TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - भरणी नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


भरणी नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ अष्टमोऽध्याय

भरणीनक्षत्रफलम् ‌

शिव उवच॥

भरण्याः प्रथमे पादे नीलकण्ठोऽभवदि‌द्वजः । ब्रह्मकर्मपरिभ्रष्टः काकुत्स्थनगरे शुभे ॥१॥

वैश्येन सह मित्रत्वं क्रय्यं कृत्वा दिने दिने । ब्राह्मणी तत्र वृद्धाऽऽसीत्पतिपुत्रविवर्जिता ॥२॥

तस्या द्रव्यं गृहीतं च विक्रयार्थं द्विजेन तु । ततो बहुदिनं यातं तस्या द्रव्यं न दत्तवान् ‌ ॥३॥

एवं बहुतिथे काले तस्य मृत्युरजायत । ब्रह्मकर्मपरिभ्रंशानारके पतनं प्रिये ॥४॥

नरक्न्निःसृतो देवि सर्पयोनिरजायत । सर्पयोनिफलं भुक्त्वा गर्दभत्वमुपागतः ॥५॥

पुनः सम्प्राप्तवान ‌ देवि मध्यदेशे च मानुषम् ‌ । धनधान्यसमायुक्तः पुत्रकन्याविवर्जितः ॥६॥

ततो बहुतिथे काले तदा कन्याऽभवत्प्रिये । स्वर्णं पूर्वं ह्लतं देवि स्वर्णसम्बन्धजा सुता ॥७॥

ततः सा वर्धिता कन्या विवाहश्चाभवत् ‌ खुलु । पितृमातृप्रिया नित्यं युवती तु यदाऽभवत् ‌ ॥८॥

तदा सा विधवा जाता मातापित्रोश्च दुःखदा । पुनः पुत्रवि - हीनत्वं प्रायश्चित्तमतः श्रृणु ॥९॥

सूर्यमन्त्रस्य जाप्येन लक्षमेकं वरानने । पार्थिवस्यार्चनं सम्यक् ‌ त्र्यम्बकेति ततो जपेत् ‌ ॥१०॥

होचं च कारयेद्धीमान् ‌ शतब्राह्मणभोजनम् ‌ । पायसं शर्करायुक्तं कारयेद्विधिपूर्वकम् ‌ ॥११॥

ततः कूपतडागौ च वापिकां च महापथे । एवं कृते न संदेहो वंशलाभो वरानने ॥१२॥

यदा न क्रियते देवि तदा वंशो न जायते ॥१३॥

इति कर्मविपाकसंहितायां अष्टमोऽध्यायः ॥८॥

अथ नवमोऽध्यायः ९

ईश्वर उवाच ॥

अथ द्वितीये वक्ष्यामि भरण्याश्चरणे प्रिये । तस्य सर्वं प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥१॥

अयोध्यापुरतो देवि क्रोशमात्रे प्रदक्षिणे । जानकीनगरे रम्ये द्विजश्चासीत् ‌ स तस्करः ॥२॥

ब्रह्मकर्मपरिभ्रष्टो मद्यपानरतः सदा । स वेश्यानिरतो नित्यं पत्नी तस्य पतिव्रता ॥३॥

पतिभक्तिरता नित्यं देवपूजासु तत्परा । एकदा ब्राह्मणोऽप्येकः क्षुधार्तो दुर्बलः प्रिये ॥४॥

अन्नं च याचयामास लम्पटं प्रति वत्सले । दुर्वचश्वावदद्देवि भिक्षुकं प्रति दुर्बलम् ‌ ॥५॥

आत्मघातः कृतस्तेन दुर्बलब्राह्मणेन च । ततो बहुतिर्थ काले मरणं तस्य चाभवत् ‌ ॥६॥

पातिव्रत्येन तत्पत्न्याः सत्यलोकं जगाम सः । बहुवर्षसहस्त्राणि स्वर्गे वासोऽभवत्प्रिये ॥७॥

ततः पुण्यक्षये जाते मर्त्यलोके स मानुषः । पूर्वपापफलाद्देवि पुत्रकन्याविवर्जितः ॥८॥

तदुद्देशेन मरणं ब्राह्मणस्याभवत् ‌ पुरा । मद्यपानं कृतं तेन ततः कुष्ठी प्रजायते ॥९॥

तस्य शान्तिं प्रवक्ष्यामि यतः पापात्प्रमुच्यते । गायत्रीमूलमंत्रेण लक्षं जाप्यं प्रयत्नतः ॥१०॥

दशांशहोमः कर्त्तव्यो विप्राणां भोजनं शतम् ‌ । विधिवत्पूजयेद्देवि कपिलां स्वर्णंमूषिताम् ‌ ॥११॥

दद्याद्विप्राय तां देवि विदुषे ज्ञानरूपिणे । अतः पुत्रः प्रजायेत रोगनाशो भवेदनु ॥१२॥

इति कर्मविपाकसंहितायां नवमोऽध्यायः ॥९॥

अथ दशमोऽध्यायः १०

शिव उवाच ॥

एको वणिग्जनो देवि काकुत्स्थनगरे शुभे । अग्निकोणे शिवपुरे योजनार्द्धप्रमाणके ॥१॥

धनाढयो ह्मवसद्देवि वैश्यवृत्तिरतः सदा । विक्रयं कुरुते देवि गुडमन्नं रसादिकम् ‌ ॥२॥

एकस्मिन् ‌ समये देवि गुडमादाय चाध्वनि । वृषभं भारसंपन्नं करोति स वरानने ॥३॥

भारेण पीडितोऽनडान् ‌ स वै पथि गतः शिवे । न ज्ञातं तेन वै पापं वृषभार्तिसमुद्भवम् ‌ ॥४॥

एवं बहुतिथे काले बिल्वमङ्रलके पुरे । वैश्यस्य मरणं जातं सरय्वां सह भार्ययय ॥५॥

स्वर्गलोके गतौ द्वौ च तौ तु क्षेत्रप्रभावतः षष्टिवर्षसहस्त्राणि स्वर्गे भुक्तं शुभं फलम् ‌ ॥६॥

ततः पुण्यक्षये जाते मर्त्यलोके वरानने । अवन्तीनगरे जातौ धनधान्यसमन्वितौ ॥७॥

मध्यदेशे विशालाक्षि पूर्वकर्मफलेन हि । पुत्रो न जायते देवि गर्भपातस्तथा शिवे ॥८॥

कन्यका वै प्रजायेत वारं वारं वरानने । शरीरे च ज्वरोत्पत्तिर्मध्यमा च प्रजायते ॥९॥

प्रायश्चित्तं प्रवक्ष्यामि पूर्वपापविशुद्धये । सुवर्णस्य वृषं शुभ्रं पलपश्चमितं तथा ॥१०॥

प्रतिमां कारयेद्देवि वृषमेकं विमूषितम् ‌ । प्रपूज्य शिवमन्त्रेण वैदिकेन यथाविधि ॥११॥

प्रदद्याद्विदुषे तस्मै ज्ञानिने शुद्धबद्धये । नमः शिवाय मन्त्रेण लक्षजाप्यं प्रयत्नतः ॥१२॥

रोगतो मुच्यते मुच्यते देवि नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां दशमोऽध्यायः ॥१०॥

अथ एकादशोऽध्यायः ११

ईश्वर उवाच ॥

श्रृणु देवि वरारोहे नृणां कर्मविपाकजम् ‌ । प्रवक्ष्यामि न संदेहो यदि ते श्रवणे मतिः ॥१॥

उत्तरे चाप्ययोध्यायास्ततः कोशत्रयोपरि । तत्र तस्थौ च भो देवि लोकशर्मेति नामतः ॥२॥

तस्य पत्नी शुभाङ्री वै लीलानाम्रीति विश्रुता । ब्राह्मणः कर्मविभ्रष्टो व्याधरूपो वरानने ॥३॥

मृगान् ‌ सबालकान् ‌ हत्वा पक्षिणो विविधानपि । पत्नीयुक्तस्तु बुभुजे तुतोष बहुधा तदा ॥४॥

तस्य पत्नी महादुष्टा मुखरा चश्वला तथा । परपुंसि रता नित्यं धर्मकर्मविवर्जिता ॥५॥

एवं सर्वं वयो जातं वृद्धे सति वरानने । मरणं तस्य वै देवि स्वपुरे सर्पतस्तथा ॥६॥

पत्नी चैव तदा तस्या दुष्टा वै व्यभिचारिणी । उभौ च नरके यातौ स्वकर्मवशतः प्रिये ॥७॥

कुम्भीपाके महाघोरे नानानरकयातनाम् ‌ । भुक्त्वा बहु सहस्त्राणि पुनर्जातश्च सूकरः ॥८॥

योनिं च सूकरीं भुक्त्वा बिडालत्वं पुनःप्रिये । ततो बिडालयोनिं च भुक्त्वा गृध्रस्ततोऽभवत् ‌ ॥९॥

पुनः कर्मवशाद्देवि मानुषत्वं ततोऽभवत् ‌ । इह लोके वरारोहे पूर्वकर्मप्रभावतः ॥१०॥

मृतवत्सा भवेन्नारी पुत्रश्चैव न जीवति । बहुरोगो भवेद्देवि ज्वरेणैव प्रपीडितः ॥११॥

पूर्वजन्मकृतं पापमिह जन्मनि भुज्यते । इह लोके कृतं कर्म जन्मजन्मनि भुज्यते ॥१२॥

अथ शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे मम । वंशगोपालमन्त्रेण लक्षजाप्यं वरानने ॥१३॥

दशांशहोमः कर्तव्यो विप्राणां भोजनं शतम् ‌ । मन्त्रं च संप्रवक्ष्यामि येन पुत्रमवाप्स्यति ॥१४॥

मंत्रः - ॐ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥१५॥

ततो वै स मृगान् ‌ कृत्वा मृगबालान् ‌ सपक्षिणः । स्वर्णपश्चपलेनैव मृगान् ‌ कृत्वा सबालकान् ‌ ॥१६॥

रौप्यस्यैवं वरारोहे पक्षिणह पश्व कारयेत् ‌ । पूजनं विधिवत् ‌ कृत्वा संप्रार्थ्य परमेश्वरम् ‌ ॥१७॥

स्त्रष्टा त्वं सर्वलोकानां सर्वकामप्रदः सताम् ‌ । देवदेव जगन्नाथ शरणागतवत्सल ॥१८॥

त्राहि मां कृपया देव पूर्वकर्मविपाकतः । एवं संपूज्य देवेशं ततो विप्रं प्रपूजयेत् ‌ ॥१९॥

सुवर्णेन वरारोहे अश्वादिवाहनेन वै । प्रतिमामर्पयेद्देवि विप्राय ज्ञानरूपिणे ॥२०॥

वापिकां कूपखातं च पथि मध्ये वरानने । प्रकरोति यदा देवि तदा पुत्रः प्रजायते ॥

रोगात्प्रमुच्यते देवि जीवेत ‌ पुत्रो न संशयः ॥२१॥

इति कर्मविपाकसंहितायां एकादशोऽध्यायः ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-04T06:04:16.4230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हात टेकणें

  • १असमर्थता कबूल करणें 
  • मट्ट्यास येणें. ‘आमचे आजोबा म्हणजे कसले भांडणारे वस्ताद! पण त्यांनीसुद्ध हात टेकले.’ -पकोधे. 
  • अशक्त होणें. 
  • दमणें, थकणें. 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.