TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - स्वाती नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


स्वाती नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ षष्टितमोऽध्यायः ६०

शिव उवाच ॥

कान्यकुब्जे महादेवि राजाप्येकोऽवसत्पुरा । राजधर्मरतः शान्तः प्रजापालनतत्परः ॥१॥

रुद्रधर्मेति विख्यातो भार्या तस्य प्रभावती । एकस्मिन्दिवसे देवि ब्राह्मणो भयपीडितः ॥२॥

शरणं श्रावयामास शरणार्थी द्विजोत्तमः । तस्य भार्या महादेवि सुरूपा स्वतिसुन्दरी ॥३॥

राजपुत्रेण तस्यां तु गमनं मुग्धतः कृतम् ‌ । शरणं दत्तवान् ‌ राजा पुत्रस्त्रेहेन यन्त्रितः ॥४॥

एवं बहुगते काले नृपस्य मरणं यदा । तदा यमाज्ञया दूतैः क्षिप्तो नरककर्दमे ॥५॥

षष्टिवर्षसहस्त्राणि नरके परिपच्यते । नरकाद्वै विनिष्क्रान्तः सूकरत्वं ततोऽलभत् ‌ ॥६॥

पुनः श्रृगालयोनिं च मानुषत्वं ततोऽगमत् ‌ । धनधान्यसमायुक्तो बहुज्ञो गुणवानपि ॥७॥

पुनर्विवाहिता जाता पत्नी तस्य प्रभावती । पूर्वकर्मफलाद्देवि तस्य पुत्रो न जायते ॥८॥

शरीरं सततं देवि ज्वरेणैव प्रपीडितम् ‌ । वातपित्तकफानां च सम्भवः स्याद्वयोधिके ॥९॥

अस्य दानं श्रृणु त्वं हि यथा पापक्षयस्तथा । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ ॥१०॥

वापीकूपतडागानां जीर्नोद्धारो यदा भवेत् ‌ । तदा पापं क्षयं याति पूर्वजन्मसमुद्भवम् ‌ ॥११॥

विष्णोरराटमन्त्रेण जपं कुर्याद्विचक्षणः । दद्याद्‌गां वेदविदुषे सवत्सां चैव शोभने । वस्त्ररत्नसमायुक्तां घण्टाचामरभूषिताम ‌ ॥१२॥

चन्द्रसूर्यग्रहे काश्यां स्त्रानं दानं समाचरेत् ‌ ॥१३॥

निष्कत्रयासुवर्णस्य कमलं कारयेत्ततः । ब्राह्मणाय वरारोहे प्रदद्यात ‌ कमलं शुभम् ‌ ॥१४॥

एवं कृते वरारोहे सर्वपापक्षयो भवेत् ‌ । अपि वन्ध्या लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥१५॥

इति कर्मविपाकसंहितायां षष्टितमोऽध्यायः ॥६०॥

अथैकषष्टितमोऽध्यायः ६१

श्री शिव उवाच ॥

गङ्गाया दक्षिणे कूले विंध्ये च नगरोत्तमे । द्विजोप्येकोऽवसद्देवि ब्रह्मकर्मविवर्जितः ॥१॥

अनाचाररतो नित्यं परस्त्रीलम्पटः शठः । व्यापारं कुरुते नित्यं गोहिरण्यगजादिकम् ‌ ॥२॥

बहु द्रव्यमभूत्तस्य त्रिंशत्कोटिप्रमाणकम ‌ । द्रव्यस्य संग्रही नित्यं न च किंचिद्ददाति सः ॥३॥

स्वभार्यां च परित्यज्य परभार्यारतो द्विजः । धनेश्वर इति ख्यातं तस्य नाम पुराऽभवत् ‌ ॥४॥

ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतेन वै बद‌ध्वा निक्षिप्तो नरकार्णवे ॥५॥

महाघोरे सुरश्रेष्ठे कल्पमेकं तदाऽवसत् ‌ । पुनर्व्याघ्रस्य योनिं च वृकयोनिं ततोऽलभत् ‌ ॥६॥

पुनर्मानुषयोनिं च मृतवत्सत्वमाप्तवान ‌ । महारोगसमायुक्तो न सुखं लभते क्वचित् ‌ ॥७॥

अस्य शान्तिं प्रवक्ष्यामि शृणु देवि वरानने । गायत्रीमूलमंत्रेण दशलक्षजपो सदा ध्यानं सदा गोविन्दकीर्त्तनम् ‌ ॥९॥

नित्यं प्रपूजयेद्देवं शंखचक्रगदाधरम् ‌ । पीताम्बरधरं श्यामं श्रीवत्सेन विराजितम् ‌ ॥१०॥

प्रत्यब्दं कार्तिके मासि तुलसीं विष्णुरूपिणीम् ‌ । पूजयेद्दीपदानं च दद्याद्वसुन्धराम् ‌ । यथाशक्त्या च भो देवि ब्राह्मणाय शिवात्मने ॥१२॥

एवं कृते न सन्देहः पूर्वजन्मकृतं च यत् ‌ । तत्पापं नाशमायाति सर्वरोगक्षयो भवेत ‌ ॥१३॥

वन्ध्यात्वं प्रशमं याति पुत्रलाभो भवेद् ‌ ध्रुवम् ‌ । काकवन्ध्या लभेत्पुत्रं नात्र कार्या विचारणा ॥१४॥

इति कर्मविपाकसंहितायां एकषष्टितमोऽध्यायः ॥६१॥

अथ द्विषष्टितमोऽध्यायः ६२

शिव उवाच ॥

कुरुक्षेत्रे महातीर्थे बल्लवो वसति प्रिये । कृषिकर्मरतो नित्यं क्रयविक्रयतत्परः ॥१॥

महिषीगोवृषाणां च संग्रहं कुरुते बहु ॥२॥

तस्य भार्या वरारोहे परपुंसि रता सदा । स्वपतिं तर्जयेन्नित्यं सदा निष्ठुरभाषणात् ‌ ॥३॥

संग्रहो बहुद्रव्याणां न दानं द्त्तवान् ‌ क्वचित् ‌ । एकस्मिन्दिवसे देवि चन्द्रपर्वणि शोभने । दानं च दशवर्णायाः कृतं क्षेत्रे तदा किल ॥४॥

ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतेन भो देवि निक्षिप्तो नरके किल ॥५॥

त्रिंशद्वर्षसहस्त्राणि भुक्त्वा नरकयातनाम ‌ । पुनर्माहिषयोनिश्च जातः खलु वरानने ॥६॥

नरकयोनिं पुनर्लेभे धनधान्य्समन्वितः । जातः खलु वरारोहे पुत्रकन्याविवर्जितः ॥७॥

रोगवान्नात्र संदेहो जङ्रापीडा ततोऽधिका ॥८॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं च यथा तथा । षडंशं च ततो दानं विप्राय विदुषे तथा ॥९॥

गायत्रीलक्षजाप्यं च ततो होमं प्रकल्पयेत् ‌ । दशांशं तर्पणं कुर्यात्तद्दशांशं च मार्जनम् ‌ ॥१०॥

गामेकां कपिलां दद्यात्स्वर्णश्रृङ्रीं सहाम्बराम् ‌ । ब्राह्मणान्पश्च पश्चाशत्पक्वान्नेन प्रभोजयेत ‌ ॥११॥

पश्चपात्राणि दद्याद्वै शय्यादानं यथाविधि । दशवर्णा प्रदातव्या ब्राह्मणेम्यो यथाविधि ॥१२॥

एवं कृते न संदेहः शीघ्रं पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां द्विषष्टितमोऽध्यायः ॥६२॥

अथ त्रिषष्टितमोऽध्यायः ६३

श्री शिव उवाच ॥

हस्तिनाख्यं च नगरं ख्यातं चैव मनोहरम ‌ । अवसंस्तत्र भो देवि नराः सर्वे विचक्षणाः ॥१॥

तन्मध्ये शूद्र एको हि धर्मात्मा ज्ञानवानपि । स्वधर्मकर्मणा कृत्वा व्ययं कुर्याद्दिनेदिने ॥२॥

तस्य पुत्रद्वयं जातं द्वौच पापरतौ शठौ । प्रत्यहं जीवघातेन मद्यवेश्यारतौ च तौ ॥३॥

द्यूताच्चैव महादेवि रात्रावह्रि च पानतः । न च वारयितुम शक्यौ शुद्रेण तु तदा शिवे ॥४॥

ततस्तु देवयोगेन प्रयागे शूद्र आगतः । मासमेकं ततः स्थित्वा तस्य मृत्युरभूत्किल ॥५॥

विष्णुदासस्ततो लब्ध्वा यज्ञालोकं वरानने । विमानवरमारूढः स्वर्गसौख्यमवाप्तवान् ‌ ॥६॥

तस्य भार्या विशालाक्षि मर्त्यलोके सुरेश्वरि । साऽभवद्विधवा नारी किश्चित्काले गते सति ॥७॥

परपुंसि रता जारे प्रत्यहं व्यभिचारिणी । ततो बहुगते काले तस्या मृत्युरभूत् ‌ किल ॥८॥

यमदूतैर्महाघोरैर्निक्षिप्ता तत्क्षणादपि । विंशत्यब्दसहस्त्राणि नरके परिभुज्यते ॥९॥

शूद्रः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि । जन्म तस्य भवेद्देवि मध्यदशे सुरेश्वरि ॥१०॥

तदा सा तु भवेन्नारी या पुरा व्यभिचारिणी । पूर्वजन्मप्रसंगाच्च वंशच्छेदो हि जायते ॥११॥

रोगश्च जायते ताम्यां कष्टं चैव दिनेदिने । अस्य पापस्य वै शान्तिं तत्समासेन मे श्रृणु ॥१२॥

स्वर्णवृक्षं वरं कृत्वा स्वांगुष्ठपरिमाणकम् ‌ । फलपुष्पसमायुक्तं पलपंचदशस्य तु ॥१३॥

तस्य वृक्षस्य वै मूले शालग्रामशिलां शुभाम् ‌ । पूजयित्वा विधानेन विष्णुरूपां वरानने ॥१४॥

ब्राह्मणाय ततो दद्याद्‌गां च दद्यात्पयस्विनीम् ‌ । गायत्रीमन्त्रजाप्यं तु लक्षमेकं प्रकारापेयत् ‌ ॥१५॥

ततः पापविशुद्धिः स्यात्पुत्रो भवति नान्यथा । सर्वे रोगाः क्षयं यान्ति काकवन्ध्या लभेत्सुतम् ‌ ॥१६॥

इति कर्मविपाकसंहितायां त्रिषष्टितमोऽध्यायः ॥६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:41:43.7670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अक्कलेहून विद्या जास्ती, आझ्याप्रमाणें वाढती

  • मनुष्य जात्या कितीहि बुद्धिवान असला तरी त्याला अध्ययनाची जरूरी असते 
  • विद्या ही अभ्यासानें सरखी वाढवितां येते, तथापि जर मुळांत मुळींच बुद्धि नसेल तर ओझेंभर विद्येचाहि कांहीं उपयोग ओणार नाहीं, अक्कलेनें काम होतें, बहुतां हातीं थोडें येतें पहा. 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site