TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
त्रिचत्वारिंशत्तमोऽध्यायः

पूर्वभागः - त्रिचत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


त्रिचत्वारिंशत्तमोऽध्यायः
सूत उवाच
एवमेष महादेवो देवदेवः पितामहः ।
करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥४३.१

तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥४३.२

सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च ।
विश्वश्रवाः पुनश्चान्यः संयद्वसुरतः परः ॥४३.३

अर्वावसुरिति ख्यातः स्वरकः सप्त कीर्तिताः ।
सुषुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥४३.४

तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिपठ्यते ।
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥४३.५

विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा ।
विश्वश्रवास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥४३.६

संयद्वसुरिति ख्यातः यः पुष्णाति स लोहितम् ।
बृहस्पतिं सुपुष्णाति रश्मिरर्वावसुः प्रभुः ॥४३.७

शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट् तथा ।
एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः ॥४३.८

वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च ।
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ॥४३.९

आदानान्नित्यमादित्यस्तेजसां तमसामपि ।
आदत्ते स तु नाडीनां सहस्रेण समंततः ॥४३.१०

नादेयांश्चैव सामुद्रं कौप्यंश्चैव सहस्रदृक् ।
स्थावरंञ्जङ्गमञ्चैव यच्च कुल्यादिकं पयः ॥४३.११

तस्य रश्मिसहस्रंन्तु शीतवर्षोष्णनिस्रवम् ।
तासां चतुः शता नाड्यो वर्षन्ते चित्रमूर्तयः ॥४३.१३

चन्द्रनाश्चैव गाहाश्च केतला भूतलास्तथा ।
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥४३.१४

हिमोद्वाताश्च ता नाड्यो रश्मय निसृताः पुनः ।
रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो सर्जनास्तथा ॥४३.१५

चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः ।
शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा ॥४३.१६

शुक्लास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः ।
समं बिभर्ति ताभिः स मनुष्यपितृदेवताः ॥४३.१७

मनुष्यानौषधेनेह स्वधया च पितॄनपि ।
अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥४३.१८

वसन्ते ग्रैष्मिके चैव षड्भिः स तपति प्रभुः।
शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति ॥४३.१९

हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ।
वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने ॥४३.२०

चैत्रे मासे स देवेशो धाता वैशाखतापनः ।
ज्येष्ठामूले पतेदिन्द्रः आषाढे तपते रविः ॥४३.२१

विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ।
पर्जन्योऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः ॥४३.२२

मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ।
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥४३.२३

षड्‌भिः सहस्रैः पूषा तु देवोंशः सप्तभिस्तथा ।
धाताऽष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥४३.२४

विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ।
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥४३.२५

अर्यमा दशभिः पाति पर्जन्यो नवभिस्तथा।
षड्‌भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वसृक् ॥४३.२६

वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ।
श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः ॥४३.२७

हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः ।
औषधीषु कलां धत्ते स्वधामपि पितृष्वथ ॥४३.२८

सूर्योऽमरत्वममृते त्रयं त्रिषु नियच्छति ॥
अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्येणाधिष्ठिता द्विजाः ॥४३.२९

चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः ।
भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः ॥४३.३०

सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः ।
भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥४३.३१

अलातचक्रवद् यान्ति वातचक्रेरितास्तथा ।
यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥४३.३२

रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश तेन निशाकरः ॥४३.३३

वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ।
ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥४३.३४

स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते ।
आपूर्यते परस्यान्ते सततं दिवसक्रमात् ॥४३.३५

क्षीणायितं सुरैः सोममाप्याययति नित्यदा ।
एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥४३.३६

एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः ।
पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात् ॥४३.३७

संपूर्णमर्धमासेन तं सोमममृतात्मकम् ।
पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः ॥४३.३७

ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके ।
अपराह्णे पितृगणा जघन्यं पर्युपासते ॥४३.३८

पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या ।
सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥४३.३९

निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ।
मासतृप्तिमवाश्यन्ति पितरः सन्ति निर्वृताः ॥४३.४०

न सोमस्य विनाशः स्यात् सुधा देवैस्तु पीयते ।
एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सत्तमाः ॥४३.४१

सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः ।
वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥४३.४२

शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः ।
अष्टभिश्चापि भौमस्य रथो हैमः सुशोभनः ॥४३.४३

बृहस्पतेरथोऽष्टाश्वः स्यन्दनो हेमनिर्मितः ।
रथो रूप्यमयोऽष्टाश्वो मन्दस्यायसनिर्मितः ॥४३.४४

स्वर्भानोर्भास्करारेश्च तथाष्टाभिर्हयैर्वृतः ।
एते महाग्रहाणां वै समाख्याता रथाश्च वै ॥४३.४५

सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः ।
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः ।
भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥४३.४६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:21.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जाचंदा

  • वि. ( कु . कों . ) त्रास देणारा ; छळणारा ( मूळ , जनावर , आजारी माणूस , इ० ). जाचंद - पु . त्रास ; छळ ; गांजणूक जाच पहा . [ जाच ] 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site