TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - अनुराधा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अनुराधा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथाष्टषष्टितमोऽध्यायः ६८

शिव उवाच ॥

कल्याणनगरे देवि मायापुर्याः समीपतः । एको वणिग्जनोऽप्यासीद्धनाढयो धनगर्वितः ॥१॥

क्रयं च कुरुते नित्यं विक्रयं च सदाऽकरोत् ‌ । महालोभवशाद्देवि न दानं कुरुते क्वचित् ‌ ॥२॥

तस्य भार्या विशालाक्षि पुंश्चली कुलटाऽधमा । पुत्रद्वयं वरारोहे पुंश्चल्यां समभूत्तदा ॥३॥

एको द्यूतरतः पुत्रो द्वितीयो ब्राह्मणीरतः । वैश्येनैव विशालाक्षि धनं च बहु सश्चितम् ‌ ॥४॥

प्रत्यहं भुज्ये छागविक्रयं कुरुते सदा । वृद्धे सति महादेवि वैश्यस्य मरणं ह्यभूत् ‌ ॥५॥

यमदूतैस्तदा बद्ध्वा निक्षिप्तो नरकार्णवे । स्वरूपं दर्शयामास तस्मै वैश्यायय भो शिवे ॥६॥

नवत्यब्दसहस्त्राणि घोरे नरकदारुणे । महाकष्टं तदा प्राप्तः कृमिभिर्घोररूपिभिः ॥७॥

ततो व्याघ्रस्य वै योनिं काककुक्कुटयोः पुनः । मानुषत्वं पुनर्यातः पुत्रकन्याविवर्जितः ॥८॥

पुनर्विवाहिता सा तु या पत्नी पूर्वजन्मनि । रोगवत्यभवत्सोग्रा मृतवत्सा पुनः पुनः ॥९॥

एकापत्या तदा जाता पुनः पुत्रो न जायते ॥१०॥

यदा सर्वस्वदानं वै सूर्यस्याराधनं यदा । हरिवंशश्रवणं देवि दुर्गास्तोत्रजपस्तथा ॥११॥

गायत्रीमूलमन्त्रेण लक्षजाप्यं यदा भवेत् ‌ । तदा पुत्रो भवेद्देवि व्याधिनाशश्च जायते ॥१२॥

इति कर्मविपाकसंहितायां अष्टषष्टितमोऽध्यायः ॥६८॥

अथैकोनसप्ततितमोऽध्यायः ६९

शिव उवाच ।

मागधे वै शुभे देशे काष्ठकारोऽवसत्प्रिये । पुत्रपौत्रसमायुक्तो धनाढयो गुणवानपि ॥१॥

यदा चार्धं वयो जातं दरिद्रत्वं तदाऽभवत् ‌ । गृहीतं च यतेर्द्रव्यं शतं पंचपलं तथा ॥२॥

व्ययं कृत्वा तदा तेन न दत्तं यतये शिवे । ततस्तस्या भवन्मृत्युः काष्ठकारस्य मागधे ॥३॥

ददौ वै कपिलां कृष्णां स्वर्णरौप्यविभूषिताम् ‌ । पुत्रेणापि कृतं श्राद्धं शास्त्ररीत्या गयादिकम् ‌ ॥४॥

यक्षलोके तदा यातो वर्षं शतसहस्त्रकम् ‌ । पुनः पुण्यक्षये जाते कपियोनिं ततोऽलभत् ‌ ॥५॥

ऋक्षस्यैव पुनर्योनिं मानुषत्वं ततोऽगमत् ‌ । धनधान्यसमायुक्तो गुणज्ञोऽप्यतिसुन्दरः ॥६॥

पूर्वजन्मनि भो देवि काष्ठच्छेदः कृतः सदा । तेन पापेन भो देवि शरीरे महती व्यथा ॥७॥

यतेर्द्रव्यं गृहीतं च न दत्तं यतये यतः । तेन जातः सुतो देवि ऋणसम्बन्धकारणात् ‌ ॥८॥

द्यूतवेश्यारतो नित्यं पितृमात्रोर्विरोधकृत् ‌ । युवरूपो यदा जातस्तदा मृत्युश्च जायते ॥९॥

पुनः पुत्रस्य संदेहः काकवन्ध्यात्वमाप्रुयात् ‌ । पत्नी तस्य वरारोहे मृतवत्सा पुनः पुनः ॥१०॥

अस्य्य शान्तिमहं वक्ष्ये श्रृणु देवि प्रयत्नतः । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ ॥११॥

सूर्यमन्त्रस्य वै जाप्यं वैदिकस्य वरानने । आकृष्णेति महामंत्रः सर्वव्याधिविनाशनः ॥१२॥

सर्वकामप्रदो देवि मोक्षदो भुक्तिकारणम् ‌ ॥१३॥

सूर्यदेवस्य यो भक्तिं कुरुते नियतो नरः । न किंचिद्‌दुर्लभं तस्य पुत्रतो धनतोऽपि वा ॥१४॥

ममातीव प्रियो नित्यं सूर्यदेव उपासिते । मद्‌गणास्तं हि रक्षन्ति यतो मम कला रविः ॥१५॥

कमलं सूज्ज्वलं देवि वंशपात्रं सुशोभनम ‌ । तस्योपरि सुवर्णस्य सूर्यं रत्नविभूषितम् ‌ । पलपंचमितं देवि मंत्रेणानेन पूजयेत् ‌ ॥१६॥

ॐ नमः सूर्याय देवाय भद्राय भद्ररूपिणे । पूर्वजन्म कृतं सर्वं मम पापं व्यपोहय ॥१७॥

प्रतिमां पात्रसंयुक्तां ब्राह्मणाय च दापयेत् ‌ ॥१८॥

ततो गां कपिलं शुभ्रां सवत्सां स्वर्णभूषिताम् ‌ । ब्राह्मणाय ततो दद्यात्पट्टवस्त्रेण वेष्टिताम ‌ ॥१९॥

रविसप्तमीव्रतं कुर्यात्पत्न्या सह वरानने । पूर्वजन्मकृतं पाप नश्यत्येवं कृते प्रिये ॥२०॥

रोगाः सर्वे क्षयं यान्ति पुत्रलाभो भवेद ‌ ध्रुवम ‌ । काकवंध्या लभेत् ‌ पुत्रं मृतवत्सा चा पुत्रिणी ॥२१॥

इति कर्मविपाकसंहितायां एकोनसप्ततितमोऽध्यायः ॥६९॥

अथ सप्ततितमोऽध्यायः ७०

शिव उवाच ॥

सौराष्ट्रदेशे विख्यातं सुकर्माख्यं पुरं महत् ‌ । तत्र तिष्ठति वै विप्रो ब्रह्मकर्मविवर्जितः ॥१॥

विक्रयं कुरुते नित्यं गजवाजिरथादिकम् ‌ । राजमृत्युं समासाद्य ग्रामदाहस्तथा कृताः ॥२॥

ब्राह्मणा बहवणस्तत्र ब्राह्मण्यश्च तथा शिवे । मृता ग्रामस्य वै दाहे बह्वयो गावो मृताः खलु ॥३॥

ततो बहुतिथे काले मृतः सोऽपि द्विजाधमः । ततस्तु यमदूतेन नरके घोरकर्दमे ॥४॥

यमाज्ञया च निक्षिप्तः कष्टं भुक्तं मुहुर्मुहुः । नरकान्निर्गतो देवि गजयोनिं ततोऽलभत् ‌ ॥५॥

कच्छपत्वं ततो यातः काकयोनिस्ततोऽभवत् ‌ । मानुषत्वं ततो यातः कुले महति शोभने ॥६॥

सर्वसम्पत्तिसंयुक्तो वंशस्तस्य न जायते । बहुकन्यासमायुक्तो रोगयुक्तो भवेन्नरः ॥७॥

भार्या तस्य ज्वरग्रस्ता मासे वर्षे भवेज्वरः । अतः शान्तिं प्रवक्ष्यामि यतः खलु सुखी भवेत् ‌ ॥८॥

चतुर्भागं गृहद्रव्यं ब्राह्मणाय समर्पयेत् ‌ । प्रयागे मकरे मासि पत्न्या सह वरानने ॥९॥

स्त्रानं तु नियतः कुयात्सप्ताहं च ततः शिवे । हेमदानं ततः कुर्याद् ‌ भूमिदानं च पार्वति ॥१०॥

गायत्रीजातवेदोम्यां त्र्यम्बकेण तदा जपेत् ‌ । दशायुतप्रमाणेन हवनं मार्जनं तथा ॥११॥

ब्राह्मणान्भोजयेद्भक्त्या पक्वान्नैः पायसेन च । विप्रेम्यो दक्षिणां दद्याद्वस्त्ररत्नविभूषिताम ‌ ॥१२॥

द्शवर्णां ततो दद्याद्धरिवंशश्रवणं ततः । एवं कृते वरारोहे शीघ्रं पुत्रमवाप्नुयात् ‌ ॥१३॥

काकवन्ध्या लभेत्पुत्रं पुनर्देवि न संशयः । रोगाः सर्वे क्षयं यान्ति मृतवत्सा लभेत्सुतम ‌ ॥१४॥

इति कर्मविपाकसंहितायां सप्ततितमोऽध्यायः ॥७०॥

अथैकसप्ततितमोऽध्यायः ७१

शिव उवाच । वन्दी जनो वसत्येकः सौराष्ट्रविषये शुभे । स कविर्भाग्यवान्देवि स्वधर्मनिरतः सदा ॥१॥

तस्य स्त्री सुन्दरी देवि पतिसेवासु तत्परा ॥२॥

एकस्मिन्दिवसे देवि ब्रह्मचारी समागतः । आतिथ्यकरणे तस्य चासमर्थस्तदा शिवे ॥३॥

उपोषणं कृतं तेन द्वारे वन्दिजनस्य च । प्रभाते स वरारोहे शापं दत्त्वा गतस्तु वै ॥४॥

ततस्तु दैवयोगेन मार्जारी तत्र सूतिका । पंच पुत्रा वरारोहे घातितास्तेन भामिनि ॥ मार्जारी च तदा देवि क्षुधार्ता च तदा तथा ॥५॥

ततो बहुतिथे काले तस्य मृत्युरभूत्पुरा । पत्नी पतिव्रता तस्य सती जाता च तत्क्षणात् ‌ ॥६॥

सत्यलोके वरारोह्हे युगमेकमुवास सः । पत्न्या सह वरारोहे सौख्यं हि मनसेप्सितम ‌ ॥७॥

भुक्तं देवाङ्रनासार्द्धं पुनः पुण्यक्षये सति । मानुषत्वं ततो लेभे सह पत्न्या वरानने ॥८॥

धनधान्यसमायुक्तो वरा भार्या विवाहिता । पुत्राश्व बहवो जातास्तेषां मृत्युरभूत्किल ॥९॥

सा ज्वरेण समाविग्ना मध्ये तापयुता पुनः । तस्य पापस्य वै शान्तिं श्रृणु त्वं गिरिजे वरे ॥१०॥

जातवेदसमंत्रेण लक्षजाप्यं च कारयेत् ‌ । विडालप्रतिमां कृत्वा पश्चबालैश्च संयुताम् ‌ ॥११॥

हेम्रा रौप्यस्य वा देवि पलपश्चदशस्य तु । सवस्त्राम वै तदा दद्याद्‌ब्राह्मणाया वरानने ॥१२॥

गामेकां रक्तवर्णां च तां विप्राय प्रदापयेत् ‌ । अमायां पिण्डदानं च सोमवारे तथा गुरौ ॥ व्रतं च रविसप्तम्यां कर्तव्यं भार्यया सह ॥१३॥

ततः पुत्रो भवेद्देवि चिरंजीवी तथोत्तमः । व्याधिनाशो भवेद्देवि वन्ध्यात्वं च प्रशाम्यति ॥१४॥

इति कर्मविपाकसंहितायां एकसप्ततितमोऽध्यायः ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:44:31.4930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

parametric programming

  • प्राचली प्रयोजन 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.