TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - हस्त नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


हस्त नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त
N/A

अथ द्विपञ्चाशत्तमोऽध्यायः ५२

हस्तनक्षत्रफलम् ‌

शिव उवाच ॥ स्वर्णकारोऽवसद्देवि पुरे भोजकटे शुभे । स्त्री च तस्य महादुष्टा परपुंसि रता सदा ॥१॥

तद्‌गृहे वैश्य एकोऽपि ह्यागतो धनसंयुतः । स्वर्णकारस्य वैश्यस्य दृढा प्रीतिरभूत्तयोः ॥२॥

व्यापारार्थं गृहीतं तु वैश्यात्स्वर्णं तदा प्रिये । पलं शतमितं देवि विक्रयं चाकरोक्तिल ॥३॥

स्वर्णकारस्य या पत्नी सुंदरी कुलटा परा । प्रीत्या तदाऽभजत् ‌ पत्नी वैश्याय धनिकाय वै ॥४॥

एवं बहुगते काले वैश्यस्य मरणं भवेत् ‌ । पश्चान्मृतस्तदा सोऽपि स्वर्णकारो वरानने ॥५॥

उभौ च नरके यातौ बहुकालं तु दोषतः । युगमेकमितं देवि भुक्त्वा नरकयातनाम् ‌ ॥६॥

नरकान्निःसृतौ तौ तु श्वानयोनिं तदा गतौ । पुनर्वृषभयोनिं च नरयोनिं ततो गतौ ॥७॥

महाधनसमायुक्तौ देशे पुण्यतमे शुभे । पूर्वजन्मप्रसंगेन स वैश्योऽपुत्रतां गतः ॥८॥

भार्या तस्य तु भो देवि या पुरा व्यभिचारिणी । पुत्रोत्पत्तिस्तदा तस्या मरणं शीघ्रमाप्तवान ‌ । शरीरे महती पीडा सततं चिन्तया युतः ॥९॥

अस्य शान्तिं प्रवक्ष्यामि यथोक्तं श्रृणु वल्लभे । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ ॥१०॥

जातवेदेति मन्त्रेण पंचायुतजपं तथा । दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा ॥११॥

पापशान्त्य्यै च भो देवि भोजयेद्‌ब्राह्मणाञ्छतम् ‌ । गोदानं च विशेषेण शय्यादानं तथा प्रिये ॥१२॥

प्रतिमां कारयेद्देवि सुवर्णस्य तदा शुभे । एकादशपलेनैव रचितां वस्त्रभूषिताम ‌ ॥१३॥

पूययेद्विधिवद्देवि मन्त्रेणानेन वै शिवे ॥१४॥

श्रीविष्णो पुंडरीकाक्ष भुवनानां च पालक । चन्दनैः प्रतिमां देव पूजयामि गृहाण भोः ॥१५॥

ॐ शंखाय नमः ॥ ॐ चक्राय नमः ॥ ॐ गदायै नमः ॥ ॐ शार्ङ्राय नमः ॥ ॐ गरुडाय नमः ॥ ॐ नन्दाय नमः ॥ ॐ सुनन्दाय नमः ॥ ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ किरीटिन्महादेव शंखचक्रगदाधर ॥ पापं मया कृतं पूर्वं ततक्षमस्व दयानिधे ॥१६॥

ततः प्रदक्षिणां कुर्यात्पत्न्या सह वरानने । प्रतिमां पूजितां चैव ब्राह्मणाय समर्पयेत् ‌ ॥१७॥

एवं कृते तदा देवि पुत्रो भवति नान्यथा । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१८॥

इति कर्मविपाकसंहितायां द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

अथ त्रिपञ्चाशत्तमोऽध्यायः ५३

शिव उवाच ॥

वङ्गदेशे महादेवि केशवं नाम वै पुरम् ‌ । खङ्गनामेति विख्यातो नापितो वसति प्रिये ॥१॥

महाधनसमायुक्तो भाग्यवान्देवपूजकः । तस्य पत्नी विशालाक्षी लीलानाम्रीति विश्रुता ॥२॥

तस्यां पुत्रद्वयं जातं नापितस्य तदा प्रिये । एको द्यूतरतः पुत्रो द्वितीयश्चोरसंमतः ॥३॥

परस्त्रीलम्पटो देवि नापितस्य च वै सुतः । ज्येष्ठपुत्रस्य या भार्या पुंश्चली चातिसुन्दरी ॥४॥

नापितं प्राभजत्सा तु श्वशुरं खङ्गनामकम ‌ । एवं बहुगते काले तस्य मृत्युरभूत्तदा ॥५॥

तदा पत्नी सती जाता नापितस्य चिताग्निना । सत्यलोकमभूद्देवि भार्यया सहितस्य वै ॥६॥

युगमेकायुतं देवि सत्यलोकेऽवसत्तदा । ततः पुण्यक्षये जाते पुनर्मानुष्यमाप्तवान् ‌ ॥७॥

धनधान्यसामयुक्तो ह्यपुत्रश्च सुशोभनोपश्च कन्याः प्रजायन्ते व्याधिस्तस्य प्रजायते ॥८॥

अस्य शान्तिं प्रवक्ष्यामि पूर्वपापक्षयो यतः । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥९॥

गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् ‌ । हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१०॥

मार्गे वै वापिकां कूपं तडागं चैव कारयेत् ‌ । तुलसीसेवनं नित्यमेकादश्या व्रंत ततः ॥११॥

वृंताकं मूलिका चैव न भोक्तव्यं कदाचन । दानं च द्शवर्णाया हरिवंशश्रुतिस्तथा ॥१२॥

एवं कृते न सन्देहः पुत्रो भवति तस्य वै । कन्यका नैव जायन्ते वन्ध्यात्वं च प्रशाम्यति । रोगाः सर्वे क्षयं यान्ति काकवंध्या लभेत्सुतम् ‌ ॥१३॥

इति कर्मविपाकसंहितायां त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

अथ चतुष्पञ्चाशत्तमोऽध्यायः ५४

शिव उवाच ।

कौशिकीदक्षिणे कूले कारुको व ति प्रिये । विष्णुभक्तिरतो नित्यं कृषिकर्मसु तत्परः ॥१॥

धनं तु संचितं देवि कार्पण्यात् ‌ पुण्यवर्जितः । एकस्मिन्समये रात्रौ क्षेत्रे व्याघ्रेण वै हतः ॥२॥

यमदूतैर्महाघोरे रौरवे नरके गतः । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥३॥ =================

ततः कर्मवशाद्देवि बिडालत्वं स्म जायते । ततः कुक्कुटयोनिर्वै श्रृत्रकन्याविहीनश्च अर्शोरोगेण पीडितः ॥५॥

अस्य शान्तिं प्रवक्ष्यामि पूर्वपापविशुद्धये । सूर्यमाराधयेन्नित्यं व्रतं सूर्यस्य वासरे ॥६॥

गायत्रीमूलमंत्रेण दशायुतजपं ततः । प्रयागे नियतः स्त्रानं माघवैशाखकार्तिके ॥७॥

भूमिदानं ततो देवि वित्तशाठयं न कारयेत् ‌ । ततो गोमिथुनं दानं सर्वालङ्कामध्ये प्रदातव्यं तुलसीपत्रसंयुतम ‌ ॥९॥

माल्यं च कारयेद्देवि हेम्रो दशपलस्य वै । विधिपूर्वं विशेषेण विविधं गन्धचर्चितम् ‌ ॥१०॥

आचार्याय ततो दद्यात् ‌ सर्वपापं विनाशयेत् ‌ । पुत्रश्च जायते देवि कन्यका नैव जायते ॥११॥

सर्वे रोगाः क्षयं यान्ति वंध्यात्वं च प्रणश्यति । काकवन्ध्या लभेत्पुत्रं मृतवत्सा च पुत्रिणी । अधनो धनमाप्रोति नात्र कार्या विचारणा ॥१२॥

इति कर्मविपाकसंहितायां चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥

अथ पञ्चपञ्चाशत्तमोऽध्यायः ५५

श्रीशिव उवाच ।

हस्तिनानगरे देवि कायस्थो वसति प्रिये । केवलेति समाख्यातस्तस्य स्त्री कमला शुभे ॥१॥

महाधनसमायुक्तो मद्यपानरतः सदा । वेश्यासुरतसंतृप्तो ब्राह्मणस्य विदुषकः ॥२॥

एकस्मिन्समये देवि कश्चिद्विप्रः समागतः गङ्राजलसमायुक्तो ज्याचितं तेन भोजनम् ‌ ॥३॥

तच्छुत्वा देहजक्रोधाद्‌ब्राह्मणं दुर्वचोऽवदत् ‌ । संध्यासमयमासाद्य विषं पीत्वा द्विजो मृतः ॥४॥

ततो बहुगते काले मरणं तस्य चाभवत् ‌ । तस्य पत्नी सती जाता तद्दिने च वरानने ॥५॥

बहून्यब्दसहस्त्राणि सत्यलोकेऽवसत्तदा । सौख्यानि विविधान्यत्र प्रभुक्तानि वरानने ॥६॥

ततः पुण्यक्षये जाते मानुषत्वं पुनर्भवेत् ‌ । धनधान्यसमायुक्तो विप्रवंशे प्रजायते ॥७॥

जाताश्च बहवः पुत्रा गौराङ्रा प्रियदर्शनाः । गुणज्ञा रूपसम्पन्ना ज्ञानिनः प्रीतिवर्द्धनाः ॥८॥

द्वौ पुत्रौ शीलसम्पन्नौ चोद्वाहेन समायुतौ । पितुः कर्मवशाद्देवि ब्रह्महत्या पुरा यतः ॥९॥

राजरोगसमायुक्तौ जायागर्भो विनश्यति । अस्य शांतिं प्रवक्ष्यामि श्रृणु देवि पतिवते ॥१०॥

विष्णोरराटमंत्रेण लक्षजाप्यं च कारयेत् ‌ । दशांशं हवनं कुर्यात् ‌ तर्पणं मार्जनं तथा ॥११॥

वित्तस्य च षडंशं च ब्राह्मणे दानमाचरेत् ‌ । वापीकूपतडागानि पथि मध्ये च कारयेत् ‌ ॥१२॥

गामेकां कपिलां दद्यात्सवत्सां वस्त्रभूषिताम् ‌ ॥१३॥

सुवर्णस्य कृतं विप्रं पलपश्चद्शस्य तु । दद्याद्विप्राय विदुषे सर्वप्राणिरताय वै । श्रवणं हरिवंशस्य विधिपूर्वं च कारयेत् ‌ ॥१४॥

पुत्रश्च जायते देवि गर्भपातश्च शाम्यति । काकवन्ध्या लभेत्पुत्रं निश्चयं नात्र संशयः ॥१५॥

पुत्राणां मरणं देवि पूर्वपापप्रसङ्रतः । प्रायश्चित्तं विना देवि कुतः शान्तिमवाप्नुयात् ‌ ॥१६॥

इति कर्मविपाकसंहितायां पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:39:17.6830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ताटांतलें सरत नाहीं, खाण्यावांचून उठवत नाहीं

  • एखादा मनुष्‍य भूक नसतांना परंतु एखादा पदार्थ खूप खावा अशी इच्छा मनांत येऊन जेवावयास बसला म्‍हणजे त्‍याची अशी अवस्‍था होते. खाववत तर नाही पण टाकूनहि द्यावेसे वाटत नाही. अधाशी वृत्तीचा मनुष्‍य. 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site