TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - ज्येष्ठा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


ज्येष्ठा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ द्विसप्ततितमोऽध्यायः ७२

शिव उवाच ॥

ब्राह्मणो वसति ह्मेको महाराष्ट्रपुरे शुभे । स वेदपाठनिरतो वेदपाठं सदाऽकरोत् ‌ ॥१॥

तडागं खानयामास तत्र द्रव्यं च लब्धवान् ‌ । द्रव्यस्यार्थे तदा देवि विग्रहो भ्रातरं प्रति ॥२॥

भ्राता तस्य महादेवि द्र्व्यार्थे भक्षितं विषम् ‌ । बहुकाले तदा देवि व्ययं सर्वं धनं गतम् ‌ ॥३॥

ततश्व पंचताम यातो ब्राह्मणश्च सुरेश्वरि । यमदूतैर्महाघोरे नरके देवि कर्दमे ॥४॥

षाष्टिवर्षसहस्त्राणि निक्षिप्तश्च यमाज्ञया । भुक्त्वा नरकजं दुःलं काकयोनिरभूत्पुनः ॥५॥

पुनर्मानुषयोनिश्च पुत्रकन्याविवर्जितः । पूर्वजन्मनि भो देवि भ्रात्रंशं नैव द्त्तवान ‌ ॥६॥

तेन पापेन भो देवि महारोगसमुद्भवः । अस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे वरे ॥७॥

गृहवित्ताष्टमं भागं पुण्यकार्ये च योजयेत ‌ । वापीकूपतडागादिजीर्णोद्धारं प्रयत्नतः ॥८॥

प्रतिमां कारयेद्देवि स्वर्णपंचदशस्य तु । भ्रातुश्चित्रं तदा देवि पूजयित्वा यथाविधि ॥९॥

गन्धधूपादिभिर्देवि भूषणैर्विविधैरपि । गायत्रीलक्षजाप्येन दशांशहवनेन च ॥१०॥

प्रयागे मकरे स्त्रानात्सर्वपापक्षय्यो भवेत् ‌ । ब्राह्मणाय ततो दद्याद्‌गां च दद्यात्पयस्विनीम् ‌ ॥११॥

भूमिं वृत्तिकरीं दद्यात्पुत्रपौत्रानुयायिनीम् ‌ । अश्वदानं ततो दद्याद्‌ब्राह्मणान् ‌ भोजयेत्ततः ॥१२॥

एवं कृते वरारोहे पुत्रो भवति नान्यथा ।

व्याधिस्तस्य निवर्तेत काकवन्ध्या लभेत्सुतम ‌ । मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम ‌ ॥१३॥

इति कर्मविपाकसंहितायां द्विसप्ततितमोऽध्यायः ॥७२॥

अथ त्रिसप्ततितमोऽध्यायः ७३

शिव उवाच ॥

पट्टने वै पुरे शुभ्रे लोहकारोऽवसत्पुरा । गोवर्धनेति नाम्रा च तत्पत्नी परमेश्वरी ॥१॥

धनधान्यसमायुक्तो धर्मकर्मरतस्तथा । तस्य पुत्रद्वयं जातं लोहकारस्य पार्वति ॥२॥

ज्येष्ठपुत्रस्य भो देवि भार्यया सह तेन वै । निःसारितो गृहाद्देवि तस्मै किश्चिन्न दीयते ॥३॥

एको गृहे ततः पुत्रो द्रव्यं तस्य प्रयच्छति । लोहकारेण भो देविं स्वभार्या पुत्रसंयुता ॥४॥

त्यक्ता चैव महादेवि गोपालस्य तु कन्यका । भार्या कृता पुनस्तेन पत्न्यास्त्यागश्च वै कृतः ॥५॥

ततो बहुगते काले लोहकारस्य वै शिवे । व्याघ्रेण मरणं प्राप्तो यमदूतैर्यमाज्ञया ॥६॥

निक्षिप्तो नरके घोरे कृमिविष्ठादिसंकुले । त्रिंशद्वर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥७॥

नरकान्निर्गतो देवि मानुषत्वं ततोऽलभत् ‌ । पुनः सर्पस्य योनिं च ततो नकुल एव च ॥८॥

मानुष्यत्वं ततो देवि धनधान्यसमाकुलम् ‌‍ ।शूरश्चकृतविद्यश्च ज्ञानवान् ‌ राजवल्लभः ॥९॥

पुरैव यत्कृतं सर्वं तत्प्राप्रोति न संशयः । पुरैव कार्त्तिके मासि पौर्णमास्यां सदाशिवे ॥१०॥

दशवर्णाकृतं दानं विधिवन्मम् ‌ वल्लभे । तेन दानफलेनेह धनाढयत्वं प्रजायते ॥११॥

स्वभार्यां च परित्यज्य परकीयारतः स वै । अतः पुत्रस्य वै मृत्युःपुनः पुत्रो न जायते ॥१२॥

कन्यकाजनयित्री च तस्य भार्या भर्वत्खलुआ भार्यापुत्रौ परित्यज्य परकीयारतो यतः ॥१३॥

तत्पापेन महादेवि रोगग्रस्तकलेवरः । व्याधयश्च समुत्पन्ना दद्रुपामादयस्तथा ॥१४॥

ख्यातवंशे समुत्पन्नो भूमिभागो न लभ्यते । अथ शान्तिं प्रवक्ष्यामि पूर्वपापविशुद्धये ॥१५॥

एकादशीव्रतं नित्यं षडंशं दानमाचरेत् ‌ । षडङ्रं पाठयेन्नित्यं रुद्रपूजनपूर्वकम ‌ ॥१६॥

हरिवंशश्रवणं देवि चण्डीपाठो निरन्तरम् ‌ । तिलधेनुप्रदानं वै अमाश्राद्धं विशेषतः ॥१७॥

एवं कृते तदा देवि पुत्रस्तस्य भविष्यति । वन्ध्यात्वं प्रशमं याति सर्वरोगक्षयो भवेत् ‌ ॥१८॥

इति कर्मविपाकसंहितायां त्रिसप्ततितमोऽध्यायः ॥७३॥

अथ चतुःसप्ततितमोऽध्यायः ७४

श्री शिव उवाच ॥

बीजापुर इति ख्याते पुरे देवि मनोहरे । वर्णा वसन्ति चत्वारो यतयश्च तपस्विनः ॥१॥

तन्मध्ये शूद्र एको हि ताम्बूलं च करोति सः । सुरापी च स वै नित्यं शिवे ताम्बूलविक्रयी ॥२॥

तस्य पुत्रद्वयं जातं धनं च बहु संचितम् ‌ । ततस्तु दैवयोगेन महाधनमदेन च ॥३॥

ज्येष्ठपुत्रास्य हननं कृतं तेन वरानने । स्वभार्यार्थे तदानीं तु पत्नी तस्य तु तेन हि ॥४॥

पुत्रेण चाभवद्वैरं पत्न्या सह विशेषतः । प्रत्यहं भुज्यते तेन पुत्रपत्नी तथाऽधमः ॥५॥

एवं बहुदिने याते तस्य मुत्युरभूच्छिवे । ततो वै नरके घोरे यमदूतैर्यमाज्ञया ॥६॥

निक्षिप्तो वै ततो देवि षष्टिवर्षसहस्त्रकम् ‌ । कृमिभिर्घोरवक्त्रैश्च भुक्त्वा नरकयातनाम ‌ ॥७॥

नरकान्निर्गतो देवि श्वानयोनिं ततोऽलभत् ‌ । ततो वृषभयोनिं च मानुषत्वं ततो गतः ॥८॥

पूर्वजन्मनि भो देवि दशवर्णां ददौ बहु । तत्फलेनेह भो देवि धनधान्ययुतस्तदा ॥९॥

पुत्रस्य पत्नीं भुक्त्वा तु पुत्रस्यैव वधः कृतः । तत्पापफलतो देवि ह्यपुत्रश्च ज्वरी तथा ॥१०॥

व्याधिश्च बहुधा तस्य चाङ्रे च महती व्यथा । तदा चिन्तासमायुक्तो रात्रौ निद्रां न लब्धवान् ‌ ॥११॥

स्ववित्तस्य त्रयं भागं प्रगृह्य हरवल्लभे । कूपं च खानयेद्देवि तडागं जीर्णमुद्धरेत् ‌ ॥१२॥

पौर्णमासीव्रतं देवि सकलत्रस्तदचरेत् ‌ । शिवस्य पूजनं लक्षं ब्राह्मणेम्यश्च कारयेत् ‌ ॥१३॥

कृष्णां च गां च वृषभं ब्राह्मणाय प्रदापयेत् ‌ । गायत्रीमूलमंत्रेण तथा तक्षप्रमाणतः ॥१४॥

जपं वै कारयेद्देवि हवनं तद्दशांशतः । मार्जनं तर्पणं देवि दशांशं चैव कारयेत् ‌ ॥१५॥

पुत्रस्य प्रतिमां तद्वत्स्वर्ण वस्त्रसमन्विताम् ‌ । पलपश्चदशस्यैव निर्मितां रत्नभूषिताम ‌ ॥१६॥

पूजां कृत्वां विधानेन ब्राह्मणाय प्रदापयेत् ‌ । एवं कृते न संदेहः शीघ्रं पुत्रमवाप्रुयात् ‌ ॥१७॥

व्याधिश्च प्रशमं याति काकवन्ध्या लभेत्सुतम ‌ । मृतवत्सा लभेत् ‌ पुत्रं चिरंजीविनमुत्तमम ‌ ॥१८॥

इति कर्मविपाकसंहितायां चतुःसप्ततितमोऽध्यायः ॥७४॥

अथ पश्चसप्ततितमोऽध्यायः ७५

श्रीशिव उवाच ॥

चतुर्भुजपुरं नाम वेणीपाश्चिमतः शिवे । पट्टकारोऽवसद्देवि लक्ष्मणेति च संज्ञया ॥१॥

तस्य पत्नी विशालाक्षी परपुंसि रता सदा । पुत्राश्च बहवो जाता धनंच बहु संचितम् ‌ ॥२॥

क्रयविक्रयधर्मेण व्ययंकृत्वा दिने दिने । तस्य गेहेऽकरोद्वासं चटका नाम पक्षिणी ॥३॥

एकस्मिन्समये देवि चाण्डान ‌ द्त्वापि पक्षिणी । बहून्वै पोषितांश्चाण्डान् ‌ सपक्षान्कृतवत्यपि ॥४॥

फलं गृह्य सदा पक्षी मध्याह्रे बालकान्प्रति । भोजनं प्रददौ नित्यं स्वकुलाये तदा शिवे ॥५॥

ततस्तु दैवयोगेन पट्टकारस्तु तद्‌गृहे । भोजनार्थं गतो देवि पत्नी चान्नं तदा ददौ ॥६॥

भुक्तं च विविधं चान्नं तत्क्षणे पक्षिबालकाः । विष्ठां चक्रुस्तथा दृष्टा पट्टकारो रूषा खलु ॥७॥

कुलंतस्य कृतंनष्टं बालानां हननंतथा । एवं बहुगते काले पट्टकारस्य सुव्रते ॥८॥

गङ्रायाम मरणं जातं भार्यया सहितस्य वै । स्वर्गवासोऽभवद्देवि पट्टकारस्य सुव्रते ॥९॥

सप्ततिर्वै सहस्त्राणि स्वर्गे भुक्त्वा फलं बहु । पुनः पुण्यक्षये जाते स्वर्गभ्रष्टो यदाऽभवत् ‌ ॥१०॥

मनुष्यश्चाभवद्देवि गंगागण्डकि मध्यतः । धनधान्यसमायुक्तो विवाहमकरोद्यदा ॥११॥

पूर्वजन्मस्थिता भार्या सा तस्य गृहमेधिनी । प्रेष्ययुक्ताऽभवत्सा तु गर्भस्य पतनं मुहुः ॥१२॥

कन्यका नापि जायन्ते पुत्रस्यैव तु का कथा । ज्वरयुक्ता सदा नारी स्वशरीरे भवेत्खलु ॥१३॥

सुखं न लभते क्वापि दुःखं याति दिने दिने । अस्य शान्तिं प्रवक्ष्यामि श्रृणु सर्वं वरानने ॥१४॥

चंद्रस्याथ च सूर्यस्य गायत्रीजपमाचरेत् ‌ । लक्षमेकं वरारोहे पूर्वपापविशुद्धये ॥१५॥

गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ । कपिलां गां सवत्साम च ब्राह्मणाय प्रदापयेत् ‌ ॥१६॥

दशवर्णां ततो दद्याद् ‌ ब्राह्मणान् ‌ भोजयेत्ततः ॥१७॥

चटकस्याकृतिं कृत्वा सार्भकस्य वरानने । रौप्यस्य स्वर्णताम्रस्य पश्चविंशपलस्य तु ॥१८॥

ब्राह्मणाय ततो दद्याद् ‌ भूमिदानं विशेषतः । हरिवंशश्रवणं कुर्याद्भार्यया सहितस्तु वै ॥१९॥

जातवेदसमंत्रेण दशायुतजपं तथा । गोपालमंत्रजाप्येन पुत्रलाभो भवेदनु ॥२०॥

हवनं तर्पणं कुर्यान्मार्जन्म तु ततः परम् ‌ । रोगनाशो भवेद्देवि काकवन्ध्या लभेत्सुतम् ‌ ॥२१॥

इति कर्मविपाकसंहितायां पश्चसप्ततितमोऽध्यायः ॥७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:46:25.5770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

apprenticeship

  • स्त्री. शिकाऊ उमेदवारी 
  • शिकाऊ उमेदवारी 
  • शिक्षुता 
  • स्त्री. शिकाऊ उमेदवारी 
More meanings
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.