संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| सप्तत्रिंशत्तमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - सप्तत्रिंशत्तमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत सप्तत्रिंशत्तमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाच ।कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् ।आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥३७.१प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् ।बलीवर्दं समारूढः श्रृणु तस्यापि यत्फलम् ॥३७.२नरके वसते घोरे समाः कल्पशतायुतम् ।ततो निवर्त्तते घोरो गवां क्रोधो हि दारुणः ॥३७.३सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ।यस्तु पुत्रांस्तथा बालान् अन्नहीनान्प्रमुञ्चति ॥३७.४यथात्मानं तथा सर्वान् दानं विप्रेषु दापयेत् ।ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः ॥३७.५निष्फलं तस्य तत् तीर्थं तस्माद्यानं विवर्जयेत् ।गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥३७.६आर्षेण तु विधानेन यथा विभवविस्तरम् ।न स पश्यति तं घोरं नरकं तेन कर्मणा ॥३७.७उत्तरान् स कुरून् गत्वा मोदते कालमव्ययम् ।वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् ॥३७.८सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ।तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥३७.९लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः ।सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयोऽपरे ॥३७.१०नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते ।हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥३७.११गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ।प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥३७.१२तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः ।तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥३७.१३न मातृवचनात् तात न लोकवचनादपि ।मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥३७.१४दश तीर्थ सहस्राणि षष्टिकोट्यस्तथापराः ।तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥३७.१५या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः ।सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥३७.१६न ते जीवन्ति लोकेऽस्मिन् यत्र तत्र युधिष्ठिर ।ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥३७.१७एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् ।मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥३७.१८कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे ।तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥३७.१९तत्र गत्वा नरः स्थानं महादेवस्य धीमतः ।आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥३७.२०कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ।स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥३७.२१पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्येख्यातिमान् नृप ।अवचः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥३७.२२ब्रह्मचारी जितक्रोधस्त्र्रिरात्रं यदि तिष्ठति ।सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥३७.२३उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः ।हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥३७.२४अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते ।यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥३७.२५उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे ।परित्यजतियः प्राणान् श्रृणु तस्यापि यत् फलम् ॥३७.२६षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।आस्ते स पितृभिः सार्द्धं स्वर्गलोके नराधिप ॥३७.२७अथं संध्यावटे रम्ये ब्रह्मचारी समाहितः ।नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥३७.२८कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् ।कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥३७.२९यत्र गङ्गा महाभागा बहुतीर्थतपोवना ।सिद्धंक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥३७.३०क्षितौ तारयते मर्त्त्यान् नागांस्तारयतेऽप्यधः ।दिवि तारयते देवांस्तेन त्रिपथा स्मृता ॥३७.३१यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु ।तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥३७.३२तीर्थानां परमं तीर्थं नदीनां परमा नदी ।मोक्षदा सर्वभूतानां महापातकिनामपि ॥३७.३३सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥३७.३४सर्वेषामे भूतानां पापोपहतचेतसाम् ।गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥३७.३५पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥३७.३६कृते तु नैमिषं तीर्थं त्रेतायां पुष्करं परम् ।द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥३७.३७गङ्गामेव निषेवन्ते प्रयागे तु विशेषतः ।नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥३७.३८अकामो वा सकामो वा गङ्गायां यो विपद्यते ।स मृतो जायते स्वर्गे नरकं च न पश्यति ॥३७.३९इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP