संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| चतुर्थोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - चतुर्थोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत चतुर्थोऽध्यायः Translation - भाषांतर सूत उवाच ।श्रुत्वाऽऽश्रमविधिं कृत्स्नमृषयो। हृष्टमानसाः ।नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥४.१मुनय ऊचुः ।भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् ।इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥४.२कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति ।नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥४.३श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् ।प्राह गम्भीरया वाचा भूतानां प्रभवोव्ययः ॥४.४श्रीकूर्म उवाच ।महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः ।अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥४.५अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥४.६गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् ।अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥४.७जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् ।विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ॥४.८अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ॥४.९गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते ।प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥४.१०ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता ।अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥४.११निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् ।सर्वभूतमयोऽव्यक्ता दन्तर्यामीश्वरः परः ॥४.१२प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः ।क्षोभयामास योगेन परेण परमेश्वरः ॥४.१३यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः ।अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥४.१४स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः ।स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥४.१५प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् ।प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ॥४.१६महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः ।प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ॥४.१७वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।त्रिविधोऽयमहंकारो महतः संबभूव ह ॥४.१८अहंकारोऽबिमानश्च कर्त्ता मन्ता च स स्मृतः ।आत्मा च पुद्गलो जीवो गतः सर्वाः प्रवृत्तयः ॥४.१९पञ्चभूतान्यहंकारात् तन्मात्राणि च जज्ञिरे ।इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥४.२०मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः ।येनासौ जायते कर्त्ता भूतादींश्चानुपश्यति ॥४.२१वैकारिकादहंकारात् सर्गो वैकारिकोऽभवत् ।तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥४.२२एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।भूततन्मात्रसर्गोऽयं भूतादेरभवद्विजाः ॥४.२३भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥४.२४आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणं विदुः ॥४.२५वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह ।ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४.२६ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥४.२७आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ।संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥४.२८आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् ।द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥४.२९रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ ।त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥४.३०शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् ।तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥४.३१शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् ।तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥४.३२शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥४.३३एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् ।नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥४.३४पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥४.३५एककालसमुत्पन्नं जलबुद्बुदवच्च तत् ।विशेषेभ्योऽण्डमभवद् बृहत् तदुदकेशयम् ॥४.३६तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः ।प्राकृतेऽण्डे विवृद्धे तु क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥४.३७स वै शरीरी प्रथमः स वै पुरुष उच्यते ।आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥४.३८यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् ।हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥४.३९मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः ।गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥४.४०तस्मिन्नण्डेऽभवद् विश्वं सदेवासुरमानुषम् ।चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥४.४१अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् ।आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥४.४२तेजो दशगुणेनैव बाह्यतो वायुनावृतम् ।आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥४.४३भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ।एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥४.४४वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः ।ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥४.४५सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः ।एतैरावरणैरण्डं प्राकृतै सप्तभिर्वृतम् ॥४.४६एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः ।एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ॥४.४७प्रजापतेः परा मूर्त्तिरितीयं वैदिकी श्रुतिः ।ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ॥४.४८द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः ।हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ॥४.४९तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः ।रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ॥४.५०चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते ।सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ॥४.५१सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ।अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ॥४.५२तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ।एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः ।सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ।एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ॥४.५३योगेश्वरः शरीराणि करोति विकरोति च ।नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥४.५४हिताय चैव भक्तानां स एव ग्रसते पुनः ।त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते ।सृजते ग्रसते चैव वीक्षते च विशेषतः ॥४.५५यस्मात् सृष्ट्वाऽनुगृह्णाति ग्रसते च पुनः प्रजाः ।गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥४.५६अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः ।आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ॥४.५७पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः ।देवेषु च महादेवो महादेव इति स्मृतः ॥४.५८बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः ।वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥४.५९ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः ।अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ॥४.६०नराणामयनं यस्मात् तेन नारायणः स्मृतः ।हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥४.६१भगवान् सर्वविज्ञानादवनादोमिति स्मृतः ।सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥४.६२शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः ।तारणात् सर्वदुःखानां तारकः परिगीयते ॥४.६३बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् ।अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥४.६४इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया ।अबुद्धिपूर्विकां विप्रा ब्राह्मीं सृष्टिं निबोधत ॥४.६५इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थोऽध्यायः॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP