥१०.४५

प्रधानपुरुषेशाय योगाधिपतये नमः ॥
नमः कालाय रुद्राय महाग्रासाय शूलिने ॥१०.४६

नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः ॥
नमस्त्रिमूर्त्तये तुभ्यं ब्रह्मणो जनकाय ते ॥१०.४७

ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने ॥
नमो वेदरहस्याय कालकालाय ते नमः ॥१०.४८

वेदान्तसारसाराय नमो वेदात्ममूर्त्तये ॥
नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ॥१०.४९

प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते ॥
नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ॥१०.५०

त्र्यम्बकायदिदेवाय नमस्ते परमेष्ठिने ॥
नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने ॥१०.५१

अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥
नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे ॥१०.५२

नमो धर्माधिगम्याय योगगम्याय ते नमः ॥
नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः।१०.५३

ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने ॥
त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् ॥१०.५४

त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय ।
त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः ॥१०.५५

परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ॥
त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः ॥१०.५६

त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ॥
भूमिरापोऽनलो वायुर्व्योमाहङ्कार एव च ॥१०.५७

यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ॥
यस्य द्यौरभवन्मूर्द्धा पादौ पृथ्वी दिशो भुजाः ॥१०.५८

आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥
संतापयति यो नित्यं स्वभाभिर्भासयन् दिशः ॥१०.५९

ब्रह्मतेजोमयं वश्वं तस्मै सूर्यात्मने नमः ॥
हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः ॥१०.६०

कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥
आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् ॥१०.६१

पीयते देवतासङ्‌घैस्तस्मै सोमात्मने नमः॥
विभर्त्त्यशेषभूतानि यान्तश्चरति सर्वदा ॥१०.६२

शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ॥
सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ॥१०.६३

आत्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥
यः शते शेषशयने विश्वमावृत्य मायया ॥१०.६४

स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः ।
विभर्त्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् ॥१०.६५

ब्रह्माण्डं योऽखिलाधारस्तस्मै शेषात्मने नमः ॥
यः परान्ते परानन्दं पीत्वा देव्यैकसाक्षिकम् ॥१०.६६

नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥
योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः ॥१०.६७

यस्य केशेषु जीमूताः नद्यः सर्वांगसन्धिषु।
कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः।१०.६८

तं सर्वसाक्षिणं देवं नमस्ये विश्वतस्तनुम् ॥
यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः ॥१०.६९

ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
यया संतरते मायां योगी संक्षीणकल्मषः ॥१०.७०

अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ॥
यस्य भासा विभातीदमद्वयं तमसः परम् ॥१०.७१

प्रपद्ये तत् परं तत्त्वं तद्रूपं पारमेश्वरम् ॥
नित्यानन्दं निराधारं निष्कलं परमं शिवम् ॥१०.७२

प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥
एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ॥१०.७३

प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ॥
ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् ॥१०.७४

ऐश्वरं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ॥
कराभ्यां कोमलाभ्यां च संस्पृश्य प्रणतार्तिहा ॥१०.७५

व्याजहरा स्वयं देवः सोऽनुगृह्य पितामहम् ॥
यत्त्वयाऽभ्यर्थितं ब्रह्मन् पुत्रत्वे भवता मम ॥१०.७६

कृतं मया तत्सकलं सृजस्व विविधं जगत् ॥
त्रिधा भिन्नोऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया ॥१०.७७

सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ।
स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः ॥१०.७८

ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः ।
तस्य देवादिदेवस्य शंभोर्हृदयदेशतः ॥१०.७९

संबभूवाथ रुद्रो वा सोहं तस्य परा तनुः ।
ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः ॥१०.८०

विभज्यात्मानमेकोऽपि स्वेच्छया शंकरः स्थितः ।
तथान्यानि च रूपाणि मम मायाकृतानि च ॥१०.८१

निरूपः केवलः स्वच्छो महादेवः स्वभावतः ।
एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः ॥१०.८२

माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा ।
तस्या एव परां मूर्ति मामवेहि पितामह ॥१०.८३

शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् ।
सोऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् ॥१०.८४

कालो भूत्वा न मनसा मामन्योऽभिभविष्यति ।
यदा यदा हि मां नित्यं विचिन्तयसि पद्मज ॥१०.८५

तदा तदा मे सान्निध्यं भविष्यति तवानघ ।
एतावदुक्त्वा ब्रह्माणं सोऽभिवन्द्य गुरुं हरः ॥१०.८६

सहैव मानसैः पुत्रैः क्षणादन्तरधीयत ।
सोऽपि योगं समास्थाय ससर्ज विविधं जगत् ॥१०.८७

नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः ।
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ॥१०.८८

दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया ।
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥१०.८९

सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः ॥
संकल्पंचैव धर्मंच युगधर्मांश्च शाश्वतान् ॥१०.९०

स्थानाभिमानिनः सर्वान्यथा ते कथितं पुरा ।

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे देशमोऽध्यायः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:19.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

good conscience

  • स्त्री. शुद्धबुद्धि 
  • स्त्री. शुद्धबुद्धि 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.