संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| नवविंशतितमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - नवविंशतितमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत नवविंशतितमोऽध्यायः Translation - भाषांतर इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन ।ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥२९.१अस्मिन् कलियुगे घोरे लोकाः पापानुवर्त्तिनः ।भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥२९.२नान्यत् पश्यामि जन्तूनांमुक्त्वा वाराणसीं पुरीम् ।सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥२९.३कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः ।भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥२९.४त्वं हि लोकेषु विख्यातो धृतिमाञ् जनवत्सलः ।पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥२९.५एवमुक्तो भगवता पार्थः परपुरंजयः ।पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥२९.६तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः ।प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥२९.७व्यास उवाचवक्ष्यामि ते समासेन युगधर्मान् नरेश्वरन शक्यते मया पार्थ विस्तरेणाभिभाषितुम् ॥२९.८आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैःतृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥२९.९ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥२९.१०ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः ।द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥२९.११ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलावपि ।पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥२९.१२आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः ।त्रेतायुगे त्रिपादः स्याद् द्विपादो द्वापरे स्थितः ॥२९.१३त्रिपादहीनस्तिष्टे तु सत्तामात्रेण तिष्ठति ।कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद् अलोलुपा ॥२९.१४प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः ।अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरंजय ॥२९.१५तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ।विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ॥२९.१६ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः ।ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ॥२९.१७पर्वतोदधिवासिन्यो ह्यनिकेतः परंतप ।रसोल्लासा कालयोगात् त्रेताख्ये नश्यते ततः ॥२९.१८तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत ।अपां सौख्ये प्रतिहते तदा मेघात्मना तु वै ॥२९.१९मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले ॥२९.२०प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः ।सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते ॥२९.२१वर्त्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ।ततः कालेन महता तासामेव विपर्यतात् ॥२९.२२रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ।विपर्ययेण तासां तु तेन तत्कालभाविता ॥२९.२३प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ।ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥२९.२४अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ।प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥२९.२५वस्राणि ते प्रसूयन्ते फलान्याभरणानि च ।तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥२९.२६अमाक्षिकं महावीर्यं पुटके पुटके मधु ।तेन ता वर्त्तयन्ति स्म त्रेतायुगमुखे प्रजाः ॥२९.२७हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः ।ततः कालान्तरेणैव पुनर्लोभावृतास्तदा ॥२९.२८वृक्षांस्तान् पर्यगृह्णन्त मधु वामाक्षिकं बलात् ।तासां तेनापचारेण पुनर्लोभकृतेन वै ॥२९.२९प्रनष्टामधुना सार्द्धं कल्पवृक्षाः क्वचित् क्वचित् ।शीतवर्षातपैस्तीव्रै स्तास्ततो दुःखिता भृशम् ॥२९.३०द्वन्द्वैः संपीड्यमानास्तु चक्रुरावरणानि च ।कृत्वा द्वन्द्वप्रतीघातान् वार्त्तोपायमचिन्तयन् ॥२९.३१नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा ।ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥२९.३२वार्त्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः ।तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु ॥२९.३३अवहन् वृष्टिसंतत्या स्रोतः स्थानानि निम्नगाः ।ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले ॥२९.३४अपां भूणेश्च संयोगादोषध्यस्तास्तदाऽभवन् ।अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ॥२९.३५ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ।ततः प्रादुरभूत् तासां रागो लोभश्च सर्वशः ॥२९.३६अवश्यं भाविताऽर्थेन त्रेतायुगवशेन वै ।ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ॥२९.३७वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ।विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् ॥२९.३८पितामहनियोगेन दुदोह पृथिवीं पृथुः ।ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्च्छिताः ॥२९.३९वसुदारधनाद्यांस्तु बलात् कालबलेन तु ।मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद् भगवानजः ॥२९.४०ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च ।वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः ॥२९.४१यज्ञप्रवर्त्तनं चैव पशुहिंसाविवर्जितम् ।द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् ॥२९.४२रागो लोभस्तथा युद्धं मत्वा बुद्धिविनिश्चयम् ।एको वेदश्चतुष्पादस्त्रेदास्विह विधीयते ॥२९.४३वेदव्यासैश्चतुर्द्धा तु न्य्स्यते द्वापरादिषु ।ऋषिपुत्रैः पुनर्भेदाद् भिद्यन्ते दृष्टिविभ्रमैः ॥२९.४४मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ।संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः ॥२९.४५सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित् ।ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ॥२९.४६इतिहासपुराणानि धर्मशास्त्राणि सुव्रत ।अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥२९.४७वाङ्मनः कायजैर्दोषैर्निर्वेदो जायते नृणाम् ।निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥२९.४८विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम् ।दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥२९.४९एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ।आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्त्तते ॥२९.५०द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥२९.५१इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनत्रिंशो ऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP