TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - पुनर्वसु नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


पुनर्वसु नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथाष्टाविंशोऽध्यायः २८

ईश्वर उवाच ॥

ये मानुषाः परद्रव्यं हरन्ति सततं प्रिये । ते नरा दुःखितां यान्ति रोगेणैव प्रपीडिताः ॥१॥

ऋणं यस्य गृहीतं वै तदृणं न ददाति च । ऋणसम्बन्धतो देवि पुत्रो भवति दारुणः ॥२॥

तस्य गात्रं च वै भग्नं धातुच्छिन्नं तथा नरः । कन्या हता तु पूर्वं हि फलं भवति तादृशाम् ‌ ॥३॥

अवन्तीपुरतो देवि ख्यातं चैव सुशोभनम् ‌ । क्रोशमांत्र ततो देवि चोत्तरे नगरं तथा ॥४॥

वसन्तपुरमित्याख्यं वसन्ति बहवो जनाः । नाम्रा तन्मध्य आभीरो नन्दनो वसति प्रिये ॥५॥

तस्य भार्या तु विख्याता नाम्रा वै सुन्दरी प्रिये । सर्वथा च महादेवि कृपणः सह भार्यया ॥६॥

मित्रं तस्य महादेवि ब्राह्मणो वेदपारगः । स तिष्ठति पुरीमध्ये धनं च बहु संचितम् ‌ ॥७॥

प्रत्यहं च परान्नेन भोजनं कुरुते नरः । यदा स प्रौढतां यातस्तां पुरीं च तदाऽत्यजत् ‌ ॥८॥

आगतो मित्रपार्श्चे वै पुरे शुभे । आभीरो हि गृहे वासं मित्रत्वाद्दत्तवान्स्वयम् ‌‍ ॥९॥

बहुकालमवात्सीत्स तत्प्रीत्या सुरसुन्दरि । आभीरेण ततो देवि स्वर्णं दृष्टा प्रहर्षितः ॥१०॥

तस्य स्वर्णं समाह्रत्य स्वगृहे स्थापितं तदा । ब्राह्मणेन महत्कष्टं कृतं द्रव्यस्य शोकतः ॥११॥

महाशोकसमायुक्तः काश्यां चैव समागतः । शरीरं च ततस्त्यक्त्वा स्वर्णशोकेन वै द्विजः ॥१२॥

शूद्रेणैव महादेवि तस्य स्वर्णं प्रभुज्यते । ततो बहुगते काले मरणं तस्य चाभवत् ‌ ॥१३॥

नरके पातयामासुर्यमदूता यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥१४॥

ततस्तेन तु प्रेतत्वं भुक्तं वर्षसहस्त्रकम् ‌ । उलूकत्वं वरारोहे कौशिक्या निकटे ततः ॥१५॥

सरय्वा उत्तरे कूले मानुषत्वं ततोऽभवत् ‌ । मध्यदेशे च भो देवि पत्न्या सह वरानने ॥१६॥

धनधान्यसमायुक्तो राजासेवासु तत्परः । जातः पुनर्वसौ देवि प्रथमे चरणे खलु ॥१७॥

पूर्वजन्मनि भो देवि दत्तवानगोशतं यतः । भूपतित्वं ततो देवि धनाढयत्वं भवेतखलु ॥१८॥

ब्राह्मणस्य ह्रतं स्वर्णं स्वयं चोरेण यत्पुरा । तेन पापेन भो देवि पुत्रस्य मरणं खलु ॥१९॥

तस्य शान्तिं प्रवक्ष्यामि तत्सर्वं श्रृणु पार्वति । गृहवित्ताष्टमं भागं पुण्याकार्यं च कारयेत् ‌ ॥२०॥

गायत्रीजातवेदोम्यं याः फलीति तथा प्रिये । लक्षत्रयं जपं कुर्याद्दशांशहवनं ततः ॥२१॥

तर्पणं मार्जनं चैव दशांशक्रमतस्तथा । श्रवणं हरिवंशस्य चण्डिकार्चनमेव च ॥२२॥

शिवार्चनंज विशेषेण वापिकां चैव कारयेत् ‌ । कूपं चैव तडागं च पथि मध्ये च कारयेत् ‌ ॥२३॥

कूष्मांडं नारिकेरं च पंचरत्नसमन्वितम् ‌ । गंगामध्ये प्रदातव्यं शनौ चाश्वत्थपूजनम् ‌ ॥२४॥

पलसप्तदशेनैव प्रतिमां कारयेद्धुधः । चतुष्कोणां ततो वेदिं दशरौप्यपलैर्युताम ‌ ॥२५॥

तन्मध्ये प्रतिमां स्थाप्य सपुत्रस्य द्विजस्य तु । पूजयेद्देवि वै भक्त्या मंत्रेणानेन वै शिवे ॥२६॥

ॐ नमो भगवते वासुदेवाय ॥ ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ पुरुषाय नमः ॥ ॐ पुरुषोत्तमाय नमः ॥ ॐ शार्ङ्रणे नमः ॥ ॐ पीताम्बराय नमः ॥ ॐ चक्रपाणये नमः ॥ ॐ अच्युताय नमः ॥ वासुदेवादिदशभिर्मंत्रैरेभिः पृथक् ‌ पृथक् ‌ । पूजयेतप्रतिमां तां तु ततो दद्यादि‌द्वजन्मने ॥२७॥

पूजयेद्देवदेवेशं सर्वपापपनुत्तये । ततः सम्प्रार्थ्य देवेशं शंखचक्रगदाधरम् ‌ । पीताम्बरं चतुर्बाहुं पुण्डरीकनिभेक्षणम् ‌ ॥२८॥

वासदेव जगन्नाथ धराधर गुरो हरे । मम पूर्वकृतं पापं क्षम्यतां परमेश्वर ॥२९॥

ततो गां कपिलां दद्याद्त्स्वर्णश्रृङ्रीं सनूपुराम् ‌ । विधिवद्वेदविदुषे ब्राह्मणाय तपस्विने ॥३०॥

दशवर्णां ततो दद्याद्‌ब्राह्मणान्भोजयेत्ततः ॥३१॥

भूमिदानं ततो दद्याद्विप्राय विदुषे ततः । एवं कृते न संदेहः पूर्वपापं विनश्यति ॥३२॥

सन्तानो जायते देवि रोगाणां संक्षयस्ततः । कन्यका नैव जायन्ते वन्ध्यात्वं च प्रणश्यति ॥३३॥

इति कर्मविपाकसंहितायां अथाष्टाविंशोऽध्यायः ॥२८॥

अथैकोनत्रिंशोऽध्यायः २९

शिव उवाच ॥

अथातः सम्प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि । अवन्तीपुरतो देवि पूर्वे क्रोशप्रमाणके ॥१॥

लक्ष्मणस्य पुरं ख्यांत तत्रैव बहवो जनाः । वसन्ति वैष्णवाः सर्वे वेदकर्मविचक्षणाः ॥२॥

स्वर्णकारो वसत्येकः स्वकर्मनिरतः सदा । दामोदर इति ख्यातस्तस्य पत्नी प्रभावती ॥३॥

विष्णुभक्तिरतः शान्तः सज्जनानां च सेवकः । पत्नी पतिव्रता तस्य पतिशुश्रूषणे रता ॥४॥

तस्य पुत्रद्वयं जातं गुणज्ञं पितृसेवकम् ‌ । एका च वल्लवी तत्र निवासाय तदाऽऽगता ॥५॥

प्रत्रद्वयसमायुक्ता बहुगोधनसंयुता । एको द्यूतरतः पुत्रो द्वितीयश्चौरसंमतः ॥६॥

अर्जितं महिषीवृन्दं गोधनं बहुधा तथा । चौर्यद्यूतोपचाराम्यां महार्घत्वमजायत ॥७॥

दुग्धादिकं महादेवि भुज्यते प्रत्यहं सदा । स्वर्णकारो विना द्रव्यमाभीरीं सर्वसंयुताम् ‌ ॥८॥

आनीतवांस्तु स्वगृहं तदा च वरवर्णिनीम् ‌ । ततो बहुगते काले महामारीज्वरादिना ॥९॥

पुत्राभ्यां सममद्राक्षीन्मरणं वल्लवी तदा । द्रव्यं तस्यास्तदा देवि स्वर्णकारो गृहीतवान् ‌ ॥१०॥

भुक्तं द्रव्यं च तत्सर्वं यावत्तिष्ठति भूतले । भार्यया सह पुत्राम्यां महिषीगोधनादिकम् ‌ ॥११॥

ततो वयोन्तरे देवि मृत्युस्तस्याभवक्तिल । पत्नी पश्चान्मृता साध्वी ताम्यां सवर्गमभूत् ‌ पुरा ॥१२॥

पंचवर्षसहस्त्राणि स्वर्गे सुखमजीजनत् ‌ । पुनः पुण्यक्षये जाते मानुषत्वं भवेद्‌भुवि ॥१३॥

अयोध्यानगरे देवि सरय्वा उत्तरे तटे । क्रोशद्वये विशालाक्षि पुरे देहलसंज्ञके ॥१४॥

स्वकर्मनिरतः प्राज्ञः स्वविद्यायां विचक्षणः । स्वदेशे चैव विख्यातः । शत्रूणां च विमर्दनः ॥१५॥

पुनर्विवाहिता पत्नी साध्वी या पूर्वजन्मनि । तस्य नेत्रे विशालाक्षि पूर्वजन्मफलाद्‌गते ॥१६॥

बाल्ये चैव तु पुत्रस्य नेत्रं वामं प्रणाशितम् ‌ । तेन पापेन भो देवि गतं नेत्रद्वयं शिवे ॥१७॥

आभीर्या गमनं पूर्वं तस्याः स्वर्णं ह्रतं पुरा । तेन पापेन भो देवि दद्रुपामासुतक्षयम् ‌ ॥१८॥

भक्षितं तस्य तत्स्वर्णं न दत्तं ब्राह्मणाय वै । तेन पापेन भो देवि मृतं पुत्रवरं शुभम् ‌ ॥१९॥

मित्रसाम्बन्धतो यातं पुत्रं पौत्रं तथा द्वयम ‌ । पूर्वजन्मकृतं देवि शुभाशुभफलं तथा ॥२०॥

भुज्यते प्राणिभिः सर्वैस्तथा देवि विशेषतः । म्लेच्छसेवारतो नित्यं म्लेच्छस्यैव च संगतः ॥२१॥

कुमार्गतो भवेद्देवि मृत्युलोकेऽभवद्यदा । शान्तिं श्रृणु महादेवि पूर्वपापप्रणाशनीम् ‌ ॥२२॥

गृहवित्तष्टमं भागं पुण्यकार्ये चकार सः । गायत्रीजातवेदोम्यां याः फलीस्त्र्यम्बकेण वा ॥२३॥

विष्णोरराटमंत्रेण जपं वै कारयेत्तथा । पंचलक्षप्रमाणेन यथा पापं प्रणश्यति ॥२४॥

होमं वै कारयेद्देवि दशांशं विधिपूर्वकम् ‌ । ततो वै तर्पणं कुर्यान्मार्जनं तु विशेषतः ॥२५॥

प्रतिमां कारयेत्तद्वद्विष्णोश्चैव शिवस्य च । अष्टादशपलस्यैव सुवर्णस्य हरिं विभुम् ‌ ॥२६॥

तद्वदेव शिवस्यैव रजतस्य परं विभुम् ‌ । प्रतिमां पूजयेद्देवि मंत्रेणानेन सुव्रते ॥२७॥

इन्द्रादिदशदिक्पालांस्तत्तन्मंत्रैः प्रपूजयेत् ‌ । गन्धपुष्पाक्षतैः सर्वान् ‌ पूजयेच्च पृथक्पृथक् ‌ ॥ ॐ इन्द्राय नमः ॥ ॐ अग्नये नमः ॥ ॐ यमाया नमः ॥ ॐ निऋतये नमः ॥ ॐ वरुणाय नमः ॥ ॐ वायवे नमः ॥ ॐ कुबेराय नमः ॥ ॐ ईशानाय नमः ॥ ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ गरूडध्वज देवेश चराचरगुरो हरे । वासुदेव जगन्नाथ पूर्वपापं व्यपोहतु ॥२८॥

ॐ नन्दिकेश्वर भूतेश देवदेव सुरेश्वर । मम पूजां गृहाण त्वं पूर्वपापं प्रणाशय ॥२९॥

ततो गां कपिलां देवि स्वर्णश्रृंगीं प्रपूजयेत् ‌ । मन्त्रेणानेन भो देवि सर्वपापहरां शुभाम ‌ ॥३०॥

ॐ नमो भगवती कामेश्वरी मम पापं व्यपोहतु स्वाहा । पुरा मम कृतं पापं कामधेनुर्व्यपोहतु । कपिले त्वं जगन्मातर्मम कार्यं प्रसाधय ॥३१॥

ततश्च दद्याद्‌गां देवि ब्राह्मणाय शिवात्मने । दशवर्णां ततो दद्यात् ‌ पात्राणि विविधानि च ॥३२॥

वृषभं च ततो देवि नीलवर्णं सुसंस्कृतम् ‌ । ब्राह्मणाय प्रदद्यात्तू सर्वपापस्य संक्षये ॥३३॥

भोजयेद्विविधैरन्नैः पायसैश्च समोदकैः । ब्राह्मणं शतसंख्याकं रुद्रविष्णुस्वरूपिणम् ‌ ॥३४॥

प्रतिमां दापयेत्पश्चाद्‌ब्राह्मणाय वराय च । बन्धुभिः सह भुञ्जीत ततो विप्रविसर्जनम् ‌ ॥३५॥

यथाशक्त्या प्रदद्याद्वै ब्राह्मणेभ्यश्च दक्षिणाम ‌ । हरिवंशस्य श्रवणं पार्थिवस्य च पूजनम् ‌ ॥३६॥

भूमिदानं विशेषेण ब्राह्मणाय च दापयेत् ‌ ॥३७॥

एवं कृते वरारोहे पूर्वजन्मसमुद्भवम् ‌ । पापं प्रशमयेच्छीघ्रं मम वाक्यं च नान्यथा ॥३८॥

रोगादिविविधोत्पन्नं तत्सर्वं विलयं व्रजेत् ‌ । वंशवृद्धिर्भवेद्देवि नात्र कार्या विचारणा ॥३९॥

इति कर्मविपाकसंहितायां एकोनत्रिंशोऽध्यायः ॥२९॥

अथ त्रिंशोऽध्यायः ३०

शिव उवाच ॥

पुर्यामवन्तिकायां वै नापितो वसति प्रिये । स्वकर्मणः परिभ्रष्टः कृषिकर्मरतः सदा ॥१॥

पत्नी तस्य महादेवि परपुंसि रता सदा । कर्कशा नाम विख्याता दर्दुरो नाम नापितः ॥२॥

एकस्मिन्दिवसे देवि वैश्यो धनसमन्वितः । स्वर्णकोटिं च संगृहं निकटे तस्य चागतः ॥३॥

नापितेन ततो देवि वैश्यो धनसमन्वितः । अर्द्धरात्रे गते काले ततः खङ्रेनन वै हतः ॥४॥

द्रव्यं सर्वं गृहीत्वा तु पुरीं च ततस्त्यजन् ‌ । सर्वं स्वर्णं व्ययं कृत्वा न दानं च कृतं क्वचित् ‌ ॥५॥

एकदा समये देवि नापितेन सह स्त्रिया । प्रयागे मकरे मासि मासमेकं निरन्तरम् ‌ ॥६॥

प्रत्यहं क्रियते स्त्रानं भार्यया सहितेन वै । गोदानं च कृतं तेन वृषभं स्वर्णभूषितम् ‌ ॥७॥

ततो वै मरणं तस्य नापितस्य सुरेश्वरि । निर्जले तस्य वै देशे चोपले पथि मध्यगे ॥८॥

यमदूतैर्महादेवि नरके नाम कर्दमे । क्षिप्तो यमाज्ञया वर्षसहस्त्रं षष्टिसंमितम् ‌ ॥९॥

नरकान्निर्गतो देवि व्याघ्रयोनिस्ततोऽभवत् ‌ । पुनर्महिषयोनिं च मानुषत्वं ततो गतः ॥१०॥

ऋक्षे पुनर्वसौ देवि तृतीयचरणे वरे । प्रातःस्त्रानफलं देवि नृपंवशे समुद्भवः ॥११॥

मध्यदेशे वरारोहे सरय्वा उत्तरे तटे । महाधनेन संयुक्तश्चौराणां कर्मकारकः ॥१२॥

पत्नी तस्याभवद्‌वन्ध्या मृतवत्सा सुतायुता । कफरोगसमायुक्ता ज्वरेणैव प्रपीडिता ॥१३॥

मित्रस्यैव वधः पूर्वं नापितेन यतः कृतः । तेन कर्मफलेनैव महारोगसमुद्भवः ॥१४॥

पुत्रोऽपि जायते देवि तस्य मृत्युरभूत्किल । शान्तिं तस्य प्रवक्ष्यामि श्रृणु देवि समासतः ॥१५॥

गायत्रीमूलमंत्रेण पश्चलक्षजपं यदा । तदा पापं क्षयं याति पूर्वजन्मनि यत्कृतम् ‌ ॥१६॥

श्रवणं हरिवंशस्य चण्डीपाठं शिवार्चनम् ‌ । विधिवद्देवि कर्तव्यं पापं सर्वं विनश्यति ॥१७॥

चतुरस्त्रे ततः कुण्डे होमं चैव तु कारयेत् ‌ । तिलधान्यादिभिर्देवि दशांशजपसंख्यया ॥१८॥

वैश्यस्य प्रतिमां देवि कारयेद्वै सुवर्णतः । पश्चविंशपलेनैव रचितां च प्रयत्नतः ॥१९॥

ताम्रपात्रे शुभे स्थाप्य पूजयेत्प्रतिमां ततः । मन्त्रेणानेन भो देवि गंधपुष्याक्षतादिभिः ॥२०॥

ॐ नमस्ते देवदेवेश शंखचक्रगदाधर । अज्ञानाद्वा प्रमादाद्वा मया पापं कृतं पुरा । तत्सर्वं क्षम्यतां देव शरणागतवत्सल ॥२१॥

ॐ चक्रधराय नमः । ॐ गोविंदाय्य नमः ॥ ॐ दामोदराय नमः । ॐ कृष्णाय नमः ॥ ॐ हंसाय नमः ॥ ॐ परमहंसाय नमः । ॐ अच्युताय नमः ॥ ॐ ह्रषीकेशाय नमः । चक्रधरादिभिर्नाम्रा सर्वदिक्षु प्रपूजयेत् ‌ । प्रतिमां पूजयित्वा तु तां विप्राय प्रदापयेत् ‌ ॥२२॥

ततो गां कृष्णवर्णां तु ब्राह्मणाय प्रदापयेत् ‌ । पश्वसंख्यामितां देवि प्रदद्यात्सुकुलाय च ॥२३॥

ब्राह्मणन्भोजयेद्देवि यथासंख्यं वरानने । एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । वन्ध्यात्वं नाशयत्याशु सर्वरोगो विनाश्यति ॥२४॥

इति कर्मविपाकसंहितायां त्रिंशोऽध्यायः ॥३०॥

अथैकत्रिंशोऽध्यायः ३१

ईश्वर उवाच ॥

अवन्त्याः पश्चिमे देवि क्रोशमात्रोपरि प्रिये । कैवर्तको वस्त्येको नन्दने च पुरे शुभे ॥१॥

मनोहर इति ख्यातो धनाढयो जायते महान् ‌ । मत्ता तस्याभवत्पत्नी पतिशुश्रूषणे रता ॥२॥

मत्स्यमांसस्य भो देवि विक्रयं चाकरोत्खलु । संचितं बहु रत्नं च न दानं बहुधा करोत् ‌ ॥३॥

एकदा चन्द्रग्रहणे शतस्वर्णयुतं वृषम् ‌ । अदाद्विप्राय विदुषे भार्यया सह भक्तितः ॥४॥

ततो मृत्युवशं यातो भार्या तस्य मृता पुरा । यमदूतैर्महाघोरे नरके पातितः पुरा ॥५॥

यमाज्ञया महादेवि षष्टिवर्षसहस्त्रकम ‌ । नरकान्निः सृतो देवि श्रृगालो गहने वने ॥६॥

पुनः काको वरारोहे ततो भवति मानुषः । गुणज्ञोदेवताभक्तो वेश्यासुरततत्परः ॥७॥

रागी सूक्ष्मतनुर्वक्ता ज्ञानवान् ‌ सुतवर्जितः । तस्य भार्याऽभवत्स्थूला प्रियवाक्च सदाज्वरा ॥८॥

पूर्वजन्मप्रसङ्राच्च मत्स्यमांसोपाभोगिनी । मासि पुष्पं भवेद्देवि गर्भस्य पतनं तथा ॥९॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । यत्कृतेन वरारोहे शीघ्रं पुत्रमवाप्रुयात् ‌ ॥१०॥

हरिवंशस्य श्रवणं वारत्रयं विधानतः । गायत्रीमूलमंत्रेण पंचलक्षजपं तथा ॥११॥

दशांशं हवनं देवि दशांशं चैव तर्पणम् ‌ । मार्जनं च विशेषेण द्शांशं चैव कारयेत् ‌ ॥१२॥

ततो गां कपिलं दद्यादशवर्णां ततः प्रिये । सूर्यस्या प्रतिमां देवि हेम्रो दशपलस्य च ॥१३॥

भूषितां विविधैर्वस्त्रैः स्वर्णरौप्यविभूषणैः । पूजयित्वा विधानेन मंत्रेणानेन पार्वति ॥१४॥

ॐ त्वं ज्योतिः सर्वलोकानां पूज्यस्त्वं सर्वदेहिनाम् ‌ । पूर्वजन्मकृतं पापं हर में तिमिरापह ॥१५॥

ॐ सूर्याय नमः ॥ ॐ सवित्रे नमः ॥ ॐ साक्षिणे नमः ॥ ॐ त्रिगुणात्मधारिणे नमः ॥ ॐ द्वाद्शकलात्मने नमः ॥ ॐ केयूरधारिणे नमः ॥ ॐ तीक्ष्णांशुधारिणे नमः ॥ ॐ कलाकाष्ठादिरूपिणे नमः ॥ ॐ विष्णवे नमः ॥ ॐ ब्रह्मणे नमः ॥ ॐ रुद्राय नमः ॥ ॐ मार्त्तण्डाय नमः । मंत्रैर्द्वादशभिर्देवि पूजयेत्प्रतिमां ततः ॥ धूपदीपादिभिर्देवि ताम्बूलैश्च निवेदनैः ॥१६॥

पूजितां प्रतिमां दद्याद्‌ब्राह्मणाय वराय च । दासीं दासं धन धान्यं ब्राह्मणाय प्रदापयेत् ‌ ॥१७॥

अश्वदानं रथं वस्त्रं पात्राणि विविधानि च । शय्यादिकं वरारोहे वित्तशाठयं न कारयेत् ‌ ॥१८॥

एवं कृते न संदेहश्चिरजीविसुतं लभेत् ‌ । पूर्वजन्मकृतं पापं क्षयं याति न चान्यथा ॥१९॥

सप्तमी रविसंयुक्ता व्रतं कुयात्सुरेश्वरि । पापव्यधिः क्षयं याति ज्वरः क्वापि न जायते ॥२०॥

इति कर्मविपाकसंहितायां एकत्रिंशोऽध्यायः ॥३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:30:24.9730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कोडबळें

  • न. भाजणीच्या पिठाचें तेलांचे तळून वर्तुळाकार केलेलें खाद्य . ( का . कोड = शिंग + बळळी = वेली ?) 
RANDOM WORD

Did you know?

'डांबिस' हा शब्द मराठी कि कुठल्या भाषेतून आलाय ? त्याचा अर्थ किंवा उगम कोणता?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.