संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
षोडशो‍ऽध्यायः

पूर्वभागः - षोडशो‍ऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूतः उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान् ॥१६.१

यदास्य सृजमानस्य न व्यवर्द्धन्त ताः प्रजाः ।
तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥१६.२

अशिक्न्यां जनयामास वीरणस्य प्रजापतेः ।
सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम् ॥१६.३

तेषु पुत्रेषु नष्टेषु मायया नारदस्य तु ।
षष्टिं दक्षोऽसृजत् कन्या वैरण्यां वै प्रजापतिः ॥१६.४

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
विंशत् सप्त च सोमाय चतस्त्रोऽरिष्टनेमिने ॥१६.५

द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्येऽथ विस्तरम् ॥१६.६

अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥१६.७

धर्मपत्न्यो दश त्वेतास्तासां पुत्रान् निबोधत ।
विश्वदेवास्तु विश्वायां साध्या साध्यानजीजनत् ॥१६.८

मरुत्वन्तो मरुत्वत्यां वसवोऽष्टौ वसोः सुताः ।
भानोस्तु भानवाश्चैव मुहूर्तास्तु मुहूर्तजाः ॥१६.९

लम्बायाश्चाथ घोषो वै नागवीथी तु यामिजा ।
पृथिवीविषयं सर्वमरुन्दत्यामजायत ॥१६.१०

संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ।
येत्वनेकवसुप्राणा देवा ज्योतिः पुरोगमाः।१६.११

वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥१६.१२

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।
आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा ॥१६.१३

ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकाशनः ॥
सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः ॥१६.१४

पुरोजवोऽनिलस्यासीदविज्ञातगतिस्तथा ।
कुमारो ह्यनलस्यासीत् सेनापतिरिति स्मृतः ॥१६.१५

देवलो भगवान् योगी प्रत्यूषस्याभवत् सुतः ।
विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥१६.१६

अदितिर्दितिदनुस्तद्वदरिष्टा सुरसा तथा ।
सुरभिर्विनता चैव ताम्र क्रोधवशा त्विरा ॥१६.१७

कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत ॥
अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ॥१६.१८

विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च ।
तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः ॥१६.१९

वैवस्वतेऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः ॥
दितिः पुत्रद्वयं लेभे कश्यपाद् वलसंयुतम् ॥१६.२०

हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् ।
हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः ॥१६.२१

आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् ।
दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वाऽसौ विविधैः स्तवै ॥१६.२२

अथ तस्य बलाद् देवाः सर्व एव सुरर्षयः ।
बाधितास्ताडिता जग्मुर्देवदेवं पितामहम् ॥१६.२३

शरण्यं शरणं देवं शंभुं सर्वजगन्मयम् ।
ब्रह्माणं लोककर्त्तारं त्रातारं पुरुषं परम् ॥१६.२४

कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् ।
स याचितो देववरैर्मुनिभिश्च मुनीश्वराः ॥१६.२५

सर्वदेवहितार्थाय जगाम कमलासनः ।
संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि ॥१६.२६

क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः ।
दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् ॥१६.२७

ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ।
ब्रह्मोवाच
त्वं गतिः सर्वभूतानामनन्तोऽस्यखिलात्मकः ॥१६.२८

व्यापी सर्वामरवपुर्महायोगी सनातनः ।
त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा ।११६.२९

वैराग्यैश्वर्यनिरतो वागतीतो निरञ्जनः ।
त्वं कर्ता चैव भर्ता च विहन्ता सुरविद्विषाम् ॥१६.३०

त्रातुमर्हस्यनन्तेश त्रातासि परमेश्वरः ।
इत्थं स विष्णुर्भगवान् ब्रह्मणा संप्रबोधितः ॥१६.३१

प्रोवाचोन्निद्रपद्माक्षः पीतवासा सुरान्द्विजाः।
किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः ॥१६.३२

इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ।
देवा ऊचुः
हिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः ॥१६.३३

बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः ।
अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम ॥१६.३४

हन्तुमर्हसि सर्वेषां त्वं त्राताऽसि जगन्मय ।
श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः ॥१६.३५

वधाय दैत्यमुख्यस्य सोऽसृजत् पुरुषं स्वयम् ।
मेरुपर्वतवर्ष्माणँ घोररूपं भयानकम् ॥१६.३६

शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः ।
हत्वा तं दैत्यराजानं हिरण्यकशिपुं पुनः ॥१६.३७

इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् ।
निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् ॥१६.३८

महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् ।
विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः ॥१६.३९

आरुह्य गरुडं देवो महामेरुरिवापरः ।
आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् ॥१६.४०

समाचचक्षिरे नादं तथा दैत्यपतेर्भयात् ।
असुरा ऊचुः
कश्चिदागच्छति महान् पुरुषो देवचोदितः ॥१६.४१

विमुञ्चन् भैरवं नादं तं जानीमो जनार्दनम्।
ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् ॥१६.४२

संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ ॥
दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम् ॥१६.४३

पुरुषं पर्वताकारं नारायणमिवापरम् ।
दुद्रुवुः केचिदन्योन्ममूचुः संभ्रान्तलोचनाः ॥१६.४४

अयं स देवो देवानां गोप्ता नारायणो रिपुः ।
अस्माकमव्ययो नूनं तत्सुतो वा समागतः ॥१६.४५

इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते ।
तानि चाशेषतो देवो नाशयामास लीलया ॥१६.४६

तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः ।
पुत्रं नारायणोद्‌भूतं युयुधुर्मेघनिः स्वनाः ॥१६.४७

प्रह्रादश्चानुह्रादः संह्रादो ह्राद एव च ।
प्रह्रादः प्राहिणोद्‌ ब्राह्ममनुह्रादोऽथ वैष्णवम् ॥१६.४८

संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च ।
तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् ॥१६.४९

न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथं ।
अथासौ चतुरः पुत्रान् महाबाहुर्महाबलः ॥१६.५०

प्रगृह्य पादेषु करैः चिक्षेप च ननाद च
विमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् ॥१६.५१

पादेन ताडयामास वेगेनोरसि तं बली ॥
स तेन पीडितोऽत्यर्थं गरुडेन यथाऽऽशुगः ॥१६.५२

अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः ।
गत्वा विज्ञापयामास प्रवृत्तमखिलं तदा ॥१६.५३

संचिन्त्य मनसा देवः सर्वज्ञानमयोऽमलः ।
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥१६.५४

नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे ।
आविर्बभूव सहसा मोहयन् दैत्यपुंगवान् ॥१६.५५

दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः ।
समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् ॥१६.५६

भाति नारायणोऽनन्तो यथा मध्यंदिने रविः ।
दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् ॥१६.५७

वधाय प्रेरयामास नरसिहस्य सोऽसुरः ।
इमं नृसिंहवपुषं पूर्वस्माद् उग्रशक्तिकम् ॥१६.५८

सहैव तनुजैः सर्वैर्नाशयाशु मयेरितः ।
तत्संनियोगादसुरः प्रह्रादो विष्णुमव्ययम् ॥१६.५९

युयुधे सर्वयत्नेन नरसिंहेन निर्जितः ।
ततः संचोदितो दैत्यो हिरण्याक्षस्तदानुजः ॥१६.६०

ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च ।
तस्य देवाधिदेवस्य विष्णोरमिततेजसः ॥१६.६१

न हानिमकरोदस्त्रं तथा देवस्य शूलिनः ।
दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् ॥१६.६२

मेने सर्वात्मकं देवं वासुदेवं सनातनम् ।
संत्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा ॥१६.६३

ननाम शिरसा देवं योगिनां हृदयेशयम् ।
स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसंभवैः ॥१६.६४

निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाऽब्रवीत् ।
अयं नारायणोऽनन्तः शाश्वतो भगवानजः ॥१६.६५

पुराणपुरुषो देवो महायोगी जगन्मयः ।
अयं धाता विधाता च स्वयंज्योतिर्निरञ्जनः ॥१६.६६

प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः ।
ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः ॥१६.६७

गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् ।
एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् ॥१६.६८

प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया ।
अयं सर्वात्मना वध्यो नृसिंहोऽल्पपराक्रमः ॥१६.६९

समागतोऽस्मद्भवनमिदानीं कालचोदितः ।
विहस्य पितरं पुत्रो वचः प्राह महामतम्।१६.७०

मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् ।
कथं देवो महादेवः शाश्वतः कालवर्जितः ॥१६.७१

कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् ।
ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः ॥१६.७२

निवारितोऽपि पुत्रेण युयोध हरिमव्ययम् ।
संरक्तनयनोऽन्तो हिरण्यनयनाग्रजम् ॥१६.७३

नखैर्विदारयामास प्रह्रादस्यैव पश्यतः ।
हते हिरण्यकशिपौ हिरण्याक्षो महाबलः ॥१६.७४

विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः ।
अनुह्रादादयः पुत्रा अन्ये च शतशोऽसुराः ॥१६.७५

नृसिंहदेहसंभूतैः सिंहैर्नीता यमालयम् ।
ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः ॥१६.७६

स्वमेव परमं रूपं ययौ नारायणाह्वयम् ।
गते नारायणे दैत्यः प्रह्रादोऽसुरसत्तमः ॥१६.७७

अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् ।
स बाधयामास सुरान् रणे जित्वा मुनीनपि ॥१६.७८

लब्ध्वाऽन्धकं महापुत्रं तपसाराध्य शंकरम् ।
देवाञ्जित्वा सदेवेन्द्रान् बध्वाच धरणीमिमाम् ॥१६७९

नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् ।
ततः सब्रह्मका देवाः परिम्लानमुखश्रियः ॥१६.८०

गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् ।
स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः ॥१६.८१

सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे ।
गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः ॥१६.८२

दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् ।
त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् १६.८३

स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् ॥
तस्मिन् हतेऽमररिपौ प्रह्रादौ विष्णुतत्परः ॥१६.८४

अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽऽसुरम् ।
इयाज विधिवद् देवान् विष्णोराराधने रतः ॥१६.८५

निः सपत्नं सदा राज्यं तस्यासीद् विष्णुवैभवात् ।
ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् ॥१६.८६

तापसं नार्चयामास देवानां चैव मायया ।
स तेन तापसोऽत्यर्थं मोहितेनावमानितः ॥१६.८७

शशापासुरराजानं क्रोधसंरक्तलोचनः ।
यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे ॥१६.८८

सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति ।
इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद् द्विजः ॥१६.८९

मुमोह राज्यसंसक्तः सोऽपि शापबलात् ततः ।
बाधयामास विप्रेन्द्रान् न विवेद जनार्दनम् ॥१६.९०

पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति ॥
तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥१६.९१

नारायणस्य देवस्य प्रह्रादस्यामरद्विषः ।
कृत्वा स सुमहद् युद्धं विष्णुना तेन निर्जितः ॥१६.९२

पुर्वसंस्कारमाहात्म्यात् परस्मिन् पुरुषे हरौ।
संजातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥१६.९३

ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् ।
नारायणे महायोगमवाप पुरुषोत्तमे ॥१६.९४

हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि ।
अवाप तन्महद् राज्यमन्धकोऽसुरपुंगवः ॥१६.९५

हिरण्यनेत्रतनयः शंभोर्देहसमुद्भवः ।
मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥१६.९६

पुरा दारुवने पुण्ये मुनयो गृहमेधिनः ।
ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः ॥१६.९७

ततः कदाचिन्महति कालयोगेन दुस्तरा ।
अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी ॥१६.९८

समेत्य सर्वे मुनयो गौतमं तपसां निधिम् ।
अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥१६.९९

स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः ।
सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥१६.१००

गते च द्वादशे वर्षे कल्पान्त इव शंकरी ।
बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥१६.१०१

ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् ।
महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥१६.१०२

निवारयामास च तान् कंचित् कालं यथासुखम् ।
उषित्वा मद्‌गृहेऽवश्यं गच्छध्वमिति पण्डिताः ॥१६.१०३

ततो मायामयीं सृष्ट्वा कृशांगां सर्व एव ते ।
समीपं प्रापयामासुगौतमस्य महात्मनः ॥१६.१०४

सोऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः ।
गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥१६.१०५

स शोकेनाभिसंतप्तः कार्याकार्यं महामुनिः ।
न पश्यति स्म सहसा तादृशं मुनयोऽब्रुवन् ॥१६.१०६

गोवध्येयं द्विजश्रेष्ठ यावत् तव शरीरगा ।
तावत् तेऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥१६.१०७

तेनातोऽनुमताः सन्तो देवदारुवनं शुभम् ।
जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥१६.१०८

स तेषां मायया जातां गोवध्यां गौतमो मुनिः ।
केनापि हेतुना ज्ञात्वा शशापातीवकोपतः ॥१६.१०९

भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः ।
बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥१६.११०

सर्वे संप्राप्य देवेशं शंकरं विष्णुमव्ययम् ।
अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥१६.१११

देवदेवौ महादेवौ भक्तानामार्तिनाशनौ ।
कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हतः ॥१६.११२

तदा पार्श्वस्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः ।
किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति ॥१६.११३

ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः ।
गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥१६.११४

न वेदबाह्ये पुरुषे पुण्यलेशोऽपि शंकर ।
संगच्छते महादेव धर्मो वेदाद् विनिर्बभौ ॥१६.११५

तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर ।
अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥१६.११६

तस्माद् वै वेदबाह्यानां रक्षणार्थाय पापिनाम् ।
विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥१६.११७

एवं संबोधितो रुद्रो माधवेन मुरारिणा ।
चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥१६.११८

कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् ।
पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥१६.११९

सृष्ट्वा तावूचतुर्देवौ कुर्वाणाः शास्रचोदितम् ।
पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥१६.१२०

जायन्तो मानुषे लोके क्षीणपापचयास्ततः ।
ईश्वराराधनबलाद् गच्छध्वं सुकृतां गतिम् ॥१६.१२१

वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः ।
एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः ॥१६.१२२

आदेशं प्रत्यपद्यन्त शिरसाऽसुरविद्विषः ।
चक्रुस्तेऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः ॥१६.१२३

शिष्यानध्यापयामासुर्दर्शयित्वा फलानि च ।
मोहयन्त इमं लोकमवतीर्य महीतले ॥१६.१२४

चकार शंकरो भिक्षां हितायैषां द्विजैः सह ।
कपालमालाभरणः प्रेतभस्मावगुण्ठितः ॥१६.१२५

विमोहयँल्लोकमिमं जटामण्डलमण्डितः ।
निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि ॥१६.१२६

नियोज्य भगवान् रुद्रो भैरवं दुष्टनिग्रहे ।
दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दनम् ॥१६.१२७

संस्थाप्य तत्र च गणान् देवानिन्द्रपुरोगमान् ।
प्रस्थिते च महादेवे विष्णुर्विश्वतनुः स्वयम् ॥१६.१२८

स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् ।
ब्रह्मा हुताशनः शक्रो यमोऽन्ये सुरपुंगवाः ॥१६.१२९

सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः ॥
नन्दीश्वरश्च भगवान् शंभोरत्यन्तवल्लभः ॥१६.१३०

द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत ।
एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः ॥१६.१३१

आहर्तुकामो गिरिजामाजगामाथ मन्दरम् ।
संप्राप्तमन्धकं दृष्ट्वा शंकरः कालभैरवः ॥१६.१३२

न्यषेधयदमेयात्मा कालरूपधरो हरः ।
तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥१६.१३३

शूलेनोरसि तं दैत्यमाजघान वृषध्वजः ।
ततः सहस्रशो दैत्यः ससर्जान्धकसंज्ञिताः ॥१६.१३४

नन्दीश्वरादयो दैत्यैरन्धकैरभिनिर्जिताः ।
घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः ॥१६.१३५

विनायको मेघवाहः सोमनन्दी च वैद्युतः ।
सर्वेऽन्धकं दैत्यवरं संप्राप्यातिबलान्विताः ॥१६.१३६

युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः ।
भ्रामयित्वा तु हस्ताभ्यां गृहीतचरणद्वय ॥१६.१३७

दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् ।
ततोऽन्धकनिसृष्टास्ते शतशोऽथ सहस्त्रशः ॥१६.१३८

कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः ।
हाहेति शब्दः सुमहान् बभूवातिभयंकरः ॥१६.१३९

युयोध भैरवो रुद्रः शूलमादाय भीषणम् ।
दृष्ट्वाऽन्धकानां सुबलं दुर्जयं निर्जितो हरः ॥१६.१४०

जगाम शरणन्देवं वासुदेवमजं विभुम् ॥
सोऽसृजद् भगवान् विष्णुर्देवीनां शतमुत्तमम् ॥१६.१४१

देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् ॥
तदान्धकसहस्रं तु देवीभिर्यमसादनम् ॥१६.१४२

नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे ।
दृष्ट्वा पराहतं सैन्यमन्धकोऽपि महासुरः ॥१६.१४३

पराङ्‌मुखो रणात् तस्मात् पलायत महाजवः ।
ततः क्रीडां महादेवः कृत्वा द्वादशवार्षिकीम् ॥१६.१४४

हिताय लोके भक्तानामाजगामाथ मन्दरम् ।
संप्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः ॥१६.१४५

समागम्योपतिष्टन्त भानुमन्तमिव द्विजाः ।
प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् ॥१६.१४६

ददर्श नन्दिनं देवं भैरवं केशवं शिवः ।
प्रणामप्रवणं देवं सोऽनुगृह्याथ नन्दिनम् ॥१६.१४७

आघ्राय मूर्द्धमीशानः केशवं परिषस्वजे ।
दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणाम् ॥१६.१४८

ननाम शिरसा तस्य पादयोरीश्वरस्य च ।
निवेद्य विजयं तस्मै शंकरायाथ शंकरः ॥१६.१४९

भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगोऽभवत् ।
श्रुत्वा तं विजयं शंभुर्विक्रमं केशवस्य च ॥१६.१५०

समास्ते भगवानीशो देव्या सह वरासने ।
ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः ॥१६.१५१

आजग्मुर्मन्दरं द्रुष्टुं देवदेवं त्रिलोचनम् ।
येन तद् विजितं पूर्वं देवीनां शतमुत्तमम् ॥१६.१५२

समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया ।
दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् ॥१६.१५३

प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः ।
प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः ॥१६.१५४

देवासनगतं देवं नारायणमनामयम् ।
दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च ॥१६.१५५

प्रणम्य देवमीशानं पृष्टवत्यो वराङ्‌गनाः ।
कन्या ऊचुः
कस्त्वं विभ्राजसे कान्त्या केयं बालारविप्रभा ॥१६.१५६

कोऽन्वयं भाति वपुषा पङ्कजायतलोचनः ॥
निशम्य तासां वचनं वृषेन्द्रवरवाहनः ॥११६.१५७

व्याजहार महायोगी भूताधिपतिरव्ययः ।
अहं नारायणो गौरी जगन्माता सनातनः ॥१६.१५८

विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ।
न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ॥१६.१५९

एकोऽयं वेद विश्वात्मा भवानी विष्णुरेव च ।
अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः ॥१६.१६०

मामेव केशवं प्राहुर्लक्ष्मीं र्देवीमथाम्बिकाम् ।
एष धाता विधाता च कारणं कार्यमेव च ॥१६.१६१

कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः ।
भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् ॥१६.१६२

स्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः ।
कृटस्थो ह्यक्षरो व्यापी योगी नारायणा ह्वयम् ॥१६.१६३

तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ।
सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ॥१६.१६४

शान्ता सत्या सदानन्दा परं पदमिति श्रुतिः ।
अस्यां सर्वमिदं जातमत्रैव लयमेष्यति ॥१६.१६५

एषैव सर्वभूतानां गतीनामुत्तमा गतिः ।
तयाहं संगतो देव्या केवलो निष्कलः परः ॥१६.१६६

पश्याम्यशेषमेवेदं यस्तद् परमात्मानमव्ययम् ।
तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् ॥१६.१६७

एकमेव विजानीथ ततो यास्यथ निर्वृतिम् ।
मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयाऽन्विताः ॥१६.१६८

ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः ।
द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु ॥१६.१६९

पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि ।
तसमादशेषभूतानां रक्षको विष्णुरव्ययः ॥१६.१७०

यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः ।
श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः ॥१६.१७१

नेमुर्नारायणं देवं देवीं च हिमशैलजाम् ।
प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये ॥१६.१७२

भवानीपादयुगले नारायणपदाम्बुजे ।
ततो नारायणं देवं गणेशा मातरोऽपि च ॥१६.१७३

न पश्यन्ति जगत्सूतिं तदद्‌भुतमिवाभवत् ।
तदन्तरे महादैत्यो ह्यन्धको मन्मथान्धकः ॥१६.१७४

मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ ।
अथानन्तवपुः श्रीमान् योगी नारायणोऽमलः ।
तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः ॥१६.१७५

कृत्वाऽथ पार्श्वे भगवन्तमीशो
युद्धाय विष्णुं गणदेवमुख्यैः ।
शिलादपुत्रेण च मातृकाभिः
स कालरुद्रोऽभिजगाम देवः ॥१६.१७६

त्रिशूलमादाय कृशानुकल्पं
स देवदेवः प्रययौ पुरस्तात् ।
तमन्वयुस्ते गणराजवर्या
जगाम देवोऽपि सहस्त्रबाहुः ॥१६.१७७

रराज मध्ये भगवान् सुराणां
विवाहनो वारिजपर्णवर्णः ।
तदा सुमेरोः शिखराधिरूढ-
स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥१६.१७८

जगत्यनादिर्भगवानमेयो
हरः सहस्राकृतिराविरासीत् ।
त्रिशूलपाणिर्गगने सुघोषः
पपात देवोपरि पुष्पवृष्टिः ॥१६.१७९

समागतं वीक्ष्य गणेशराजं
समावृतं देवरिपुंगणेशैः ।
युयोध शक्रेण समातृकाभि-
र्गणैरशेषैरमरप्रधानैः ॥१६.१८०

विजित्य सर्वानपि बाहुवीर्यात्
स संयुगे शंभुमनन्तधाम ।
समाययौ यत्र स कालरुद्रो
विमानमारुह्य विहीनसत्त्वः ॥१६.१८१

दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः ।
व्याजहार महादेवं भैरवं भूतिभूषणम् ॥१६.१८२

हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् ।
त्वामृते भगवान् शक्तो हन्ता नान्योऽस्य विद्यते ॥१६.१८३

त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः ।
स्तूयते विविधैर्मन्त्रैर्वेदविद्भिर्विचक्षणैः ॥१६.१८४

स वासुदेवस्य वचो निशम्य भगवान् हरः ।
निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥१६.१८५

जगाम देवतानीकं गणानां हर्षमुद्वहन् ।
स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥१६.१८६

जयानन्त महादेव कालमूर्ते सनातन ।
त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥१६.१८७

त्वं यत्रज्ञस्त्वं वषट्‌कारस्त्वं धाता हरिरव्ययः ।
त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥१६.१८८

ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः ।
महाविभूतिर्देवेशो जयाशेषजगत्पते ॥१६.१८९

ततः कालाग्निरुद्रोऽसौ गृहीत्वाऽन्धकमीश्वरः
त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः । १६.१९०

दृष्ट्वाऽन्धकं देवगणाः शूलप्रोतं पितामहः ।
प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥१६.१९१

अस्तुवन् मुनयः सिद्धा जगुर्गन्धर्विकिन्नराः ।
अन्तरिक्षेऽप्सरः सङ्घा नृत्यन्तिस्म मनोहराः ॥१६.१९२

संस्थापितोऽथशूलाग्रे सोऽन्धको दग्धकिल्बिषः ।
उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥१६.१९३

अन्धक उवाच
नमामि मूर्ध्ना भगवन्तमेकं
समाहिता यं विदुरीशतत्त्वम् ।
पुरातनं पुण्यमनन्तरूपं
कालं कविं योगवियोगहेतुम् ॥१६.१९४

दंष्ट्राकरालं दिवि नृत्यमानं
हुताशवक्त्रं ज्वलनार्करूपम् ।
सहस्त्रपादाक्षिशिरोभियुक्तं
भवन्तमेकं प्रणमामि रुद्रम् ॥१६.१९५

जयादिदेवामरपूजिताङ्‌घ्रे
विभागहीनामलतत्त्वरूप ।
त्वमग्निरेको बहुधाऽभिपूज्यो
बाह्यादिभेदैरखिलात्मरूपः ॥१६. १९६

त्वामेकमाहुः पुरुषं पुराण-
मादित्यवर्णं तमसः परस्तात् ।
त्वं पश्यसीदं परिपास्यजस्रं
त्वमन्तको योगिगणाभिजुष्टः ॥१६.१९७

एकोऽन्तरात्मा बहुधा निविष्टो
देहेषु देहादिविशेषहीनः ।
त्वमात्मतत्वं परमात्मशब्धं
भवन्तमाहुः शिवमेव केचित् ॥१६.१९८

त्वमक्षरं ब्रह्म परं पवित्र-
मानन्दरूपं प्रणवाभिधानम् ।
त्वमीश्वरो वेदपदेष्वसिद्धः
स्वयं प्रभोऽशेषविशेषहीनः ॥१६.१९९

त्वमिन्द्ररूपो वरुणाग्निरूपो
हंसः प्राणो मृत्युरन्तासि यज्ञः ।
प्रजापतिर्भगवानेकरुद्रो
नीलग्रीवः स्तूयसे वेदविद्भिः ॥१६.२००

नारायणस्त्वं जगतामथादिः
पितामहस्त्वं प्रपितामहश्च ।
वेदान्तगुह्योपनिषत्सु गीतः
सदाशिवस्त्वं परमेश्वरोऽसि ॥१६.२०१

नमः परस्मै तमसः परस्तात्
परात्मने पञ्चपदान्तराय ।
त्रिशक्त्यतीताय निरञ्जनाय
सहस्रशक्त्यासनसंस्थिताय ॥१६.२०२

त्रिमूर्त्तयेऽनन्तपदात्ममूर्त्ते
जगन्निवासाय जगन्मयाय ।
नमो ललाटार्पितलोचनाय
नमो जनानां हृदि संस्थिताय ॥१६.२०३

मुनीन्द्रसिद्धार्चितपादपद्म।
ऐश्वर्यधर्मासनसंस्थिताय
नमः परान्ताय भवोद्भवाय ।
सहस्त्रचन्द्रार्कविलोडनाय।१६.२०४.

नमोऽस्तु ते सोम सुमध्यमाय ।
नमोऽस्तु ते देव हिरण्यबाहो
नमोऽग्नि चंद्रार्कविलोचनाय
नमोऽम्बिकायाः पतये मृडाय ॥१६.२०५

नमोऽतुगुह्याय गुहान्तराय
वेदान्तविज्ञानसुनिश्चिताय ।
त्रिकालहीनामलधामधाम्ने
नमो महेशाय नमः शिवाय ॥१६.२०६

एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् ।
तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वा च परमेश्वरः ॥१६.२०७

प्रीतोऽहं सर्वथा दैत्य स्तवेनानेन सांप्रतम् ।
संप्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥१६.२०८

अरोगश्छिन्नसंदेहो देवैरपि सुपूजितः ।
नन्दीश्वरस्यानुचरः सर्वदुःखविवर्जितः ॥१६.२०९

एवं व्याहृतमात्रे तु देवदेवेन देवताः ।
गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥१६.२१०

सहस्त्रसूर्यसंकाशं त्रिनेत्रं चन्द्रचिह्नितम् ।
नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥१६.२११

दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः ।
उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥१६.२१२

स्थाने तव महादेव प्रभावः पुरुषो महान् ।
नेक्षतेऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥१६.२१३

इतीरितोऽथ भैरवो गणेशदेवपुंगवः ।
सकेशवः सहान्धको जगाम शंकरान्तिकम् ॥
निरीक्ष्य देवमागतं सशंकरः सहान्धकम् ।
समाधवं समातृकं जगाम निर्वृतिं हरः ॥१६.२१४

प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् ।
जगाम यत्र शैलजा विमानमीशवल्लभा ॥

विलोक्य सा समागतं भवं भवार्तिहारिणम् ।
अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥१६.२१५

अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् ।
पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥
नमामि देववल्लभामनादिमद्रिजामिमाम् ।
यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥१६.२१६

विभाति या शिवासने शिवेन साकमव्यया ।
हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् ।
यदन्तराखिलं जगज्जगन्ति यान्ति संक्षयम् ।
नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥१६.२१७

न जायते नहीयते न वर्द्धते च तामुमाम् ।
नमामि या गुणातिगां गिरीशपुत्रिकामिमाम् ॥
क्षमस्व देवि शैलजे कृतं मया विमाहतं ।
सुरासुरैर्नमस्कृतं नमामि ते पदाम्बुजम् ॥१६.२१८

इत्थं भगवती दिवी भक्तिनम्रेण पार्वती ।
संस्तुता दैत्यपतिना पुत्रत्वे जगृहेऽन्धकम् ॥१६.२१९

ततः स मातृभिः सार्द्धं भैरवो रुद्रसंभवः ।
जगामानुज्ञया शंभोः पातालं परमेश्वरः ॥१६.२२०

यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका ।
समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥१६.२२१

ततोऽनन्ताकृतिः शंभुः शेषेणापि सुपूजितः ।
कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥१६.२२२

युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः ।
बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥१६.२२३

मातर ऊचुः
बुभुक्षिता महादेव अनुज्ञा दीयतां त्वया ।
त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥१६.२२४

एतावदुक्त्वा वचनं मातरो विष्णुसंभवाः ।
भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम् ॥१६.२२५

ततः स भैरवो देवो नृसिंहवपुषं हरिम् ।
दध्यौ नारायणं देवं प्रणम्यचकृताञ्जलिः ॥१६.२२६

उमेश चिंतितं ज्ञात्वा क्षणात्प्रादुरभूद्धरिः।
विज्ञापयामास च तं भक्षयन्तीह मातरः ॥१६.२२७

निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति ।
संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः ।
उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥१६.२२८

संप्राप्य सन्निधिं विष्णोः सर्व संहारकारिकाः ।
प्रददुः शंभवे शक्तिं भैरवायातितेजसे ॥१६.२२९

अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् ।
क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥१६.२३०

व्याजहार हृषीकेशो ये भक्ताः शूलपाणये ।
ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥१६.२३१

ममैव मूर्तिरतुला सर्वसंहारकारिका ।
महेश्वरांशसंभूता भुक्तिमुक्तिप्रदायिनी ॥१६.२३२

अनन्तो भगवान् कालो द्विधाऽवस्था ममैव तु ।
तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥१६.२३३

सोऽयं देवो दुराधर्षः कालो लोकप्रकालनः ।
भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥१६.२३४

या सा विमोहिका मूर्तिर्मम नारायणाह्वया ।
सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा ॥१६.२३५

स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः ।
मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥१६.२३६

इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः ।
प्रपेदिरे महादेवं तमेव शरणं हरम् ॥१६.२३७

एतद्‌ वः कथितं सर्वं मयाऽन्धकनिबर्हणम् ।
माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ १६.२३८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षोडशोऽध्यायः॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP