TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - आर्द्रा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


आर्द्रा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ चतुर्विंशोऽध्यायः २४

ईश्वर उवाच ॥

अथातः सम्प्रवक्ष्यामि रौद्रर्क्षस्य च यत्फलम् ‌ । येन कर्मविपाकेन मर्त्यलोके च भुज्यते ॥१॥

अवन्तीपुर्यथो देवि रङ्रकारश्च तिष्ठति । रश्चयेद्विविधान ‌ वस्त्रान् ‌ स्वधर्मं पालयेत्सदा ॥२॥

कुबेर इति तन्नाम लीलानाम्री च तस्य सा । पतिव्रता प्रिया देवि रङ्रकारश्च तां त्यजेत् ‌ ॥३॥

ब्राह्मणी नगरस्थैका तया प्रीतिं समुद्वहन ‌ । त्यक्त्वा पतिव्रतां भार्यां ब्राह्मणीं प्रीतितोऽभजत् ‌ ॥४॥

द्रव्यं च सश्चितं तेन रङ्रकारेण वै शिवे । भूमिमध्ये च तद्‌द्रव्यं कृतं तेनैव सुन्दरि ॥५॥

किश्चिद्दानं कृतं तेन गङ्रायमुनसङ्रमे । मरणं तस्य वै जातं तस्य याता विवाहिता ॥६॥

तत्पुरे वर्तते बाला लीलानाम पतिव्रता । सत्यलोकं गतः सोऽपि लक्षद्वयमितं प्रिये ॥७॥

पुनः पुण्यक्षये जाते नरो भवति वै शिवे । मध्यलोके च विख्यातो धनधान्यसमन्वितः ॥८॥

पुत्राश्च बहवो जाताः कोऽपि तेषां न जीवति । शरीरे त्वामयोत्पत्तिः खञ्जत्वं चरणे तथा ॥९॥

ब्राह्मणीगमनं देवि पूर्वजन्मनि वै कृतम् ‌ । तेन पापेन भो देवि वंशो ह्यस्य न जीवति ॥१०॥

अस्य शान्तिं प्रवक्ष्यामि तच्छृणुष्व वरानने । दशायुतं जपेद्देवि गायत्रीं वेदमातरम् ‌ ॥११॥

हवनं तद्दशांशेन तर्पणं मार्जनं तथा । षडंशं चैव दानं वै दद्याद्वेदविदे शिवे ॥१२॥

ब्राह्मणान् ‌ भोजयेत्पश्चवतिं पायसेन च । गां चैव विधिवद्दद्यात्ताम्रवर्णां सुभूषिताम् ‌ ॥१३॥

एवं कृतेन न संदेहो बहुंपुत्रश्च जायते । रोगस्यैव विमुक्तिः स्यान्नात्र कार्या विचारणा ॥१४॥

इति कर्मविपाकसंहितायां चतुर्विंशोऽध्यायः ॥२४॥

अथ पश्चविंशोऽध्यायः २५

श्रीशिव उवाच ॥

श्रृणु देवि वरारोहे नृणां वै पूर्वजन्मनि । यत्कृतेन महाघोरे नरके परिपच्यते ॥१॥

उज्जयिन्यपरद्वारे वैश्यो वसति भाग्यवान् ‌ । धनधान्यसमायुक्तः स्वधर्मनिरतः सदा ॥२॥

एवमर्धवयो जातं दरिद्रत्वं ततोऽभवत् ‌ । व्यापारार्थं ततो देवि विप्रस्वर्णं गृहीतवान् ‌ ॥३॥

पलविंशप्रमाणेन व्ययं यातं वरानने । ततो वैश्यस्य मृत्युर्वै भार्यया सहितस्य वै ॥४॥

स्वर्गं यातस्ततो देवि नर्मदामरणादपि । षष्टिवर्षसहस्त्राणि स्वर्गस्यैव शुभं फलम् ‌ ॥५॥

भुंक्त बहुविधं देवि भार्यवा सहितेन वै । ततः पुण्यक्षये जाते पुनर्मर्त्यौ बभूवतुः ॥६॥

धनधान्यसमायुक्तौ पुत्रकन्याविवर्जितौ । रुग्णौ दुर्बलगात्रौ च पूर्वकर्मफलेन तौ ॥७॥

ऋणसम्बन्धतो देवि विप्रः पुत्रोऽभवत्तदा । ऋणं यावत्प्रमाणं नै गृहीतं पूर्वजन्मनि ॥८॥

तावन्मात्रं गृहीत्वा तु ततो वै मरणं भवेत् ‌ । पुनः पुत्रो न तस्यैव विंशद्वर्षे गते सति ॥९॥

तस्य दानं श्रृणुष्वादौ पूर्वपापक्षयो यतः । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥१०॥

स्वर्णपश्चपलेनैव पुष्पं च कमलाकृति । प्रदद्याद्वेदविदुषे पूर्वपापक्षयो भवेत् ‌ ॥११॥

पुनः पुत्रः प्रसूयेत् ‌ नात्र कार्या विचारणा ॥१२॥

इति कर्मविपाकसंहितायां पश्चविंशोऽध्यायः ॥२५॥

अथ षडिंशोऽध्यायः २६

श्री शिव उवाच ॥

अवन्ती नगरी नाम्रा ततः क्रोशद्वयोपरि । अग्निकोणे महादेवि मङ्रलं नाम वै पुरम् ‌ ॥ तस्मिन्ग्रामे वसत्येको ब्राह्मणो द्यूततत्परः ॥१॥

मद्यपानरतो नित्यं चौरविद्यासु तत्परः । परस्त्रीलंपटो देवि वेश्यायां निरतः सदा ॥२॥

प्रत्यहं कुरुते देवि द्विजरूपो नराधमः । चौरत्वाद्‌द्रव्यमुत्पाद्य नैव दानं समाचरत् ‌ ॥३॥

एवं बहुधनं जातं तस्य मृत्युर्बभूव ह । नरके पातयामास यमदूतो यमाज्ञया ॥४॥

सप्ततिर्वै सहस्त्राणि रौरवे परिपच्यते । महाकष्टं लभेद्देवि सूचीमुखघुणादिभिः ॥५॥

पुनः कर्मवशाद्देवि नरकान्निर्गतो यदा । बिडालकाकयोनिं च तदा प्राप्तो द्वयं हि च ॥६॥

योनिद्वयफलं भुक्तं मानुषत्वं ततोऽलभत् ‌ । मध्यदेशे वरारोहे ततः पीडा महत्यति ॥७॥

वंशच्छेदो भवेद्देवि पूर्वकर्मविपाकतः । तस्योपरि विशालाक्षि शान्तिं श्रृणु वरानने ॥८॥

गायत्रीजातवेदोम्यां त्र्यम्बकेण यथाविधि । जपं वै कारयेद्देवि हवनं तर्पणं तथा ॥९॥

लक्षत्रयं जपेद्देवि पूर्वपाप विशुद्धये ॥१०॥

ततो वै पूजयेद्देवि तुलसीं विष्णुरूपिणीम ‌ । पूजयेद्विविधैश्चान्नैर्धूपैनैविद्यदीपकैः ॥११॥

भूमिदानं ततो देवि यथाशक्ति प्रदापयेत् ‌ ॥१२॥

एवं कृते महादेवि सर्वरोगक्षयो भवेत् ‌ । पुत्रश्च जायते देवि वन्ध्यात्वं च प्रणश्यति ॥१३॥

इति कर्मविपाकसंहितायां षडिंशोऽध्यायः ॥२६॥

अथ सप्तविंशोऽध्यायः २७

शिव उवाच ॥

अथातः संप्रवक्ष्यामि शृणु देवि यथा पुरा । नरेण यत्कृतं पूर्वं पूर्वजन्मनि किल्बिषम् ‌ ॥१॥

अवन्तीपुरतोऽवात्सीच्छूद्र एको महाधनः । कृषिकर्मरतश्वैव क्रयविक्रयतत्परः ॥२॥

व्यापारे सर्ववस्तूनि च्छागमेषपशूनि च । सततं भोक्ष्यते देवि च्छागमांसं विशेषतः ॥३॥

विक्रयः क्रियते च्छागमेषयोर्गृवासिनोः । गजमश्वं तथा रत्नं वस्त्राणि विविधानि च ॥४॥

एकदा सूर्यग्रहणं दृष्टं तेन वरानने । गोसहस्त्रं कृतं दानं भार्यया सहितेन वै ॥५॥

नर्मदायां विशालाक्षि स्वर्णवस्त्रयुतं तथा । सुखं च बह्धा भुक्त्वा मृत्युलोकसमुद्भवम् ‌ ॥६॥

स्वर्णकारस्य वै द्रव्यं व्यवहारनिमित्तकम् ‌ । गृहीतं चैव नो दत्तं ततः शृणु वरानने ॥७॥

ततो बहुगते काले शूद्रस्य मरण्म ह्यभूत् ‌ । ततोऽसौ नरके घोरे वर्षलक्षद्वयं तथा ॥८॥

तत्रैव बहुधा पीडा भुक्त्वा चैव स्वकर्मतः । पुनर्जातो मृत्युलोके काकश्च महिषो बकः ॥९॥

मनुषत्वं ततो देवि कुले महति वै शुभे । स्वर्णकारस्य द्रव्यं वै गृहीतं पूर्वजन्मनि ॥१०॥

न द्त्तं वै ऋणं देवि पुत्रस्य मरणं ततः । युवरूपो यदा जातो व्याधिग्रस्ततनुस्तदा ॥११॥

देहार्धे वातरोगस्य प्रत्रस्य मरणं ततः । भार्याद्वयसमायुक्त एका प्रीतिमती भवेत् ‌ ॥१२॥

पूर्वजन्मनि यत्कर्म शुभं वाप्यशुभं तनोः । मृत्युलोके मनुष्येण भुज्यते नात्र संशयः ॥१३॥

अथ ते सम्प्रवक्ष्यामि पापनिग्रहहेतवे । गायत्रीलक्षजाप्येन हरिवंशश्रवेण च ॥१४॥

रथाश्ववस्त्रदानेन ग्रामदानेन वै तथा । तिलधेनुप्रदानेन सर्वपापक्षयो भवेत् ‌ ॥१५॥

स्वर्णमुद्रासहस्त्रस्य प्रतिमां कारयेद्वुधः । पूर्वोक्तेन विधानेन पूजयित्वा प्रदापयेत् ‌ ॥१६॥

पार्थिवं पूजयामास तथा गोमयनिर्मितम् ‌ । लक्षत्रयप्रमाणं च पश्चगव्येन पूजयेत् ‌ ॥१७॥

पश्चामृतेन वा देवि गोदुग्धेनैव पूजयेत् ‌ । तथा च विविधैर्मन्त्रैः षडङ्रैर्वेदसंभवैः ॥१८॥

अर्द्धाङ्रं मुच्यते रोगो नात्र कार्या विचारणा । वन्ध्यात्वं प्रशमं याति तभेत्पुत्रं न संशयः ॥१९॥

मृतवत्सा लभेत्पुत्रं चिरजीविनमुत्तमम् ‌‍ ॥२०॥

इति कर्मविपाकसंहितायां सप्तविंशोऽध्यायः ॥२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:28:30.3470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

functional tolerance

  • कार्यात्मक सह्यता 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.