TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - विशाखा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


विशाखा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ चतुःषष्टितमोऽध्यायः ६४

शिव उवाच ॥

कांपिल्यनगरे देवि क्षत्री वसति वै पुरा । क्षत्रधर्मविहीनश्च वैश्यकर्मरतः सदा ॥१॥

वैश्यस्य कर्मणा नित्यं कुर्वन्दिनेदिने । तिलवर्मेति विख्यातः पत्नी तस्य च निष्ठुरा ॥२॥

बहु द्र्व्यं तदा तेन संचितं तिलवर्मणा । महालोभेन संयुक्तो धर्मचर्चा न कुत्रचित् ‌ ॥३॥

पत्नीपुत्रैः कठोरत्वाद्दत्तं तस्मै न दीयते । एवं बहुतिथे काले मरणं सर्पतस्तदा ॥४॥

कुम्भीपाके महाघोरे यमदूतैस्तदा शिवे । निक्षिप्तः श्रृंखलैर्बद्धवा महती यातना ततः ॥५॥

युगमेकं वरारोहे कष्टं भुक्त्वा सुदारुणम् ‌ । ततोऽभुत्स ततो देवि महिषो वृषभो हयः ॥६॥

पुनश्च मानुषो भूत्वा तस्य भार्या च या पुरा । विवाहिता च सा देवि तस्यां पुत्रो न जायते ॥७॥

पुरा ह्येकाऽभवत्कन्या पुनः सूतिविवर्जिता । रोगो भवति देहे च मध्येमध्ये ज्वरोऽभवत ‌ ॥८॥

अस्य शांतिं प्रवक्ष्यामि श्रृणु देवि वरानने ॥९॥

कल्पवृक्षवरं कुर्यात्स्वांगुष्ठपरिमाणकम् ‌ । सुवर्णस्य महादेवि पलपश्चदशस्य तु ॥१०॥

रौप्यस्य तु कृता वेदी पलपश्चदशस्य तु । तत्र वृक्षं समारोप्य फलपुष्पेण संयुतम् ‌ ॥११॥

अष्टम्यां च चतुर्दश्यां नवम्यां च सुरेश्वरि । तस्य वृक्षस्य वै मूले वृषकेतुं सुरेश्वरि ॥ सगणं देवमीशानमर्चयित्वा यथाविधि ॥१२॥

यथाशक्ति वरारोहे गन्धधूपादिभिस्तथा । साष्टाङ्रं दण्डवत्कृत्वा देवदेवं क्षमापयेत् ‌ ॥१३॥

मंत्रेणानेन भो देवि विसर्जनमथाचरेत् ‌ ॥ नमः शिवाय देवाय शिवायै सततं नमः ॥१४॥

मम पूर्वकृतं पापं जन्मजन्मसमुद्भवम ‌ । तत्सर्वं क्षम्यतां देव देव्या सह महेश्वर ॥१५॥

ततो वै पूजयेद्विप्रं वेदब्रह्मस्वरूपिणम् ‌ । पट्टवस्त्रद्यलंकारैर्विविधैर्मोदकैरपि ॥१६॥

ततो वृक्षं सवेदिं च कपिलां गां सवत्सकाम ‌ । ब्राह्मणाय ततो दद्यात्पूर्वपापविशुद्धये ॥१७॥

व्रतं मम महादेवि शिवरात्रिं विशेषतः । आजन्ममरणाद्देवि व्रतं कुर्यात्प्रयत्नतः ॥१८॥

एवं कृते महादेवि शीघ्रं पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति वन्ध्या च लभते सुतम् ‌ । मृतवत्सां लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ ॥१९॥

इति कर्मविपाकसंहितायां चतुःषष्टितमोऽध्यायः ॥६४॥

अथ पश्चषष्टितमोऽध्यायः ६५

शिव उवाच ॥

विष्णुकांच्यां महादेवि ब्राह्मणो वेदपारगः । सदाचाररतः शान्तो विष्णुभक्तिपरायणः ॥१॥

लाञ्छितो विष्णुचक्रेण स विप्रो वै वरानने । न वेदः पाठयते तेन न विप्रं स्पृशते क्वचित् ‌ ॥२॥

द्विजानां स्मार्त्तवृत्तीनाम विद्वेषं च करोति सः । शिवभक्तिरतानां च नाभिवादनमाचरेत् ‌ ॥३॥

एवं वयो गतं देवि वृद्धे जाते वरानने । मरणं तस्य वै जातं ब्राह्मणस्य वरानने ॥४॥

यमदूतैर्महाघोरे नरके पातितस्तदा । रौरवे च तदा देवि षष्टिवर्षसहस्त्रकम् ‌ ॥५॥

भुक्त्वा नरककष्टं च पुनर्जातः सरीसृपः । मानुषत्वं पुनर्जातं कष्टानि विविधानि च ॥६॥

पुत्रस्य मरणं कान्ते प्रतिवर्षेऽभवत्सुतः । पुनः स्त्री काकवन्ध्याऽभुत्पूर्वजन्मप्रसङ्रतः ॥७॥

धनधान्यसमायुक्तो मानुषं लभ्यते क्वचित् ‌ ॥८॥

अथ वक्ष्ये महादेवि पूर्वपापस्य निष्कृतिम् ‌ । अष्टांशं यद् ‌ गृहे देवि ब्राह्मणाय समर्पयेत् ‌ ॥९॥

गायत्रीजातवेदोम्यां दशायुतजपं ततः । कूष्माण्डं नारिकेलं च पश्चरत्नसमन्विम ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥१०॥

निष्कत्रयसुवर्णस्य कमलं निर्मितं शुभम् ‌ । दद्याद्वेविदे देवि ब्राह्मणाय शुभार्थिने ॥११॥

एवं कृते भवेद्देवि पूर्वपापविशुद्धता । पुत्रं चैव लभेद्देवि चिरञ्जीविनमुत्तमम ‌ ॥१२॥

व्याधयः प्रशमं यान्ति ज्वराः सर्वे तथाविधाः । काकवन्ध्या लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ ॥१३॥

इति कर्मविपाकसंहितायां पश्चषष्टितमोऽध्यायः ॥६५॥

अथ षट्‌‍षष्टितमोऽध्यायः ६६

शिव उवाच ॥

विदर्भनगरे देवि क्षत्री ह्येकोऽवसत्पुरा । तेजः शर्मेति विख्यातो द्विजानां वृत्तिहारकः ॥१॥

प्रजानां दुःखदो नित्यं वेदानां चैव निन्दकः । तस्य त्रासवशात्सर्वाः प्रजा ग्रामात्पलायिताः ॥२॥

एवं बहुगते काले तस्य मृत्युरभूत्किल । यमदूतैर्महाघोरे निक्षिप्तो नरके ततः ॥३॥

द्विसप्ततिसहस्त्राणि घोरे नरककर्दमे । भुक्तं नरककष्टं च सूचीमुखव्यथावृतम् ‌ ॥४॥

नरकान्निर्गतो देवि गर्दभत्वं ततोऽभवत् ‌ । रासभानन्तरं देवि मानुषत्वं ततोऽभवत् ‌ ॥५॥

तस्य भार्याऽभवद्वन्ध्या पूर्वजन्मफलाद्यतः । तस्य गात्रेऽभवद्रोगो दद्रुरर्शादयस्तथा ॥६॥

न सुखं लभते देवि चिन्तया व्याकुलेन्द्रियः । श्रृणु सर्वं वरारोहे पूर्व पापस्य निग्रहम् ‌ ॥७॥

दशांशं यद ‌ गृहे देवि ब्राह्मणाय समर्पयेत ‌ । वापीकूपतडागादि पथिमध्ये च कारयेत् ‌ ॥८॥

गृहदानं ततो देवि सर्ववस्तुसमन्वितम ‌ । प्रदद्याद्वेदविदुषे ब्राह्मणाय वरायच ॥९॥

आकृष्णेति जपं देवि लक्षमेकं च कारयेत् ‌ । होमं च कारयेद्देवि तिलाज्यमधुतण्डुलैः ॥१०॥

ततो गां कपिलां देवि ब्राह्मणाय प्रपूजिताम् ‌ । प्रदद्याद्विधिववच्चैव सर्वालङ्रारभूषिताम ‌ ॥११॥

सुवर्णं निष्कमात्रं तु ब्राह्मणाय ततो ददेत् ‌ । एवं कृते वरारोहे रोगनाशो भवेद् ‌ ध्रुवम् ‌ ॥१२॥

पुत्रश्च जायते देवि वन्ध्यात्वं च प्रशाम्यति । काकवन्ध्या लभेत्पुत्रं नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां षट्‌‍षष्टितमोऽध्यायः ॥६६॥

अथ सप्तषष्टितमोऽध्यायः ६७

शिव उवाच ॥

मायापुर्यां महादेवि क्षत्री ह्येकस्तु तिष्ठति । स शूरश्च धनी मानी देवतातिथिपूजनः ॥१॥

तस्य भार्या विशालाक्षि शतानाम्री वराङ्रना । ब्राह्मणातिथिदेवानां पूजने चापि तत्परा ॥२॥

एकस्मिन्समये देवि हेमकारस्तदाऽऽगतः । स चाढयः स्वर्णसंयुक्तो हेमकारस्तदाऽवसत् ‌ ॥३॥

क्षत्रियाय स्वमित्राय शतं स्वर्णस्य वै पलम् ‌ । प्रदत्तं हेमकारेण चान्यत् ‌ स्वर्णं समर्पितम् ‌ ॥४॥

अत्रान्तरे महादेवि स्वर्णकारस्ततो मृतः । दष्टः सर्पेण तीव्रेण स्वर्णकारो ह्यपुत्रकः ॥५॥

स्वर्णं सर्वं सर्वं गृहीत्वा तु प्रभुक्तं क्षत्रियेण तत् ‌ । पुत्रदारेषु संयुक्तं किश्चिद्दाने न कल्पितम् ‌ ॥६॥

ततो बहुगते काले तस्य मृत्युरभूत्किल । क्षत्रियस्य महादेवि सुरलोकस्ततोऽभवत् ‌ ॥७॥

सौख्यं सुराङ्रनासार्धं षष्टिवर्षप्रमाणकम ‌ । ततः पुण्यक्षये जाते मर्त्यो भवति भामिनि ॥८॥

धनधान्यसमायुक्तो भार्या भवति या पुरा ॥९॥

गर्भश्च जायते देवि तद् ‌ गर्भपतनं भवेत् ‌ । रोगमुग्रं लभेद्देवि न सुखं जायते खलु ॥१०॥

शान्तिं श्रृणु वरारोहे यतः पापक्षयो भवेत् ‌ । षडंशं च ततो देवि ब्राह्मणाय समर्पयेत् ‌ ॥११॥

दशवर्णां श्रोत्रियाय दद्याद्विप्राय मत्प्रिये । गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् ‌ ॥१२॥

पक्वान्नेनैव भो देवि ब्राह्मणान्भोजयेच्छतम ‌ ॥१३॥

वृक्षं स्वर्णस्य वै देवि फलपुष्पसमन्वितम ‌ । दद्याद्विप्राय विदुषे पलदशप्रमाणकम् ‌ ॥१४॥

सूर्यस्य पूजनं देवि रविवारे विशेषतः । एवं कृते वरारोहे शीघ्रं पुत्रश्च जायते ॥१५॥

ज्वरस्य वै भवेन्मुक्तिः काकवन्ध्या सुतं लभेत् ‌ । मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम् ‌ ॥१६॥

इति कर्मविपाकसंहितायां सप्तषष्टितमोऽध्यायः ॥६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:43:15.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

alienable

  • Law अन्यसंक्राम्य 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site