TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - चित्रा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


चित्रा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ षट् ‍ पञ्चाशत्तमोऽध्यायः ५६

श्री शिव उवाच ।

गयापुर्यां महादेवि क्षत्री ह्येकोऽवसत् ‌ पुरा । कुकर्मणि रतो नित्यं धनाढयः कृपणः शठः ॥१॥

स्त्र्यभवच्चश्चला तस्य द्वौ पुत्रौ च वरानने । कन्या चैका विशालाक्षि जाता तस्यां वरानने । उद्वाहिता तदा देवि कन्यका व्यभिचारिणी ॥२॥

महिषीपुत्रघातं च प्रत्यब्दं चैव कारयेत् ‌ । अनेनैव प्रकारेण वयः सर्वं क्षयं गतम् ‌ ॥३॥

ततः सर्पेण वै दष्टस्तस्य मृत्युरभूत्तदा । यमदूतैर्महाघोरे निक्षिप्तो नरकार्णवे ॥४॥

त्रिसप्ततिसहस्त्राणि वर्षाणि च वरानने । भुक्त्वा कष्टं विशालाक्षि गर्भत्वं च ततो गतः ॥५॥

मध्यदेशे विशालाक्षि नरजन्मा च क्षत्रियाः । पुत्रो न न जायते देवि पूर्वजन्मविदोषतः ॥६॥

कन्यका रजसा युक्ता विधवा जायते प्रिये । महिषीपुत्रघाती च रोगोत्पत्तिश्च जायते ॥७॥

अस्य पापस्य शांत्यर्थं पुण्यं श्रृणु वरानने । स्ववित्तस्याष्टमं भागं ब्राह्मणाय ददेत्ततः ॥८॥

एकां कृष्णां च गां देवि स्वर्णश्रृङ्रीं सवत्सकाम ‌ । सर्वलक्षणसम्पन्नां वस्त्रमुक्तादिभूषिताम् ‌ ॥९॥

ब्राह्मणाय तदा दद्याच्छ्य्यादानं विशेषतः ॥१०॥

गायत्रीजातवेदोभ्यामयुतं जपमाचरेत् ‌ । हवनं तद्दशांशेन तर्पणं मार्जनं ततः ॥११॥

पथिमध्ये वरारोहे पंचवृक्षस्य वाटिकाम ‌ । कारयेद्वै भवेनैव विष्णुवृक्षादिभिर्वृताम ‌ ॥१२॥

भोजयेद्देवि षट्‌षटिं ब्राह्मणान् ‌ वेदपारगान् ‌ । निष्कत्रयसुवर्णस्य प्रतिमां वस्त्रभूषिताम् ‌ ॥१३॥

ब्राह्मणाय ततो दद्याद्विष्णुपादेन संयुताम् ‌ । एवं कृते विशालाक्षि पूर्वजन्मकृतं च यत् ‌ ॥१४॥

पापं प्रणाशयेद्देवि नात्र कार्या विचाराणा । काकवन्ध्या च या नांरी लभते पुत्रमुत्तमम् ‌ ॥१५॥

पुत्रश्च जायते देवि सुरूपेण समन्वितः । रोगाः सर्वेक्षयं यान्ति नात्र कार्या विचारणा । मृतवत्सा लभेत्पुत्रं चिरंजीविन मुत्तमम् ‌ ॥१६॥

इति कर्मविपाकसंहितायां षट् ‍ पञ्चाशत्तमोऽध्यायः ॥५६॥

अथ सप्तपञ्चाशत्तमोऽध्यायः ५७

शिव उवाच ॥

पुण्येन लभते पुत्रं पुण्येन लभते श्रियम् ‌ । पुण्येन रोगनाशः स्यात्सर्वशास्त्रेषु संमतम ‌ ॥१॥

मध्यदेशे वरारोहे ब्राह्मणो न्यवसत्प्रियेअ । सरय्वा दक्षिणे कूले शोभने कालिकापुरे ॥२॥

शुभे कालीपुरे तत्र द्विजस्तिष्ठति वै शठः । स्त्रेही वेश्यापरस्त्रीणां रतिसंसर्गतत्परः ॥३॥

मद्यपानं विना देवि निद्रा तस्य न जायते । तस्य स्त्री सुमनानाम्री पतिसेवापरायणा ॥४॥

प्रत्यहं पूजयेद्देवि स्वपतिं पापकारिणम् ‌ । ततो बहुगते काले मरणं व्याघ्रतोऽभवत् ‌ ॥५॥

तस्य पत्नी सती जाता सुप्त्वाऽग्नौ च तदाहिता । सत्यलोके ततो देवि कल्पमेकं प्रभुज्यते । पत्या सह वरारोहे ततः पुण्यक्षये सति ॥६॥

मृत्युलोकेऽभवज्जन्म कुले महति पूजिते । धनधान्यसमायुक्तो बाल्यतो रोगवानपि ॥७॥

पुण्यसम्बन्ध्योगेन पूर्वस्त्री या च संस्थिता । पुनर्विवाहिता देवि पुत्रकन्याविवर्जिता ॥८॥

अस्य पापस्य शान्त्यर्थं पुण्यं श्रृणु वरानने । गृहवित्तषडंशस्त्र पुण्यकार्यं च कारयेत् ‌ ॥९॥

गायत्रीमूलमंत्रेण त्रिलक्षं जपमाचरेत् ‌ । हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१०॥

दानं तु दशवर्णाया भूमिदानं विशेषतः गोविन्देति ततो नाम जपेन्नित्यं वरानने ॥११॥

प्रातःस्त्रानं सदा कुर्यान्माघवैशाखकार्त्तिके । कृष्णस्य शतकं देवि भूर्जपत्रेण पुस्तकम् ‌ ॥१२॥

समन्ताद्वयाप्य तस्याग्रे स्थापयेत्स्वगृहं प्रति । हरिवंशश्रवणं देवि एकादश्यां व्रतं चरेत् ‌ ॥१३॥

एवं कृते वरारोहे सर्वरोगक्षयो भवेत् ‌ । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१४॥

इति कर्मविपाकसंहितायां सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

अथाष्टपञ्चाशत्तमोऽध्यायः ५८

श्रीशिव उवाच ॥

अयोध्यापुरतो देवि योजनत्रयदक्षिणे । सुधर्मपुरमाख्यातं वसन्ति बहवो जनाः ॥१॥

तत्र वैश्यो वसत्येकः स्वकर्मनिरतः सदा । धनाढयो रूपसम्पन्नो द्विजसेवासु तत्परः । रतिदासेति विख्यातो विक्रयं कुरुते सदा ॥२॥

दलाक्षीति समाख्याता तस्य पत्नी च स्वैरिणी । पतिं न पूजयेद्देवि रूपगर्ववशात्तथा ॥३॥

गावो महिष्यो बह्वयश्च सन्ति विक्रयकारणात् ‌ ॥४॥

महिषीपुत्रघातश्च प्रत्यहं खलु जायते । छागस्य विक्रयो नित्यं छागानां वध एव च ॥५॥

गोप एको महाप्राज्ञो धनार्थी स्वर्णसंयुतः । तत्र यातो महादेवि वैश्यमित्रं हि बाल्यतः ॥६॥

तस्य गेहे स्थितो गोपो धनधान्यसमन्वितः । वैश्यपत्नी तदा देवि गोपं प्रति सदाऽभजत् ‌ ॥७॥

एवं बहुगते काले तस्य गोपस्य वै मृतिः वैश्यगेहे महादेवि धनं गोपस्य यत्खलु ॥८॥

वैश्येनैव तु तत्सर्वं धनं तस्य व्ययं गतम् ‌ । ततः सर्वं वयो यातं वैश्यमृत्युरभूत्तदा ॥९॥

गङ्रायां च विशालाक्षि पत्नी तस्य तथा मृता । वैश्यस्याभूत्तथा स्वर्गो वर्षषष्टिसहस्त्रकम् ‌ ॥१०॥

वैश्यपत्नी ततो देवि कर्दमे नरके गता । षाष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥११॥

नरकान्निःसृता सा तु सर्पयोनिं तथा गता । सर्पयोनिं ततो भुक्त्वा गङ्रायां मरणं खलु ॥१२॥

शूद्रं प्रति सदा स्त्रेहस्ततः शूद्रा तदाऽभवत् ‌ । वैश्यः स्वर्गकलं भुक्त्वा मानुषत्वं ततोऽगमत् ‌ ॥१३॥

धनधान्यसमायुक्तो रूपवानतिथिप्रियः । गुणी ज्ञानी बहुधनी पुत्रकन्याविवर्जितः ॥१४॥

वैश्यस्य शूद्रजातित्वं पूर्वस्त्रेहफलं यतः । पत्नी सा च समायाता पूर्वसम्बन्धकारणात् ‌ ॥१५॥

यतो द्रव्यं समाभुक्तं सर्वं शूद्रव्य वै शिवे । ततश्चैव समुत्पन्नाः कन्या बह्वयः सुरेश्वरि ॥१६॥

महिषीपुत्रघाताच्चा वायुरोगादयस्तथा ॥१७॥

स्वपतेर्वश्चनं कृत्वा परपुंसि रता यतः । तस्मात् ‌ पुत्रस्य मरणं गर्भपातः पुनः पुनः ॥१८॥

अस्य शान्तिमहं वक्ष्ये श्रृणु देवि वरेऽनघे । गृहवित्तषडंशेन पुण्यं कार्यं च यत्नतः ॥१९॥

वापीकूपतडागादि पथिमध्ये च कारयेत् ‌ । शिवस्य पूजनं चैव शिवभक्तिमहर्निशम ‌ ॥२०॥

नमः शिवाय मन्त्रं च पंचलक्षं च जापयेत् ‌ । जपं करोति वै प्राज्ञो ह्यथवा कारयेत्ततः ॥२१॥

पार्थिवं लक्षसंख्याकं पूजयेच्च यथाविधि । नमः शिवाय मन्त्रस्तु सर्वपापप्रणाशनः । देहान्ते मुक्तिदश्चैव मर्त्यलोके च कामदः ॥२२॥

हवनं कारयेद्देवि कुण्डे चैव प्रपूजयेत् ‌ । चतुरस्त्रे विशालाक्षि तिलधान्यादितण्डुलैः ॥२३॥

ताम्रवर्णां ततो देवि गां दद्याद्विदुषे प्रिये । निष्कमात्रं ततः स्वर्णं ब्राह्मणाय प्रदापयेत् ‌ ॥२४॥

एवं कृते न संदेहो व्याधिनाशो भवेद ‌ ध्रुवम् ‌ । पुत्रश्च जायते देवि पुनर्गर्भो न नश्यति ॥२५॥

काकवन्ध्या पुनः पुत्रं प्रसूयेत न संशयः ॥२६॥

इति कर्मविपाकसंहितायां अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

अथैकोनषष्टितमोऽध्यायः ५९

शिव उवाच ॥

देशे पुण्यतमे देवि प्रतिष्ठानपुरे तथा । ब्राह्मणो वेदविभ्रष्टस्तत्र वासमकारयत् ‌ ॥१॥

सुरामांसस्य वै भोक्ता नित्यं मत्स्यं भुनक्ति सः । द्यूतेनैव विशालाक्षि व्ययं कुर्याद्दिनेदिने ॥२॥

तस्य स्त्री परमानाम्री भ्रष्टा चातीव सुन्दरी । परपुंसि रता नित्यं निर्भया पतिवंचका ॥३॥

एवं सर्वं वयो यातं तयोर्मृत्युरभूत्किल । पुण्यक्षेत्रे च गङ्रायां देवगन्धर्वपूजिते ॥४॥

तस्य विप्रस्य वै स्वर्गः कल्पमेकं वरानने । भुक्त्वा च विविधं सौख्यं दिव्यकन्याभिरावृतः ॥५॥

ततः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि । महाढयकुलसम्पन्ने तस्य जन्माभवत्तदा ॥६॥

पुनः कर्मवशात्तस्य भार्या सा व्यभिचारिणी । पुनर्विवाहिता देवि पुत्रोऽप्यस्यां न जायते ॥७॥

मद्यपानादिकं पापं पूर्वजन्मनि यत्कृतम् ‌ । तत्फलेन महादेवि व्याधिग्रस्तस्ततोऽभवत् ‌ ॥८॥

अथ शान्तिं प्रवक्ष्यामि यतः पापक्षयो भवेत् ‌ । गायत्रीमूलमन्त्रेण लक्षजाप्यं वरानने ॥९॥

हवनं तद्दशांशेन तर्पणं मार्जनं तथा । देवस्याराधनं नित्यं सूर्यस्य्य व्रतमाचरेत् ‌ ॥१०॥

प्रयागे नियतः स्त्रानं माघे मासि यथाविधि । पत्न्या सह विशालाक्षि ततः पापं प्रणश्यति ॥११॥

षडंशं च ततो देवि विप्रेम्यो दानमाचरेत् ‌ । ततो वर्षेण महतीं गांच दद्यात् ‌ पयस्विनीम् ‌ ॥१२॥

भूमिं वृत्तिकरीं दद्यात्पुत्रपौत्रानुजीविनीम् ‌ । एवं कृते न सन्देहो वंशो भवति नान्यथा ॥१३॥

रोगार्त्तो मुच्यते रोगात्काकवन्ध्या सुतं लभेत् ‌ । नष्टगर्भा लभेत्पुत्रं चिरंजीविनमुत्तमम् ‌ ॥१४॥

इति कर्मविपाकसंहितायां एकोनषष्टितमोऽध्यायः ॥५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:40:29.2670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

JIHVĀ(जिह्वा)

  • A servant woman who stole ornaments from the palace. For the detailed story of how she was caught with stolen goods see under Hariśarman. 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.