TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - मघा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


मघा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ चत्वारिंशोऽध्यायः ४०

शिव उवाच ॥

पुरा देवि शुभं ख्यातं पुरं मङ्रलनामकम् ‌ । तत्र वैश्यो वसत्येको धनधान्यसामन्वितः ॥१॥

तस्य नाम समाख्यातं मङ्रलं देवि वै शुभम् ‌ । तस्य पत्नी विशालाक्षी सुन्दरी सुखदायिनी ॥२॥

विष्णुभक्तिरतो नित्यं गुरुब्राह्मणसेवकः । आचारे निरतः शान्तः क्रयविक्रयतत्परः ॥३॥

एकदा तु गृहे विप्रो मित्रं तस्य समागतम् ‌ । आदरं बहुधा कृत्वा भोजयामास शास्त्रतः ॥४॥

स्वर्णदानं ततो लक्षमुद्रादानं ततः प्रिये । दत्तं वैश्येन भो देवि ब्राह्मणाय स्वशान्तये ॥५॥

ब्राह्मणेन हि तत्सर्वं स्थापितं तस्य वै गृहे । ततोऽपि तीर्थयात्रायां वाराणस्यां वरानने ॥६॥

तस्य मृत्युरभूद्देवि काश्यां चैव स्वकर्मतः । बहुकाले गते देवि वैश्यो दारिद्रयपीडितः ॥७॥

पुत्रदारैश्च संयुक्तस्तस्य द्रव्यं तदा प्रिये । भुक्तं सर्वं ततो देवि स्वदत्तं चैव पुण्यदम् ‌ ॥८॥

वृद्धत्वे च पुनर्जाते तस्य मृत्युरभूक्तिल । अयोध्यायां महातीर्थे स्वर्गवासस्ततोऽभवत् ‌ ॥९॥

बहुवर्षसहस्त्राणि विष्णुलोके वरानने । भुक्त्वा बहुविधं पुण्यं क्षये सति तदाऽनघे ॥१०॥

मृत्युलोकेऽभवज्जन्म धनधान्य समन्वितः । विष्णुपूजारतो नित्यं ब्राह्मणेषु च भक्तिमान् ‌ ॥११॥

मित्रद्रव्यं स्वयं दत्तं भुक्तं तेन ततः प्रिये । पुत्रोत्पत्तिः प्रथमतस्तस्या वै मरणं भवेतू ॥१२॥

पुनः पुत्रो न जायेत काकवन्ध्या ततः प्रिया । शरीरे कफवातादिरोगाश्च विविधास्तथा ॥१३॥

प्रौढत्वं च तदा तस्य जायते नात्र संशयः । तत्पापशमनार्थं च पुण्यं श्रृणु वरानने ॥१४॥

षडंशं च ततो दानं ब्राह्मणाय वरानने । गायत्रीमंत्रजाप्यं च लक्षमेकं प्रयत्नतः । हवनं विधिवत्कुर्यात्तर्पणं मार्जनं तथा ॥१५॥

गामेकां कपिलां दद्यात्स्वर्णश्रृङ्रीं सहाम्बराम् ‌ । दद्यात्प्रयत्नतो देवि ब्राह्मणाय महात्मने ॥१६॥

तिलधेनुं ततो दद्यात्पात्रं वस्त्रं तथा प्रिये । श्रवणं हरिवंशस्य दम्पतिम्यां च भक्तितः ॥१७॥

एवं कृते ततो देवि पुनः पुत्र प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१८॥

इति कर्मविपाकसंहितायां चत्वारिंशोऽध्यायः ॥४०॥

अथैकचत्वारिंशोऽध्यायः ४१

श्रीशिव उवाच ।

अयोध्यानगराद्देवि योजनोपरि वल्लभे । दक्षिणे नन्दिनीग्रामे वसन्ति बहवो जनाः ॥१॥

द्विजस्तत्र वसत्येको मद्यवेश्यारतः सदा । परस्त्रीलम्पटो नित्यं मद्यमांसजरतस्तथा ॥२॥

नामतो मित्रशर्मेति तस्य पत्नी तु कर्कशा । प्रत्यहं द्यूतकार्येण व्ययं कुर्याद्दिनेदिने ॥३॥

एवं बहुतिथे काले तस्य मृत्युरभूत्पुरा । पश्चान्मृता तु तत्पत्नी कर्कशा दुःखदायिनी ॥४॥

यमस्य किङ्करैरेव निक्षिप्तो नरकार्णवे । सप्ततिर्वै सहस्त्राणि वर्षाणि सुरवल्लभे ॥५॥

भुक्तं शोकार्णवं घोरं दम्पतिम्यां तदा शिवे । ततः पापक्षये देवि श्वानयोनिरभूत्पुरा ॥६॥

श्वानयोनिं ततो भुक्त्वा सूकरो निर्जने वने । मानुषस्य पुनर्योनिं मध्यदेशे ततोऽलभत् ‌ । नन्दिग्रामफलाद्देवि धनधान्यसमन्वितः ॥७॥

परस्त्रीलम्पटाद्देवि पादपीडा प्रजायते । मद्यपानफलाद्देवि गर्भपातः पुनः पुनः ॥८॥

बह्वयः कन्याः प्रजाताश्च स्त्रीसौख्यं नैव विन्दति । पुत्रस्य मरणं देवि जातं वेश्यासु संगमात् ‌ ॥९॥

पूर्वजन्मकृतं पापं पुण्यं च गिरिजे वरे । मानुषेणैव भुज्येते मृत्युलोके सुरेश्वरि ॥१०॥

अस्य शान्तिं प्रवक्ष्यामि यथोक्तां श्रृणु भामिनि । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥११॥

वापीकूपतडागेषु जीर्णोद्धारः प्रयत्नतः ॥१२॥

माघकार्त्तिकवैशाखश्रावाणेषु विशेषतः । प्रत्यब्दं भोजयेद्विप्राञ्छोत्रिपान्वेदपारगान् ‌ ॥१३

गायत्रीजातवेदोम्यां द्विलक्षं जपमाचरेत् ‌ । जपतो हवनं तद्वत्तर्पणं मार्जनं तथा ॥१४॥

महाभारतमाख्यानं श्रुत्वा पापं व्योपहति । द्शवर्णा प्रदातव्या पूर्वपाप विशुद्धये ॥१५॥

एवं कृते वरारोहे सर्वरोगः प्रणश्यति । पुत्रो भवति भो देवि वन्ध्यात्वं च प्रणश्यति ॥१६॥

काकवन्ध्या च या नारी पुनः पुत्रमवाप्रुयात् ‌ । कन्यका नैव जायन्ते धनवृद्धिर्भवेत्किल ॥१७॥

पूर्वजन्मकृतं पापं क्षयं याति न चान्यथा । इह लोके सुखी भूयात्पुनः पापं न बाधते ॥१८॥

इति कर्मविपाकसंहितायां एकचत्वारिंशोऽध्यायः ॥४१॥

अथ द्विचत्वारिंशोऽध्यायः ४२

श्रीशिव उवाच ॥

अयोध्यायां विशालाक्षि कुलालो वसति प्रिये । मन्थराग्राममध्ये वै स्वकर्मनिरतः सदा ॥१॥

पात्रं वै मृन्मयं देवि प्रकरोति सदा प्रिये । तस्य मित्रं समायातो ब्राह्मणो वेदपारगः ॥२॥

तस्य स्त्री च महादुष्टा ब्राह्मणी व्यभिचारिणी । कुलालतोऽभवत्प्रीतिर्मैथुनं प्रकरोति सा ॥३॥

ब्राह्मण्यां गमनं नित्य बहुवर्षं निरन्तरम् ‌ । एवं बहुगते काले समतीते सुरेश्वरि ॥४॥

कुलाललस्य ततो मृत्युः प्रौढे जाते सुरेश्वरि । पश्चात्तस्य मृता पत्नी या पुरा व्यभिचारिणी ॥५॥

यमदूतैर्महाघोरे कर्दमे नरके प्रिये । यमाज्ञया च निक्षिप्तौ शुभे वर्ष्शतत्रययम् ‌ ॥६॥

अनुगामिनी समायाता शतवर्षत्रये सति । नरकाब्धेः समुद्धृत्य स्वपत्नी च ततः प्रिये ॥७॥

मृत्युलोके ततो जातौ धनधान्ययुतो तदा ॥८॥

पुत्रकन्याविहीनश्च मृतवत्सत्वमाप्तवान् ‌ । ब्राह्मणीगमनोद्देवि बहुरोगश्च जायते ॥९॥

अतः शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे शुभे । सर्वस्वदानं कर्त्ताव्यं रुद्रमन्त्रजपस्तथा ॥१०॥

पूजिताः पार्थिवाश्चैव वाटिकारोपणं तथा । श्रवणं हरिवंशस्य भूमिदानं तथैव च ॥११॥

गायत्रीमूलमन्त्रेण लक्षजाप्यं तथा प्रिये । होमं च कारयेद्देवि तिलधान्यादितण्डुलैः ॥१२॥

कुण्डे वै कारयेदाशु चतुष्कोणे सुरेश्वरि । दशांशहवनं देवि विधिवत्कारयेद्‌बुधः ॥१३॥

दशवर्णां ततो दद्यात्स्वर्णनिष्कचतुष्टयम ‌ । ब्राह्मणान्भोजयेत्षष्टिं पायसान्नैः सशर्करैः ॥१४॥

भुम्यां दानं ततो दद्यात्तिलान्दद्यात्प्रयत्नतः । एवं कृते न संदेहो वंशो भवति नान्यथा ॥१५॥

सर्वे रोगाः क्षयं यान्ति न च कन्या प्रसूयते । ककवन्ध्या लभेत्पुत्रं मृतवत्सा च पुत्रिणी ॥१६॥

इति कर्मविपाकसंहितायां द्विचत्वारिंशोऽध्यायः ॥४२॥

अथ त्रिचत्वारिंशोऽध्यायः ॥४३॥

शिव उवाच ।

काश्चीपुर्यां महादेवि वैश्य एकोऽवसत्पुरा । मकरन्दा इति ख्यातस्तस्य स्त्री पालिका शुभा ॥१॥

अश्वादिविक्रयो देवि गजपक्ष्यादिकस्तथा । प्रत्यहं क्रियते देवि बहु द्र्व्यं च संचितम् ‌ ॥२॥

न देवं मन्यते देवि पितृंश्चैव न मन्यते । गते बहुदिने देवि पित्रोश्च मरणं ह्यभुत् ‌ ॥३॥

तयोः श्राद्धं न च कृतं कृपणत्वात्ततः प्रिये । ततो बहुदिनं जातं वृद्धे सति वरानने ॥४॥

मरणं तस्य वै जातं वैश्यस्य कृपणस्य च । यमाज्ञया तु दूतेन कुम्भीपाके सुदारुणे ॥५॥

निक्षिप्तः श्रृंखलैर्बद्धवा युगपश्वदशं तथा । भुक्त्वा नरकजं दुःखं महाकृमिसमाकुलम् ‌ ॥६॥

नरकान्निःसृतो देवि महिषत्वं ततोऽलभत् ‌ । पुनर्वै व्याघ्रयोनिश्च मूषयोनिस्ततोऽभवत् ‌ ॥७॥

काकयोनिं ततो भुक्त्वा गजयोनिस्ततोऽभवत् ‌ । शुभे देशे विशालाक्षि धनधान्यसमन्वितः ॥८॥

व्याधिग्रस्तोऽभवद्देवि पुत्रकन्याविवर्जितः । काकवन्ध्याऽभवन्नारी मृतवत्सा च पुत्रिणी ॥९॥

पूर्वजन्मकृतं पापं यतः शान्तिमवाप्नुयात् ‌ । तत्सर्वं श्रृणु मे देवि विस्तरेण समन्वितम् ‌ ॥१०॥

प्रयागे नियतः स्त्रानं प्रतिमाघं यदा चरेत् ‌ । गायत्रीजातवेदोम्यां दशायुतजपं तथा ॥११॥

भूमिदानं च वै कृत्वा ततः पुत्रः प्रजयतो । वन्ध्यात्वं शममायाति काकवन्ध्या तु शाम्याति ॥१२॥

मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम ‌ । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां त्रिचत्वारिंशोऽध्यायः ॥४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:35:16.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

radiopacity

  • स्त्री. (the quality or state of being radiopaque) प्रारणापार्यता 
  • स्त्री. क्ष-किरण अपारदर्शता 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site