संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| पञ्चत्रिंशत्तमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - पञ्चत्रिंशत्तमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत पञ्चत्रिंशत्तमोऽध्यायः Translation - भाषांतर सूत उवाच ।ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च ।जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥३५.१प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् ।विश्वरूपं तथा तीर्थं कालतीर्थमनुत्तमम् ॥३५.२आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् ।स्वर्नीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥३५.३प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च ।जम्बुकेश्वरमित्युक्तंचर्माख्यं तीर्थमुत्तमम् ॥३५.४गयातीर्थं महातीर्थं तीर्थं चैव महानदी ।नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥३५.५ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् ।यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥३५.६अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् ।नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥३५.७पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् ।घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥३५.८गङ्गातीर्थं तु देवेशं तथातत्तीर्थमुत्तमम् ।कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥३५.९(यत्र लिङ्गं पुरानीयं ब्रह्मा स्नातुं यदा गतः ।तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥३५.१०ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् ।मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥३५.११तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा यतः ।तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति ॥३५.१२भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् ।गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥३५.१३दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः ।चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥३५.१४केदारंतीर्थमुख्याख्यं कालञ्जरमनुत्तमम् ।सारस्वतं प्रभासं च भद्रकर्णं हरं शुभम् ॥३५.१५लौकिकाख्यं महातीर्थं तीर्थं चैव हिमालयम् ।हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥३५.१६उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् ।त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥३५.१७कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् ।शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥३५.१८एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु ।न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजात्तमाः ॥३५.१९तेषु सर्वेषु तीर्थेषु स्नात्वाऽभ्यर्च्य पिनाकिनम् ।उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥३५.२०तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् ।जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥३५.२१स्नात्वाऽभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः ।उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥३५.२२ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः ।वासं च तत्र नियतो वाराणस्यां चकार सः ॥३५.२३शान्तो दान्तस्त्रिषवणंस्नात्वाऽभ्यर्च्य पिनाकिनम् ।भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥३५.२४कदाचिद् वसता तत्र व्यासेनामिततेजसा ।भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥३५.२५ततः क्रोधावृततनुर्नराणामिह वासिनाम् ।विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥३५.२६तत्क्षणात्सा महादेवी शंकरार्द्धशरीरिणी ।प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥३५.२७भो भो व्यास महाबुद्धे शप्तव्या भवता न हि ।गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥३५.२८उवाच च महादेवी क्रोधनस्त्वं भवान् यतः ।इह क्षेत्रे न वस्तव्यं कृतघ्नोऽसि यतः सदा ॥३५.२९एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् ।उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥३५.३०चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शांकरि ।एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥३५.३१एवं स भगवान् व्यासो महायोगी पुरातनः ।ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥३५.३२एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः ।तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥३५.३३सूत उवाच ।यः पठेदविमुक्तस्य माहात्म्यं श्रृणुयादपि ।श्रावयेद् वा द्विजान् शान्तान् सोऽपियातिपरांगतिम् ॥३५.३४श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः ।नदीनां चैव तीरेषु देवतायतनेषु च ॥३५.३५स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥३५.३६इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्त्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP