संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| षोडशोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - षोडशोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत षोडशोऽध्यायः Translation - भाषांतर सूतः उवाचप्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान् ॥१६.१यदास्य सृजमानस्य न व्यवर्द्धन्त ताः प्रजाः ।तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥१६.२अशिक्न्यां जनयामास वीरणस्य प्रजापतेः ।सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम् ॥१६.३तेषु पुत्रेषु नष्टेषु मायया नारदस्य तु ।षष्टिं दक्षोऽसृजत् कन्या वैरण्यां वै प्रजापतिः ॥१६.४ददौ स दश धर्माय कश्यपाय त्रयोदश ।विंशत् सप्त च सोमाय चतस्त्रोऽरिष्टनेमिने ॥१६.५द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते ।द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्येऽथ विस्तरम् ॥१६.६अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥१६.७धर्मपत्न्यो दश त्वेतास्तासां पुत्रान् निबोधत ।विश्वदेवास्तु विश्वायां साध्या साध्यानजीजनत् ॥१६.८मरुत्वन्तो मरुत्वत्यां वसवोऽष्टौ वसोः सुताः ।भानोस्तु भानवाश्चैव मुहूर्तास्तु मुहूर्तजाः ॥१६.९लम्बायाश्चाथ घोषो वै नागवीथी तु यामिजा ।पृथिवीविषयं सर्वमरुन्दत्यामजायत ॥१६.१०संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ।येत्वनेकवसुप्राणा देवा ज्योतिः पुरोगमाः।१६.११वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्।आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥१६.१२प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा ॥१६.१३ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकाशनः ॥सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः ॥१६.१४पुरोजवोऽनिलस्यासीदविज्ञातगतिस्तथा ।कुमारो ह्यनलस्यासीत् सेनापतिरिति स्मृतः ॥१६.१५देवलो भगवान् योगी प्रत्यूषस्याभवत् सुतः ।विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥१६.१६अदितिर्दितिदनुस्तद्वदरिष्टा सुरसा तथा ।सुरभिर्विनता चैव ताम्र क्रोधवशा त्विरा ॥१६.१७कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत ॥अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ॥१६.१८विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च ।तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः ॥१६.१९वैवस्वतेऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः ॥दितिः पुत्रद्वयं लेभे कश्यपाद् वलसंयुतम् ॥१६.२०हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् ।हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः ॥१६.२१आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् ।दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वाऽसौ विविधैः स्तवै ॥१६.२२अथ तस्य बलाद् देवाः सर्व एव सुरर्षयः ।बाधितास्ताडिता जग्मुर्देवदेवं पितामहम् ॥१६.२३शरण्यं शरणं देवं शंभुं सर्वजगन्मयम् ।ब्रह्माणं लोककर्त्तारं त्रातारं पुरुषं परम् ॥१६.२४कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् ।स याचितो देववरैर्मुनिभिश्च मुनीश्वराः ॥१६.२५सर्वदेवहितार्थाय जगाम कमलासनः ।संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि ॥१६.२६क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः ।दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् ॥१६.२७ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ।ब्रह्मोवाचत्वं गतिः सर्वभूतानामनन्तोऽस्यखिलात्मकः ॥१६.२८व्यापी सर्वामरवपुर्महायोगी सनातनः ।त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा ।११६.२९वैराग्यैश्वर्यनिरतो वागतीतो निरञ्जनः ।त्वं कर्ता चैव भर्ता च विहन्ता सुरविद्विषाम् ॥१६.३०त्रातुमर्हस्यनन्तेश त्रातासि परमेश्वरः ।इत्थं स विष्णुर्भगवान् ब्रह्मणा संप्रबोधितः ॥१६.३१प्रोवाचोन्निद्रपद्माक्षः पीतवासा सुरान्द्विजाः।किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः ॥१६.३२इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ।देवा ऊचुःहिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः ॥१६.३३बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः ।अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम ॥१६.३४हन्तुमर्हसि सर्वेषां त्वं त्राताऽसि जगन्मय ।श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः ॥१६.३५वधाय दैत्यमुख्यस्य सोऽसृजत् पुरुषं स्वयम् ।मेरुपर्वतवर्ष्माणँ घोररूपं भयानकम् ॥१६.३६शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः ।हत्वा तं दैत्यराजानं हिरण्यकशिपुं पुनः ॥१६.३७इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् ।निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् ॥१६.३८महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् ।विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः ॥१६.३९आरुह्य गरुडं देवो महामेरुरिवापरः ।आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् ॥१६.४०समाचचक्षिरे नादं तथा दैत्यपतेर्भयात् ।असुरा ऊचुःकश्चिदागच्छति महान् पुरुषो देवचोदितः ॥१६.४१विमुञ्चन् भैरवं नादं तं जानीमो जनार्दनम्।ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् ॥१६.४२संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ ॥दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम् ॥१६.४३पुरुषं पर्वताकारं नारायणमिवापरम् ।दुद्रुवुः केचिदन्योन्ममूचुः संभ्रान्तलोचनाः ॥१६.४४अयं स देवो देवानां गोप्ता नारायणो रिपुः ।अस्माकमव्ययो नूनं तत्सुतो वा समागतः ॥१६.४५इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते ।तानि चाशेषतो देवो नाशयामास लीलया ॥१६.४६तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः ।पुत्रं नारायणोद्भूतं युयुधुर्मेघनिः स्वनाः ॥१६.४७प्रह्रादश्चानुह्रादः संह्रादो ह्राद एव च ।प्रह्रादः प्राहिणोद् ब्राह्ममनुह्रादोऽथ वैष्णवम् ॥१६.४८संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च ।तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् ॥१६.४९न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथं ।अथासौ चतुरः पुत्रान् महाबाहुर्महाबलः ॥१६.५०प्रगृह्य पादेषु करैः चिक्षेप च ननाद चविमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् ॥१६.५१पादेन ताडयामास वेगेनोरसि तं बली ॥स तेन पीडितोऽत्यर्थं गरुडेन यथाऽऽशुगः ॥१६.५२अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः ।गत्वा विज्ञापयामास प्रवृत्तमखिलं तदा ॥१६.५३संचिन्त्य मनसा देवः सर्वज्ञानमयोऽमलः ।नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥१६.५४नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे ।आविर्बभूव सहसा मोहयन् दैत्यपुंगवान् ॥१६.५५दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः ।समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् ॥१६.५६भाति नारायणोऽनन्तो यथा मध्यंदिने रविः ।दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् ॥१६.५७वधाय प्रेरयामास नरसिहस्य सोऽसुरः ।इमं नृसिंहवपुषं पूर्वस्माद् उग्रशक्तिकम् ॥१६.५८सहैव तनुजैः सर्वैर्नाशयाशु मयेरितः ।तत्संनियोगादसुरः प्रह्रादो विष्णुमव्ययम् ॥१६.५९युयुधे सर्वयत्नेन नरसिंहेन निर्जितः ।ततः संचोदितो दैत्यो हिरण्याक्षस्तदानुजः ॥१६.६०ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च ।तस्य देवाधिदेवस्य विष्णोरमिततेजसः ॥१६.६१न हानिमकरोदस्त्रं तथा देवस्य शूलिनः ।दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् ॥१६.६२मेने सर्वात्मकं देवं वासुदेवं सनातनम् ।संत्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा ॥१६.६३ननाम शिरसा देवं योगिनां हृदयेशयम् ।स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसंभवैः ॥१६.६४निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाऽब्रवीत् ।अयं नारायणोऽनन्तः शाश्वतो भगवानजः ॥१६.६५पुराणपुरुषो देवो महायोगी जगन्मयः ।अयं धाता विधाता च स्वयंज्योतिर्निरञ्जनः ॥१६.६६प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः ।ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः ॥१६.६७गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् ।एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् ॥१६.६८प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया ।अयं सर्वात्मना वध्यो नृसिंहोऽल्पपराक्रमः ॥१६.६९समागतोऽस्मद्भवनमिदानीं कालचोदितः ।विहस्य पितरं पुत्रो वचः प्राह महामतम्।१६.७०मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् ।कथं देवो महादेवः शाश्वतः कालवर्जितः ॥१६.७१कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् ।ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः ॥१६.७२निवारितोऽपि पुत्रेण युयोध हरिमव्ययम् ।संरक्तनयनोऽन्तो हिरण्यनयनाग्रजम् ॥१६.७३नखैर्विदारयामास प्रह्रादस्यैव पश्यतः ।हते हिरण्यकशिपौ हिरण्याक्षो महाबलः ॥१६.७४विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः ।अनुह्रादादयः पुत्रा अन्ये च शतशोऽसुराः ॥१६.७५नृसिंहदेहसंभूतैः सिंहैर्नीता यमालयम् ।ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः ॥१६.७६स्वमेव परमं रूपं ययौ नारायणाह्वयम् ।गते नारायणे दैत्यः प्रह्रादोऽसुरसत्तमः ॥१६.७७अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् ।स बाधयामास सुरान् रणे जित्वा मुनीनपि ॥१६.७८लब्ध्वाऽन्धकं महापुत्रं तपसाराध्य शंकरम् ।देवाञ्जित्वा सदेवेन्द्रान् बध्वाच धरणीमिमाम् ॥१६७९नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् ।ततः सब्रह्मका देवाः परिम्लानमुखश्रियः ॥१६.८०गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् ।स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः ॥१६.८१सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे ।गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः ॥१६.८२दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् ।त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् १६.८३स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् ॥तस्मिन् हतेऽमररिपौ प्रह्रादौ विष्णुतत्परः ॥१६.८४अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽऽसुरम् ।इयाज विधिवद् देवान् विष्णोराराधने रतः ॥१६.८५निः सपत्नं सदा राज्यं तस्यासीद् विष्णुवैभवात् ।ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् ॥१६.८६तापसं नार्चयामास देवानां चैव मायया ।स तेन तापसोऽत्यर्थं मोहितेनावमानितः ॥१६.८७शशापासुरराजानं क्रोधसंरक्तलोचनः ।यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे ॥१६.८८सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति ।इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद् द्विजः ॥१६.८९मुमोह राज्यसंसक्तः सोऽपि शापबलात् ततः ।बाधयामास विप्रेन्द्रान् न विवेद जनार्दनम् ॥१६.९०पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति ॥तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥१६.९१नारायणस्य देवस्य प्रह्रादस्यामरद्विषः ।कृत्वा स सुमहद् युद्धं विष्णुना तेन निर्जितः ॥१६.९२पुर्वसंस्कारमाहात्म्यात् परस्मिन् पुरुषे हरौ।संजातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥१६.९३ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् ।नारायणे महायोगमवाप पुरुषोत्तमे ॥१६.९४हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि ।अवाप तन्महद् राज्यमन्धकोऽसुरपुंगवः ॥१६.९५हिरण्यनेत्रतनयः शंभोर्देहसमुद्भवः ।मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥१६.९६पुरा दारुवने पुण्ये मुनयो गृहमेधिनः ।ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः ॥१६.९७ततः कदाचिन्महति कालयोगेन दुस्तरा ।अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी ॥१६.९८समेत्य सर्वे मुनयो गौतमं तपसां निधिम् ।अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥१६.९९स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः ।सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥१६.१००गते च द्वादशे वर्षे कल्पान्त इव शंकरी ।बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥१६.१०१ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् ।महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥१६.१०२निवारयामास च तान् कंचित् कालं यथासुखम् ।उषित्वा मद्गृहेऽवश्यं गच्छध्वमिति पण्डिताः ॥१६.१०३ततो मायामयीं सृष्ट्वा कृशांगां सर्व एव ते ।समीपं प्रापयामासुगौतमस्य महात्मनः ॥१६.१०४सोऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः ।गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥१६.१०५स शोकेनाभिसंतप्तः कार्याकार्यं महामुनिः ।न पश्यति स्म सहसा तादृशं मुनयोऽब्रुवन् ॥१६.१०६गोवध्येयं द्विजश्रेष्ठ यावत् तव शरीरगा ।तावत् तेऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥१६.१०७तेनातोऽनुमताः सन्तो देवदारुवनं शुभम् ।जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥१६.१०८स तेषां मायया जातां गोवध्यां गौतमो मुनिः ।केनापि हेतुना ज्ञात्वा शशापातीवकोपतः ॥१६.१०९भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः ।बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥१६.११०सर्वे संप्राप्य देवेशं शंकरं विष्णुमव्ययम् ।अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥१६.१११देवदेवौ महादेवौ भक्तानामार्तिनाशनौ ।कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हतः ॥१६.११२तदा पार्श्वस्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः ।किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति ॥१६.११३ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः ।गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥१६.११४न वेदबाह्ये पुरुषे पुण्यलेशोऽपि शंकर ।संगच्छते महादेव धर्मो वेदाद् विनिर्बभौ ॥१६.११५तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर ।अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥१६.११६तस्माद् वै वेदबाह्यानां रक्षणार्थाय पापिनाम् ।विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥१६.११७एवं संबोधितो रुद्रो माधवेन मुरारिणा ।चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥१६.११८कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् ।पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥१६.११९सृष्ट्वा तावूचतुर्देवौ कुर्वाणाः शास्रचोदितम् ।पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥१६.१२०जायन्तो मानुषे लोके क्षीणपापचयास्ततः ।ईश्वराराधनबलाद् गच्छध्वं सुकृतां गतिम् ॥१६.१२१वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः ।एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः ॥१६.१२२आदेशं प्रत्यपद्यन्त शिरसाऽसुरविद्विषः ।चक्रुस्तेऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः ॥१६.१२३शिष्यानध्यापयामासुर्दर्शयित्वा फलानि च ।मोहयन्त इमं लोकमवतीर्य महीतले ॥१६.१२४चकार शंकरो भिक्षां हितायैषां द्विजैः सह ।कपालमालाभरणः प्रेतभस्मावगुण्ठितः ॥१६.१२५विमोहयँल्लोकमिमं जटामण्डलमण्डितः ।निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि ॥१६.१२६नियोज्य भगवान् रुद्रो भैरवं दुष्टनिग्रहे ।दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दनम् ॥१६.१२७संस्थाप्य तत्र च गणान् देवानिन्द्रपुरोगमान् ।प्रस्थिते च महादेवे विष्णुर्विश्वतनुः स्वयम् ॥१६.१२८स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् ।ब्रह्मा हुताशनः शक्रो यमोऽन्ये सुरपुंगवाः ॥१६.१२९सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः ॥नन्दीश्वरश्च भगवान् शंभोरत्यन्तवल्लभः ॥१६.१३०द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत ।एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः ॥१६.१३१आहर्तुकामो गिरिजामाजगामाथ मन्दरम् ।संप्राप्तमन्धकं दृष्ट्वा शंकरः कालभैरवः ॥१६.१३२न्यषेधयदमेयात्मा कालरूपधरो हरः ।तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥१६.१३३शूलेनोरसि तं दैत्यमाजघान वृषध्वजः ।ततः सहस्रशो दैत्यः ससर्जान्धकसंज्ञिताः ॥१६.१३४नन्दीश्वरादयो दैत्यैरन्धकैरभिनिर्जिताः ।घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः ॥१६.१३५विनायको मेघवाहः सोमनन्दी च वैद्युतः ।सर्वेऽन्धकं दैत्यवरं संप्राप्यातिबलान्विताः ॥१६.१३६युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः ।भ्रामयित्वा तु हस्ताभ्यां गृहीतचरणद्वय ॥१६.१३७दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् ।ततोऽन्धकनिसृष्टास्ते शतशोऽथ सहस्त्रशः ॥१६.१३८कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः ।हाहेति शब्दः सुमहान् बभूवातिभयंकरः ॥१६.१३९युयोध भैरवो रुद्रः शूलमादाय भीषणम् ।दृष्ट्वाऽन्धकानां सुबलं दुर्जयं निर्जितो हरः ॥१६.१४०जगाम शरणन्देवं वासुदेवमजं विभुम् ॥सोऽसृजद् भगवान् विष्णुर्देवीनां शतमुत्तमम् ॥१६.१४१देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् ॥तदान्धकसहस्रं तु देवीभिर्यमसादनम् ॥१६.१४२नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे ।दृष्ट्वा पराहतं सैन्यमन्धकोऽपि महासुरः ॥१६.१४३पराङ्मुखो रणात् तस्मात् पलायत महाजवः ।ततः क्रीडां महादेवः कृत्वा द्वादशवार्षिकीम् ॥१६.१४४हिताय लोके भक्तानामाजगामाथ मन्दरम् ।संप्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः ॥१६.१४५समागम्योपतिष्टन्त भानुमन्तमिव द्विजाः ।प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् ॥१६.१४६ददर्श नन्दिनं देवं भैरवं केशवं शिवः ।प्रणामप्रवणं देवं सोऽनुगृह्याथ नन्दिनम् ॥१६.१४७आघ्राय मूर्द्धमीशानः केशवं परिषस्वजे ।दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणाम् ॥१६.१४८ननाम शिरसा तस्य पादयोरीश्वरस्य च ।निवेद्य विजयं तस्मै शंकरायाथ शंकरः ॥१६.१४९भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगोऽभवत् ।श्रुत्वा तं विजयं शंभुर्विक्रमं केशवस्य च ॥१६.१५०समास्ते भगवानीशो देव्या सह वरासने ।ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः ॥१६.१५१आजग्मुर्मन्दरं द्रुष्टुं देवदेवं त्रिलोचनम् ।येन तद् विजितं पूर्वं देवीनां शतमुत्तमम् ॥१६.१५२समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया ।दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् ॥१६.१५३प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः ।प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः ॥१६.१५४देवासनगतं देवं नारायणमनामयम् ।दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च ॥१६.१५५प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः ।कन्या ऊचुःकस्त्वं विभ्राजसे कान्त्या केयं बालारविप्रभा ॥१६.१५६कोऽन्वयं भाति वपुषा पङ्कजायतलोचनः ॥निशम्य तासां वचनं वृषेन्द्रवरवाहनः ॥११६.१५७व्याजहार महायोगी भूताधिपतिरव्ययः ।अहं नारायणो गौरी जगन्माता सनातनः ॥१६.१५८विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ।न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ॥१६.१५९एकोऽयं वेद विश्वात्मा भवानी विष्णुरेव च ।अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः ॥१६.१६०मामेव केशवं प्राहुर्लक्ष्मीं र्देवीमथाम्बिकाम् ।एष धाता विधाता च कारणं कार्यमेव च ॥१६.१६१कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः ।भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् ॥१६.१६२स्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः ।कृटस्थो ह्यक्षरो व्यापी योगी नारायणा ह्वयम् ॥१६.१६३तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ।सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ॥१६.१६४शान्ता सत्या सदानन्दा परं पदमिति श्रुतिः ।अस्यां सर्वमिदं जातमत्रैव लयमेष्यति ॥१६.१६५एषैव सर्वभूतानां गतीनामुत्तमा गतिः ।तयाहं संगतो देव्या केवलो निष्कलः परः ॥१६.१६६पश्याम्यशेषमेवेदं यस्तद् परमात्मानमव्ययम् ।तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् ॥१६.१६७एकमेव विजानीथ ततो यास्यथ निर्वृतिम् ।मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयाऽन्विताः ॥१६.१६८ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः ।द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु ॥१६.१६९पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि ।तसमादशेषभूतानां रक्षको विष्णुरव्ययः ॥१६.१७०यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः ।श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः ॥१६.१७१नेमुर्नारायणं देवं देवीं च हिमशैलजाम् ।प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये ॥१६.१७२भवानीपादयुगले नारायणपदाम्बुजे ।ततो नारायणं देवं गणेशा मातरोऽपि च ॥१६.१७३न पश्यन्ति जगत्सूतिं तदद्भुतमिवाभवत् ।तदन्तरे महादैत्यो ह्यन्धको मन्मथान्धकः ॥१६.१७४मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ ।अथानन्तवपुः श्रीमान् योगी नारायणोऽमलः ।तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः ॥१६.१७५कृत्वाऽथ पार्श्वे भगवन्तमीशोयुद्धाय विष्णुं गणदेवमुख्यैः ।शिलादपुत्रेण च मातृकाभिःस कालरुद्रोऽभिजगाम देवः ॥१६.१७६त्रिशूलमादाय कृशानुकल्पंस देवदेवः प्रययौ पुरस्तात् ।तमन्वयुस्ते गणराजवर्याजगाम देवोऽपि सहस्त्रबाहुः ॥१६.१७७रराज मध्ये भगवान् सुराणांविवाहनो वारिजपर्णवर्णः ।तदा सुमेरोः शिखराधिरूढ-स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥१६.१७८जगत्यनादिर्भगवानमेयोहरः सहस्राकृतिराविरासीत् ।त्रिशूलपाणिर्गगने सुघोषःपपात देवोपरि पुष्पवृष्टिः ॥१६.१७९समागतं वीक्ष्य गणेशराजंसमावृतं देवरिपुंगणेशैः ।युयोध शक्रेण समातृकाभि-र्गणैरशेषैरमरप्रधानैः ॥१६.१८०विजित्य सर्वानपि बाहुवीर्यात्स संयुगे शंभुमनन्तधाम ।समाययौ यत्र स कालरुद्रोविमानमारुह्य विहीनसत्त्वः ॥१६.१८१दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः ।व्याजहार महादेवं भैरवं भूतिभूषणम् ॥१६.१८२हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् ।त्वामृते भगवान् शक्तो हन्ता नान्योऽस्य विद्यते ॥१६.१८३त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः ।स्तूयते विविधैर्मन्त्रैर्वेदविद्भिर्विचक्षणैः ॥१६.१८४स वासुदेवस्य वचो निशम्य भगवान् हरः ।निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥१६.१८५जगाम देवतानीकं गणानां हर्षमुद्वहन् ।स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥१६.१८६जयानन्त महादेव कालमूर्ते सनातन ।त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥१६.१८७त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः ।त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥१६.१८८ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः ।महाविभूतिर्देवेशो जयाशेषजगत्पते ॥१६.१८९ततः कालाग्निरुद्रोऽसौ गृहीत्वाऽन्धकमीश्वरःत्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः । १६.१९०दृष्ट्वाऽन्धकं देवगणाः शूलप्रोतं पितामहः ।प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥१६.१९१अस्तुवन् मुनयः सिद्धा जगुर्गन्धर्विकिन्नराः ।अन्तरिक्षेऽप्सरः सङ्घा नृत्यन्तिस्म मनोहराः ॥१६.१९२संस्थापितोऽथशूलाग्रे सोऽन्धको दग्धकिल्बिषः ।उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥१६.१९३अन्धक उवाचनमामि मूर्ध्ना भगवन्तमेकंसमाहिता यं विदुरीशतत्त्वम् ।पुरातनं पुण्यमनन्तरूपंकालं कविं योगवियोगहेतुम् ॥१६.१९४दंष्ट्राकरालं दिवि नृत्यमानंहुताशवक्त्रं ज्वलनार्करूपम् ।सहस्त्रपादाक्षिशिरोभियुक्तंभवन्तमेकं प्रणमामि रुद्रम् ॥१६.१९५जयादिदेवामरपूजिताङ्घ्रेविभागहीनामलतत्त्वरूप ।त्वमग्निरेको बहुधाऽभिपूज्योबाह्यादिभेदैरखिलात्मरूपः ॥१६. १९६त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् ।त्वं पश्यसीदं परिपास्यजस्रंत्वमन्तको योगिगणाभिजुष्टः ॥१६.१९७एकोऽन्तरात्मा बहुधा निविष्टोदेहेषु देहादिविशेषहीनः ।त्वमात्मतत्वं परमात्मशब्धंभवन्तमाहुः शिवमेव केचित् ॥१६.१९८त्वमक्षरं ब्रह्म परं पवित्र-मानन्दरूपं प्रणवाभिधानम् ।त्वमीश्वरो वेदपदेष्वसिद्धःस्वयं प्रभोऽशेषविशेषहीनः ॥१६.१९९त्वमिन्द्ररूपो वरुणाग्निरूपोहंसः प्राणो मृत्युरन्तासि यज्ञः ।प्रजापतिर्भगवानेकरुद्रोनीलग्रीवः स्तूयसे वेदविद्भिः ॥१६.२००नारायणस्त्वं जगतामथादिःपितामहस्त्वं प्रपितामहश्च ।वेदान्तगुह्योपनिषत्सु गीतःसदाशिवस्त्वं परमेश्वरोऽसि ॥१६.२०१नमः परस्मै तमसः परस्तात्परात्मने पञ्चपदान्तराय ।त्रिशक्त्यतीताय निरञ्जनायसहस्रशक्त्यासनसंस्थिताय ॥१६.२०२त्रिमूर्त्तयेऽनन्तपदात्ममूर्त्तेजगन्निवासाय जगन्मयाय ।नमो ललाटार्पितलोचनायनमो जनानां हृदि संस्थिताय ॥१६.२०३मुनीन्द्रसिद्धार्चितपादपद्म।ऐश्वर्यधर्मासनसंस्थितायनमः परान्ताय भवोद्भवाय ।सहस्त्रचन्द्रार्कविलोडनाय।१६.२०४.नमोऽस्तु ते सोम सुमध्यमाय ।नमोऽस्तु ते देव हिरण्यबाहोनमोऽग्नि चंद्रार्कविलोचनायनमोऽम्बिकायाः पतये मृडाय ॥१६.२०५नमोऽतुगुह्याय गुहान्तरायवेदान्तविज्ञानसुनिश्चिताय ।त्रिकालहीनामलधामधाम्नेनमो महेशाय नमः शिवाय ॥१६.२०६एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् ।तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वा च परमेश्वरः ॥१६.२०७प्रीतोऽहं सर्वथा दैत्य स्तवेनानेन सांप्रतम् ।संप्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥१६.२०८अरोगश्छिन्नसंदेहो देवैरपि सुपूजितः ।नन्दीश्वरस्यानुचरः सर्वदुःखविवर्जितः ॥१६.२०९एवं व्याहृतमात्रे तु देवदेवेन देवताः ।गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥१६.२१०सहस्त्रसूर्यसंकाशं त्रिनेत्रं चन्द्रचिह्नितम् ।नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥१६.२११दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः ।उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥१६.२१२स्थाने तव महादेव प्रभावः पुरुषो महान् ।नेक्षतेऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥१६.२१३इतीरितोऽथ भैरवो गणेशदेवपुंगवः ।सकेशवः सहान्धको जगाम शंकरान्तिकम् ॥निरीक्ष्य देवमागतं सशंकरः सहान्धकम् ।समाधवं समातृकं जगाम निर्वृतिं हरः ॥१६.२१४प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् ।जगाम यत्र शैलजा विमानमीशवल्लभा ॥विलोक्य सा समागतं भवं भवार्तिहारिणम् ।अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥१६.२१५अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् ।पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥नमामि देववल्लभामनादिमद्रिजामिमाम् ।यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥१६.२१६विभाति या शिवासने शिवेन साकमव्यया ।हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् ।यदन्तराखिलं जगज्जगन्ति यान्ति संक्षयम् ।नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥१६.२१७न जायते नहीयते न वर्द्धते च तामुमाम् ।नमामि या गुणातिगां गिरीशपुत्रिकामिमाम् ॥क्षमस्व देवि शैलजे कृतं मया विमाहतं ।सुरासुरैर्नमस्कृतं नमामि ते पदाम्बुजम् ॥१६.२१८इत्थं भगवती दिवी भक्तिनम्रेण पार्वती ।संस्तुता दैत्यपतिना पुत्रत्वे जगृहेऽन्धकम् ॥१६.२१९ततः स मातृभिः सार्द्धं भैरवो रुद्रसंभवः ।जगामानुज्ञया शंभोः पातालं परमेश्वरः ॥१६.२२०यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका ।समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥१६.२२१ततोऽनन्ताकृतिः शंभुः शेषेणापि सुपूजितः ।कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥१६.२२२युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः ।बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥१६.२२३मातर ऊचुःबुभुक्षिता महादेव अनुज्ञा दीयतां त्वया ।त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥१६.२२४एतावदुक्त्वा वचनं मातरो विष्णुसंभवाः ।भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम् ॥१६.२२५ततः स भैरवो देवो नृसिंहवपुषं हरिम् ।दध्यौ नारायणं देवं प्रणम्यचकृताञ्जलिः ॥१६.२२६उमेश चिंतितं ज्ञात्वा क्षणात्प्रादुरभूद्धरिः।विज्ञापयामास च तं भक्षयन्तीह मातरः ॥१६.२२७निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति ।संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः ।उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥१६.२२८संप्राप्य सन्निधिं विष्णोः सर्व संहारकारिकाः ।प्रददुः शंभवे शक्तिं भैरवायातितेजसे ॥१६.२२९अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् ।क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥१६.२३०व्याजहार हृषीकेशो ये भक्ताः शूलपाणये ।ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥१६.२३१ममैव मूर्तिरतुला सर्वसंहारकारिका ।महेश्वरांशसंभूता भुक्तिमुक्तिप्रदायिनी ॥१६.२३२अनन्तो भगवान् कालो द्विधाऽवस्था ममैव तु ।तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥१६.२३३सोऽयं देवो दुराधर्षः कालो लोकप्रकालनः ।भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥१६.२३४या सा विमोहिका मूर्तिर्मम नारायणाह्वया ।सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा ॥१६.२३५स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः ।मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥१६.२३६इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः ।प्रपेदिरे महादेवं तमेव शरणं हरम् ॥१६.२३७एतद् वः कथितं सर्वं मयाऽन्धकनिबर्हणम् ।माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ १६.२३८इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षोडशोऽध्यायः॥१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP