TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - उत्तराभाद्रपदा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


उत्तराभाद्रपदा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ चतुरधिकशततमोऽध्यायः १०४

शिव उवाच ॥

उज्जयिन्यां महेशानि क्षत्रियो वसति प्रिये । वैश्यकर्मरतः सोऽपि करोति क्रयविक्रयम् ॥१॥

तस्य भार्या विशालाक्षि कुलटा व्यभिचारिणी ॥२॥

संचितं तेन महिषीधनं रथगजादिकम् ‌ । छागमांसं वरारोहे प्रत्यहं स भुनक्ति हि ॥३॥

एकदा श्राद्धसमये ब्राह्मणो दुर्वचोऽवदत् ‌ । पुरोहितस्य मरणं तदुद्देशेन वै शिवे ।

ततो बहुदिने याते तस्य मृत्युरमूत् ‌ पुनः ॥४॥

यमाज्ञया च तद्‌दूतैर्निक्षिप्तो नरके सदा । कुंभीपाके महाघोरे षष्टिवर्षसहस्त्रकम् ‌ ॥५॥

महत्कष्टं ततो भुक्तं नरकान्निःसृतो यदा । सर्पयोनिं ततो भुक्त्वा कुक्कुटत्वं पुनः कृमिः ॥६॥

मानुषत्वं पुनर्लेभे देशे पुण्यतमे शुभे । कुलाचाररतः सोऽपि देवतागुरुपूजकः ॥७॥

पुत्राश्च बहवो जातास्तेषां मृत्युश्च जायते । शरीरे रोग उग्रो वै बहु कष्टं मुहुर्मुहुः ॥८॥

पूर्वजन्मकृतं पापं भुज्यते खलु मानवैः । पुण्यं श्रृणु वरारोहे पूर्वपापप्रणाशनम् ‌ ॥९॥

दशपलसुवर्णस्य प्रतिमां विप्ररुपिणीम् ‌ । भूषितां विविधैर्वस्त्रै रत्नैर्देशसामुद्भवैः ॥१०॥

पूजयेच्चापि विधिवन्मंत्रेणानेन भोः शिवे ॥११॥

देवदेव महादेव भुवानानां च पालक । मम पूर्वकृतं पापं ततक्षमस्व दयानिधे ॥१२॥

त्वमेव शरणं देव त्वद्भक्तानां दिने दिने । पूजयिष्यामि सततं नमामि चरणौ तव ॥१३॥

ततो वै वेदिकामध्ये सुवितानविभूषिते । स्थापयेतप्रतिमां देवि गन्धपुष्पैः सुपूजयेत् ‌ ॥१४॥

ॐ शिवाय नमः ॥ ॐ हराय नमः ॥ ॐ त्र्यंबकाय नमः ॥ ॐ कपर्दिने नमः ॥ ॐ भवाय नमः ॥

ॐ शंकराय नमः ॥ ॐ शशिशेखराय नमः ॥ ॐ उग्राय नमः ॥ ॐ उग्ररूपाय नमः ॥

ॐ अहिर्बुध्न्याय नमः ॥ ॐ महादेवाय नमः ॥ गंधपुष्पादिभिर्देवि पूजयित्वा पृथक् ‌ पृथक् ‌ ॥१५॥

षडक्षरं महामंत्रं जपेल्लक्षं महामनाः । दशांशं हवनं तद्वत्तर्पणं मार्जनं तथा ॥१६॥

ततो गां कपिलां दद्यात्स्वर्णरत्नविभूषिताम् । ब्राह्मणाय ततो दद्याच्छय्यादानमनंतरम् ‌ ॥१७॥

प्रतिमां पूजितं चैव ब्राह्मणाय शिवात्मने । प्रदद्याद्वेदविधिना ब्राह्मणान् ‌ भोजयेत्ततः ॥१८॥

बन्धुभिः सह भुञ्जीत गुरुं च प्रार्थयेत्ततः । ब्रह्मविष्णुमहेशांश्च तत्स्वरूपं गुरुं विभुम् ‌ । प्रणमेच्चरणौ तस्य गुरुदेवस्य वै पुनः ॥१९॥

ततः प्रदक्षिणां कृत्वा साष्टांगं प्रणिपत्य च । विसर्जयेत्तदा देवं सर्वकामप्रदं शुभम् ॥२०॥

एवं कृते महेशानि पुत्रपौत्रविवर्धनम् ‌ । व्याधयः संक्षयं यांति काकवन्ध्या पुनः सुतम् ‌ ॥२१॥

लभते नात्र सन्देहो मम वाक्यं न चान्यथा ॥२२॥

इति कर्मविपाकसंहितायां चतुरधिकशततमोऽध्यायः ॥१०४॥

अथ पश्चाधिकशततमोऽध्यायः १०५

श्री शिव उवाच ॥

प्रतिष्ठाने महादेवि कायस्थो वसति प्रिये । स्वकर्मणि रतो धीरः शांतः शक्तेरुपासकः ॥१॥

एकस्तस्याभवन्मित्रं वैश्यो धनसमन्वितः । कायस्थस्तु तदा देवि गमनं तद्‌गृहेऽकरोत् ‌ ॥२॥

आदरं बहुधा कृत्वा किंचित्कालं तदोषतुः । मासमेकं तदा देवि वासो वैश्यगृहेऽभवत् ‌ ॥३॥

वैश्यभार्या विशालाक्षी मृद्वङ्री प्रियभाषिणी । प्रीतिरासीद्देवि तस्याः कायस्थे च गुणाकरे ॥४॥

कायस्थोऽपि गृहं यातस्त्यक्त्वा वैश्यगृहं शिवे । वैश्यपत्नी पुनर्देवि कायस्थस्य गृहे गता ॥५॥

उभयोश्चाभवद्देवि विग्रहो वैश्यशूद्रयोः । एवं बहुगते काले वृद्धे सति वरानने ॥६॥

कायस्थस्याभवन्मृत्युर्यमदूतैर्यमाज्ञया । निक्षिप्तो नरके घोरे षष्टिवर्षसहस्त्रकम् ‌ ॥७॥

भुक्तं बहुविधं दुःधं नरके कृमिसंकुले । नरकान्निःसृतो देवि बलीवर्दो बमूव ह ॥८॥

ऋक्षस्य वै ततो योनिं छागयोनिमनन्तरम् । मानुषत्वं पुनर्लेभे धनधान्यसमन्वितम् ॥९॥

मित्रपत्नी यतो भुक्त स्वभार्यां त्यज्य वैभवैः तत्पापेन भवेद्देवि न पुत्रः खलु वै क्वचित् ‌ ॥१०॥

प्रथमं कन्यका जाता विधवा पूर्वपापतः । पुनः पुत्रस्य सन्देहः श्ररीरे सततं ज्वरः ॥११॥

चरणे च भवेत्पीडा जंघे कटयां गुदे तथा । मृतवत्सा भवेन्नारी गर्भपातः पुनः पुनः ॥१२॥

शान्तिं श्रृणु दरारोहे पूर्वपापप्रणाशिनीम् । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१३॥

गायत्रीमूलमन्त्रस्य लक्षं जाप्यं तु कारयेत् ‌ । हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१४॥

ब्राह्मणानभोजयेत्षष्टिं सर्पिषा पायसेन चागोदानं च यथाशक्ति मूमिदानं ततः ॥१५॥

वापीकूपतडागांश्च पथिमध्ये तु कारयेत ‌ । एवं कृते न सन्देहो वंशवृद्धौ वरानने ॥१६॥

ज्वराणां संक्षयः शीघ्रं काकवन्ध्या लभेत्सुतम् ‌ । मृतवत्सा च या नारी जीवद्वत्सा भवेतखलु ॥१७॥

इति कर्मविपाकसंहितायां पश्चाधिकशततमोऽध्यायः ॥१०५॥

अथ षडधिकशततमोऽध्यायः १०६

शिव उवाच ॥

नैमिषारण्यदेणे तु मिश्रके च पुरोत्तमे । तत्र दमोदरो नाम राजपुत्रस्तदाऽवसत् ‌ ॥१॥

तस्य पत्नी वरारोहे नाम्रा वंशमती तथा । परस्त्रीलंपटो धूर्तो धनाढयो धनगर्वितः ॥२॥

भार्यां त्यक्त्वा वरारोहे परस्त्रीणां च संग्रहम् । करोति प्रत्यहं देवि मृगमांसं भुनक्त्यपि ॥३॥

आखेटार्थं सदा याति मृगांश्च मृगशावकान ‌ । प्रत्यहं घातयति स व्याधरूपो महाशठः ॥४॥

एवं सर्वं वयो यातं वृद्धे सति वरानने । मरणं तस्य्य वै जातं यमदूतैर्यमाज्ञया ॥५॥

नरके वै व्याधरूपो निक्षिप्तः श्रृंखलैर्युतः । सप्ततिं वै सहस्त्राणि बहु कष्टं प्रभुक्तवान ‌ ॥६॥

नरकान्निःसृतो देवि व्याघ्रयोनावजायत । कपियोनिस्ततो देवि मानुषत्वममूतपुनः ॥७॥

धनधान्ययुतः साधुस्तस्य भार्या मृतप्रजा ॥८॥

ब्राह्मणीगमनं देवि पूर्वजन्मनि यत्कृतम् ‌ । तत्पपेन वरारोहे तनौ पीडा मुहुर्मुहुः ॥९॥

मृगा हताश्व बहवो ह्ताश्च मृगशावकाः । तेन पापेन भो देवि मृतवत्सत्वतस्योपायं प्रवक्ष्यामि श्रृणु देवि धृतव्रते ॥११॥

शिवस्य वैदिकं मन्त्रं लक्षं तु प्रजपेनमुदा । लक्षद्वयं वरोरोहे षडक्षरजपं तथा ॥१२॥

शिवमूर्त्तिं दशपलसुवर्णस्यतु कारयेत् ‌ । ततस्तां पूजयेद्धीमानगंधपुष्पादिचन्दनैः । धूपैर्दीपैः सुनैवेद्यैरावाहनविसर्जनैः ॥१३॥

होमं च कारयेतप्रीत्या कुण्डे सुम्रूः सुशोभने । दशांशं हवनं तद्वन्मार्जनं तर्पणं ततः ॥१४॥

स्वर्णशृंगीं ततो दद्यात्सवत्सां युवतीं तथा । ततस्तु भोजयेद्विप्रानपयसा मोदकेन च ॥१५

एवं कृते महेशानि शीघ्रं पुत्रश्च जायते । व्याधयः संक्षयं यान्ति नात्र कार्या विचारणा ॥१६॥

इति कर्मविपाकसंहितायां षडधिकशततमोऽध्यायः ॥१०६॥

अथ सप्ताधिकशततमोऽध्यायः १०७

शिव उवाच ॥

नगरेऽग्रपुरे देवि वैश्य एको हि तिष्ठति । दनदास इति ख्यातस्तस्य भार्या सुगोपिका । चंचला कुटिला सा तु पतिवंचनतत्परा ॥१॥

एकस्मिन्समये देवि द्विज एकः समागतः । बहुस्वर्णेन संयुक्तो धनाढयो बहुभाग्यवान् ‌ ॥२॥

कोटिमुद्रां वरारोहे ततो वैश्यगृहे द्विजः । स्थापयामास धर्मात्मा नेपालेऽथ द्विजो गतः ॥३॥

तत्र वै मरणं देवि ब्राह्मणस्य ततोऽभवत् ‌ । तद्धनं तेन वैश्येन सर्वं भुक्तं वरानने ॥४॥

ततो वार्धक्यमापन्नो महामार्या उपद्रवात् ‌ । मरणं तस्य वैश्यस्य पुत्रभार्यायुतस्य च ॥५॥

यमदूतैर्महाघोरैर्महाघोरे सकर्दमे । क्षिप्तोऽयं षष्टिसाहस्त्रवर्षं देवि सुशोभने ॥६॥

नरकान्निःसृतो देवि सूकरत्वं ततोऽलभत् ‌ । ऋक्षयोनिं ततो देवि महिषत्वं ततोऽलभत् ‌ ॥७॥

मानुषत्वं ततो देवि सर्वलोकाजितं परम् ‌ । धनधान्यसमायुक्तं पुत्रकन्याविवर्जितम् ‌ ॥८॥

ब्राह्मणस्य यतो देवि धनं भुक्तं सुनिर्भयम् । पूर्वजन्मनि देवेशि ततः पुत्रो न जायते ॥९॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने ॥१०॥

गायत्रीमूलमंत्रेण पश्चलक्षजपस्ततः । हवनं तद्दशांशेन मार्जनं तर्पणं ततः ॥११॥

ब्राह्मणस्य ततो देवि प्रतिमां कारयेत्ततः । शतपलसुवर्णस्य रत्नवस्त्रविभूषिताम् ‌ ॥१२॥

पूजयेच्चैव देवेशि चन्दनाद्यैः सुपुष्पकैः । धूपैर्दीपैर्महेशानि नैवेद्यैर्मोदकैस्तथा । प्रतिमां पूजिताम तां तु ब्राह्मणाय समर्पयेत् ‌ ॥१३॥

ततो गां कपिलां दद्यात्स्वर्नश्रृङ्रीं सनूपुराम् ‌ । ब्राह्मणानभोजयेत्पश्चात ‌ सर्पिषा पायसेन च ॥१४॥

गोशतं च ततो दद्याद्धटदानं घृतस्य च । प्रयागे माघमासे तु स्त्रानं च सह भार्यया ॥१५॥

एवं कृते भवेत्पुत्रः शीघ्रमेव न संशयः । व्याधयः संक्षयं यांति काकवन्ध्या लभेतसुतम् ‌ ॥१६॥

इति कर्मविपाकसंहितायां सप्ताधिकशततमोऽध्यायः ॥१०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:58:19.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

thermoflask

  • = thermos 
  • पु. थर्मास 
  • न. औष्मिक पात्र 
RANDOM WORD

Did you know?

पितापुत्र अथवा भाउ भाउ एकाच नक्षत्रावर जन्मले असता त्याचे काय परिणाम होतात? उपाय काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site