TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - अश्विनी तक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अश्विनी तक्षत्र में उत्पन्न होने वालों का सामान्य फल

अथ द्वितीयोऽध्यायः २

अश्विनी तक्षत्र में उत्पन्न होने वालों का सामान्य फल

अश्चिन्याः प्रथमे पादे यदा जन्म प्रजायते । तदा ब्राह्मणवर्णोऽयं मध्यदेशसमुद्भवः ॥१॥

द्वितीयचरणे देवि पुरा क्षत्री न चान्यथा । अयोध्यापुरतः पूर्व पुत्रकन्याविवर्जितः ॥२॥

तृतीयचरणे देवि वैश्यवर्णसमुद्भवः । रोगी कुत्सितवर्णोऽयं मृतवत्सो नपुंसकः ॥३॥

चतुर्थचरणे देवि यदा भवति मानवः । तदा शूद्रं विजानीयाद्रोगवान् ‌ मृतवत्सकः ॥ श्यामलः पुष्टदेहश्व कुष्ठरोगेण पीडितः ॥४॥

इत्यश्विनीनक्षत्रसामान्यफलम् ‌ ॥ शिव उवाच ॥ अथ कर्म प्रवक्ष्यामि यत्कृतं ब्राह्मणादिभिः । एको ब्राह्मणवेदजो गुणरूप समन्वितः ॥१॥

तस्य पत्नी विशालाक्षी पुंश्चली क्षत्रवंशजा । तस्यां पुत्रो भवेद्देवि नाम्रा नरहरिस्तदा ॥२॥

ब्रह्मकर्मपरिभ्रष्टो व्याधिभिः पीडितः सदा । तस्य मित्रं द्विजोऽप्येको धनपुत्रैश्च संयुतः ॥३॥

नामतो लग्नशर्मेति निकटे तस्य चागतः । आदरं बहुधा क्रुत्वा स्वर्णं दृष्टा प्रहर्षितः ॥४॥

स्वर्णलोभेन तं विप्रं हतवान् ‌ पुत्रसंयुतम् ‌ । स्वर्णं सर्वं ह्रतं देवि व्ययं कृत्वा दिने दिने ॥५॥

षडंशैर्गुप्तदानं च गंगायमुनसंगमे । चकार तद्धनैर्भक्त्या विष्णुप्रीतिकरं तदा ॥६॥

एवं बहुगते काले पत्नी तस्य मृता पुरा । पश्वात्सोऽपि ग्रहग्रस्तो मृत्युं प्राप्रोति दुर्जनः ॥७॥

निक्षिप्तो नरके घोरे यमदूतैर्यमाज्ञया । युगसप्ततिपर्यन्त भुक्त्वा नरकयातनाम् ‌ ॥८॥

नरकान्निःसृतो देवि श्रृगालो गहने वने । तत्स्थो निजफलं भुक्त्वा कृमियोनाव भूत्पुनः ॥९॥

पुनर्मानुषयोनिः स तूर्णं च प्रथिते कुले । मध्यदेशे शुभे ग्रामे मृतवत्सो ह्यपुत्रकः ॥१०॥

रुग्णो बहुधनाढयश्व गौडो मांसप्रियाः सदा । तस्य भार्या महालुब्धा पुरा लोकमती च या ॥११॥

पुनर्विवाहिता देवि पूर्वजन्मप्रसंगतः । मासि पुष्पं भवेत्तस्यः संतानं नैव वा भवेत् ‌ ॥१२॥

सज्वरा दीर्घनेत्रा सा कुक्षिरोगेण पीडिता । इति श्रुत्वा वचस्तस्य महादेवप्रिया शिवा ॥१३॥

प्रणम्य पार्वतीं देवीं शङ्करं परमेश्वरम् ‌ । उवाच वचनं देवं चराचरगुरुं परम् ‌ ॥१४॥

प्राणिना केवलं कर्म तव मायाविचेष्टितम् ‌ । शुभमेवाऽशुभं चैव कथं जानामि पूर्वजम् ‌ ॥१५॥

तत्सर्वं कृपया देव वद मे परमेश्वर ॥ ईश्वर उवाच ॥ त्रिविधं प्राणिनां कर्म नृणां चैव स्वभावजम् ‌ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ‌ ॥१६॥

अनिष्टं नागलोके च नरके विविधे तथा । इष्टं स्वर्गे फलं देवि मिश्रं मर्त्ये प्रजायते ॥१७॥

रोगतश्चेष्टया देवि ज्ञेयं सर्वं शुभाशुभम् ‌ । राजरोगी भवेद्यस्तु ब्रह्महा पूर्वजन्मनि ॥१८॥

पुत्रकन्याविहीनो यो गोत्रहा गुरुहा भवेत् ‌ । पाण्डुरोगी नरो यस्तु देवपूजनवर्जितः ॥१९॥

कन्यापत्यं भवेद्यस्य वेदनिन्दा कृता तदा । कन्याघाती पक्षिघाती तस्य भार्या न जीवति ॥२०॥

भ्रातृहा यः पुरा देवि स ज्वरेण प्रपीडितः । घण्टावादित्रहारी च कररोगी नरो भवेत् ‌ ॥२१॥

भगिनीनाशनं देवि कृतं यैः पूर्वजन्मनि । तेन पापेन भो देवि ते ज्वरेण प्रपीडिताः ॥२२॥

मित्रद्रोही बालघाती पशुघाती तथैव च । तत्फलेन महादेवि मृतवत्सश्च रोगवान् ‌ ॥२३॥

कायाघाती गर्भपाती धनपुस्तकहारकः । जन्मान्धो जायते देवि नात्र कार्या विचारणा ॥२४॥

वस्त्रहा भूमिहारी च परनिन्दापरस्तथा । तेन पापेन भो देवि दरिद्रो जायते नरः ॥२५॥

गोत्रदारापहारी च दीर्घरोगी भवेन्नरः । महिषीपुत्रघाती च कंपरोगी प्रजायते ॥२६॥

निर्बीजं वृषभं यो वै प्रकरोति नराधमः । षण्ढः संजायते देवि मूत्रकृच्छ्री भवेत्ततः ॥२७॥

मातृहा पितृहा देवि महाकुष्ठी नरो भवेत् ‌ । अगम्यागमनं यस्तु वीरयोषागमं तथा ॥२८॥

करोति योऽधमस्तस्य शरीरं ज्वरपीडितम् ‌ । गोवधी जायते देवि श्वेतकुष्ठी नरः सदा ॥२९॥

कन्यकागमनं यस्तु करोति हठतः पुरा । तेन पापेन भो देवि रोगवान् ‌ धनवर्जितः ॥३०॥

पुष्पगन्धापहारी च मुखे तस्य विगन्धता । घृतहारी भवेत्कुष्ठी तस्माद् ‌ भ्रष्टः कृमिर्भवेत् ‌ ॥३१॥

वृक्षगन्धापहारी च काकः संजायते नरः । वापीकूपापहारी च दद्रुरोगी भवेन्नरः ॥३२॥

देवयात्रापहारी च कण्ठरोगी भवेन्नरः । सारंगगीतघाती च वने दावाग्निदाहकः ॥३३॥

अक्षिरोगी नासिकायां व्रणी कृमिसमाकुलः । तैलहारी भवेत्तैली गुडहारी ज्वरी सदा ॥३४॥

स्वर्णरौप्यापहारी च नरो भवति पुत्रहा । दासदासीहरो यस्तु नरो भवति कर्णरुक् ‌ ॥३५॥

लोहमौल्यापहारी च पाण्डुरोगी भवेन्नरः । दधिदुग्धहरो यस्तु कुक्षिरोगी भवेन्नरः ॥३६॥

मार्गग्राही वस्त्रहारी बाहुरोगी प्रजायते । मयूरकुक्कुटानां च कच्छपानां च बाधकः ॥३७॥

वातरोगी च खञ्जश्व जन्मजन्म नपुंसकः । मद्यपी मांसभोगी च मत्स्यभोजी तथैव च ॥३८॥

तेन पापप्रभावेण चर्मकारो हि जायते । अन्नहा जलहा चैव दन्तरोगी भवेन्नर ॥३९॥

ब्राह्मणस्य गृहंम यस्तु धनधान्यसमन्वितम् ‌ । हरणं तस्य वै कुर्यान्मृगीरोगी भवेन्नरः ॥४०॥

एवं बहुविधो रोगो नराणां चैव जायते । पूर्वकर्मफलं चैव भुज्यते खलु मानवैः ॥४१॥

इति कर्मविपाकसंहितायां द्वितीयोऽध्यायः ॥२॥

अथ तृतीयोऽध्यायः ३

मेषादि राशियों के क्रम से प्रायश्वित्

ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि यत्प्रश्नं भुवि जायते । प्रायाश्चित्तं नराणां च मेषराशिक्रमादनु ॥१॥

ब्राह्मणं स्वर्णलोभेन हत्वा चैव सपुत्रकम् ‌ । स्वर्णं भुक्तं सदारेण तत्पापात् ‌ पुत्रवर्जितः ॥२॥

प्रायश्चितं जपं देवि गायत्री त्र्यम्बकं ततः । पश्चलक्षप्रमाणेन ततः पापात् ‌ प्रमुच्यते ॥३॥

ब्राह्मणस्य सपुत्रस्य प्रतिमां कारयेदुधः । स्वर्णं दशपलस्यैव तां संपूज्य प्रयत्नतः ॥४॥

कुण्डं कृत्वा ततो देवि चतुरत्नं प्रसन्नधीः । प्रतिमां पूजयेच्चैव मन्त्रेणानेन भो प्रिये ॥५॥

ॐ नमो गणाधिपतये गन्धपुष्पादिबलिं समर्पयामि नमः ॥ ॐ इन्द्राय नमः ॥ ॐ अग्नये नमः ॥ ॐ यमाय नमः ॥ ॐ निॠतये नमः ॥ ॐ वरुणाय नमः ॥ ॐ कुबेराय नमः ॥ ॐ कालाय नमः ॥ ॐ शिवाय नमः ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ गरुडवाहनाय नमः ॥ ॐ विष्णवे नमः ॥ ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ पुण्यशीलाय नमः ॥ ॐ सुशीलाय नमः ॥ ॐ सर्वेदेवास्तथा दैत्या ब्रह्मविष्णुमहेश्वराः । मत्पापं तत्पुरा जातं तत्सर्वं क्षम्यतां सदा ॥६॥

इमां पूजां गृहाणैवं मम पुत्रं प्रयच्छतु ॥ अज्ञानाद्वा प्रमादाद्वा यत्कृतं पूर्वजन्मनि ॥७॥

तत्सर्वं क्षम्यतां देव प्रयच्छ शरणं मम । ततो नवग्रहाः सर्वे दिक्पालाश्चाप्युपग्रहाः ॥८॥

सर्वे ममापराधान् ‌ वै क्षम्यतां पूर्वजन्मनः । एवं सर्वं यथान्यायं पूजां कृत्वा विचारतः ॥९॥

ततो होमं प्रकुर्वीत तिलधान्यादितन्दुलैः । दशांशं होमयेद्देवि तर्पणं मार्जनं तथा ॥१०॥

गोदानं च ततः कुर्यात् ‌ दशवर्णं विशेषतः ॥ वृषमेकं प्रदातव्यं स्वर्णश्रृङ्गं सहाम्बरम् ‌ ॥११॥

ततो वै ब्राह्मणान्देवि भोजयेद्विधिपूर्वकम् ‌ । भोजनान्ते ततो दानं सुवर्णं दक्षिणां ततः ॥१२॥

प्रतिमाऽलंकृता देवि वाचकाय प्रदापयेत् ‌ । एवं कृते महादेवि वंशो भवति नान्यथा ॥१३॥

एकादशीव्रंत चैव सप्तमीं रविसंयुताम् ‌ । यावत्स्वमरणं देवि कुर्यात्सत्ययुतो नरः ॥१४॥

पूर्वपापविशुद्धिः स्याद् ‌ व्याधिरेवं विनश्यति ॥१५॥

इति कर्मविपाकसंहितायां तृतीयोऽध्यायः ॥३॥

अथ चतुर्थोऽध्यायः ४

अश्विनी नक्षत्र के दूसरे चरण में उत्पन्न हुए मनुष्य का कर्मविपाक कहना

शिव उवाच ॥ अथ द्वितीये वक्ष्यामि प्रायाश्वित्तं तथाऽम्बिके । अश्विन्यां जायते देवि पूर्वकर्मविपाकतः ॥१॥

अयोध्यापुरतो देवि पूर्वे क्रोशचतुष्टये । सरय्वा निकटे चैव वर्णसङ्गरक्षत्रियाः ॥२॥

नामतः श्वेतवर्मेति पुत्रदारसमन्वितः । एकदा मातुलो देवि पुत्रेण सह संयुतः ॥३॥

आगतो निकटे देवि स्वर्णकोटिसमन्वितः । आदरं बहुधा कृत्वा गृहे वांस ददौ च सः ॥४॥

तस्य पत्नी गुणवती रूपयौवनसंयुता । मासमेकं तदा देवि प्रत्यहं भगिनीगृहे ॥५॥

भुज्यते सह पुत्रेण चामिषं विविधं तथा । मासान्ते चावधीद्रात्रौ मातुलं सहपुत्रकम् ‌ ॥६॥

भूमिमध्ये शंव ताम्यां यत्नतः स्थापितं तदा । स्वर्णकोटिं प्रजग्राह पापात्मा गुरुघातकः ॥७॥

पत्न्या सह ततो द्रव्यव्ययं कुर्वन् ‌ दिने दिने । एवं बहुतिथे काले क्षत्री कालवशोऽभोवत् ‌ ॥८॥

पश्चान्मृता ततः पत्नी निर्जले गहने वने । कर्दमे नरके घोरे यमदूतैर्यमाज्ञया ॥९॥

निक्षिप्य महतीं पीडां तयोर्दत्वा ततः प्रिये । युगमेकं वरारोहे भुक्त्वा नरकयातनाम् ‌ ॥१०॥

नरकान्निःसृतो देवि गर्दभत्वमजायत । पुनः सरटयोनिं तु भुक्तवा मर्त्यस्ततोऽभवत् ‌ ॥११॥

हतोऽनेन पुरा देवि मातुल . पुत्रसंयुतः । तत्पापफलतो देवि वंशच्छेदश्च जायते ॥१२॥

रोगयुक्ता भवेद्देवि पत्नी वै पूर्वजन्मनि । ततो विवाहिता जाता पुनर्वै पूर्वकर्मतः ॥१३॥

कासश्वाससमायुक्तो विषमज्वरपीडितः । प्रायश्चित्तं ततस्तस्य प्रवक्ष्यामि दयानिधे ॥१४॥

प्रत्यहं ब्राह्मणे दानं भक्तिपूर्वं वरानने । दशधेनुं प्रयत्नेन हरिवंशश्रुतिं तथा ॥१५॥

सुवर्णप्रतिमां कृत्वा पलं पश्चदशस्य च । वर्तुलाकारकुण्डे वै होमं कृत्वा प्रसन्नधीः ॥१६॥

गायत्रीलक्षजाप्यं च कारयेत्तु प्रयत्नतः । दशांशहोमः कर्त्तव्यो विप्राणां भोजनं ततः ॥१७॥

शय्यादानं विशेषेण प्रतिमां पूजयेत्ततः ॥ षोडशांगुलिका वेदी मृत्तिकासप्तसंयुता । चतुरस्त्रा विचित्रा च गन्धपुष्पसमन्विता । तत्रैव प्रतिमां कृत्वा स्थापिताम पूजयेत्ततः ॥ ॐ चक्रधराय नमः ॥ ॐ गदाधराय नमः ॥ ॐ शार्ङ्गिणे नमः ॥ ॐअ गरुडाया नमः ॥ ॐ प्रजापतये नमः ॥ ॐ सर्वेश्वराय नमः ॥ ॐ लक्ष्म्यै नमः ॥ ॐ देवदेव महादेव शंखचक्रगदाधर । मम पूर्वकृतं पांप हर त्वं धरणीधर ॥१९॥

एवं पूजां समाप्यैव प्रतिमां तां च दापयेत् ‌ । आचार्याय तदा देवि सुवर्णं दक्षिणां ततः ॥२०॥

ततः प्रदक्षिणां कृत्वा ब्रह्मणे व्यासरूपिणे । माघे मासि प्रयागे तु स्त्रानं पत्नीसमन्वितः ॥२१॥

एवं कृते न संदेहो वंशो भवति नान्यथा । मृतवत्सा लभेत्पुत्रं वन्ध्यात्वं च विनश्यति ॥२२॥

रोगी च मुच्यते रोगात् ‌ कन्यका नैव जायते ॥२३॥

इति कर्मविपाकसंहितायां चतुर्थोऽध्यायः ॥४॥

अथ पश्चमोऽध्यायः ५

अश्विनी नक्षत्र के तीसरे चरण में उत्पन्न होने वालों का प्रायश्चित्त

ईश्वर उवाच ॥ अथातः संप्रवक्ष्यामि नक्षत्रतुरगस्य तु । तृतीयस्य ततो देवि प्रायश्चित्तमतः श्रुणु ॥१॥

अयोध्यापुरतो देवि दक्षिणे पूर्वदिग्गते । नारायणपुरे रम्ये राजपुत्रोऽभवस्तदा ॥२॥

स्वकर्मनिरतो दान्तः प्रजापोषणतत्परः । नामतश्चोलसिंहेति तस्य पत्नी प्रभावती ॥३॥

तस्य मित्रं द्विजोऽप्येकः स्वकर्मपरिवर्जितः । एकदा मृगयां यातो राजपुत्रः सब्राह्मणः ॥४॥

मृगं हत्वा वरारोहे जग्मतुर्गहने वने । मांसस्य देवि भागार्थं कलहो हि महानभूत् ‌ ॥५॥

ततः स ब्राह्मणो दुष्टः कोधेनैवापि च द्विषन् ‌ । मरणं तस्य भो देवि बभूव गहने वने ॥६॥

ततश्चिन्तापरीतात्मा राजपुत्रो गृहं ययौ । गृहे च कारयामास तस्य कर्म यथाविधि ॥७॥

ततो बहुगते काले प्रयागे मकरे मुदा । शरीरं त्यक्तवान् ‌ देवि भार्यया सहितस्तदा ॥८॥

स्वर्गं भुक्त्वा युगान् ‌ सप्त ततः पुण्यक्षये सति । मर्त्यलोकेऽभवाज्जन्म धनधान्यसमन्वितः ॥९॥

भार्यया सहितो देवि मध्यदेशे वरानने । पुत्रो न जायते देवि पूर्वकर्मविपाकतः ॥१०॥

ब्रह्महत्याफलेनैव मृतवत्सोऽपि वा भवेत् ‌ । तस्य शुद्धिं प्रवक्ष्यामि यतः पुत्रः प्रजायते ॥११॥

तदुद्देशेन कर्त्तव्यस्तडागो वापिका पथि । हरिवंशशश्रवणं देवि विधिपूर्वमतः शिवे ॥१२॥

दश गावः प्रदातव्याः स्वर्णयुक्ताः सहाम्बराः । एवं कृते न सन्देहो वंशस्तस्य प्रजायते ॥१३॥

सा स्त्री स्यात्सुखिनी देवि सत्यमेव न संशयः । काकवन्ध्यात्वमुक्त स्यातु मृतवत्सा सुखावहा ॥१४॥

व्याधिनाशो भवेद्देवि नात्र कार्या विचारणा ॥१५॥

इति कर्मविपाकसंहितायां पश्चमोऽध्यायः ॥५॥

अथ षष्ठोऽध्यायः ६

चार प्रकार के पुत्रों के लक्षण

चतुर्विधपुत्रक्षणम् ‌

शिव उवाच ॥

श्रृणु देवि वरारोहे नृणां कर्मविपाकजम् ‌ । तदहं संप्रवक्ष्यामि यथाकर्मानुसारतः ॥१॥

पुत्रा बहुविधा देवि लौकिका वै विचक्षणाः । जायन्ते नात्र संदेहस्तत्सर्वं श्रृणु वल्लभे ॥२॥

प्रथमः पुण्यसंबन्धो मातापितृप्रियः सदा । सुसेवानिरतो नित्यं पितुर्मातुश्च यत्नतः ॥३॥

आजन्ममरणाद्देवि पितुराज्ञां करोति च । मरणे पितृमात्रोश्च श्राद्धं कुर्याद्दिने दिने ॥४॥

पितृश्राद्धं विना देवि भोजनं न करोति हि । द्वितीयः शत्रुसंबन्धी तस्य चेष्टां च मे श्रूणु ॥५॥

पूर्वजन्मप्रसङ्रेन शत्रुः पुत्रः प्रजायते । जन्मतः शत्रुरूपेण मातापित्रोर्विरोधकृत् ‌‍ ॥६॥

तत्कर्म कुरुते येनः क्लेशोऽभिजायते । तृतीय ऋणसंबन्धान्मत्तः श्रृणु वरानने ॥७॥

ऋणं यस्य गृहीतं तु न द्त्तं हठतः प्रिये तदा पुत्रत्वमाप्रोति द्रव्यदाता न संशयः ॥८॥

पितृद्रव्यं प्रयत्नेन गृह्हाति ह्ठतः प्रियो द्यूतेवेश्या प्रदानेन व्ययं कुर्याद्दिने दिने ॥९॥

यदा द्रव्यविहीनश्च पिता भवति वै प्रिये । तदा मृत्युमवाप्रोति युवरूपो न संशयः ॥१०॥

चतुर्थो मित्ररूपेण पुत्रो जायेत पार्वति । स्थापितं द्रव्यमन्यस्य न द्त्तं पूर्वजन्मनि ॥११॥

तत्संबन्धस्वरूपेण पुत्रो जातस्तदा शिवे । बहुप्रीतिं पितृभ्यां च पितृव्ये गोत्र्जे तथा ॥१२॥

बहूद्यमो गुणी भोक्ता पितुः शिक्षासु तत्परः । यत्करोति गृहे कर्म सुखदं जायते हि तत् ‌ ॥१३॥

पूर्वरूपो यदा देवि पत्नीपुत्रसमन्वितः ततः शरीरं वै त्यक्त्वा धनं गृह्म ततः ॥१४॥

चतुर्थचरणप्रायश्चित्तम् ‌

अथ वक्ष्यामि ते देवि चतुर्थचरणं शिवे । नक्षत्रतुरगस्यैव प्राणिनां नियतं श्रृणु ॥१५॥

कोशलापुरतो देवि सरय्वा उत्तरे तटे । तत्र क्षत्री वसत्येको नगरे नन्दने तदा ॥१६॥

स च धर्मविहीनस्तु लक्ष्मणेति च नामतः । तस्य भार्या विशालाक्षी कल्याणी नाम सा प्रिये ॥१७॥

कुलटा यौवनोन्मता परपुंसि रता सदा । व्यापारं कारयामास वस्त्रहेमादिकस्य हि ॥१८॥

उद्यमं बहुधा कृत्वा द्विजैः सह वरानने । एवं बहूतिथे काले विप्रद्रव्यं तु चोरितम् ‌ ॥१९॥

तेन शोकेन विप्रस्तु शीघ्रं पश्चत्वमागतः । ततो बहुतिथे काले राजपुत्रस्य पश्चता ॥२०॥

गातः स नरकं घोरं निरुच्छ‌वासं सुदारुणम् ‌ । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम ‌ ॥२१॥

नरकान्निःसृतो देवि वृषयोनिः पुराऽभवत् ‌ । ततो वै राजपुत्रस्तु मानुषत्वमुपागतः ॥२२॥

पुरा तु यत्कृतं पापं तदिहैव प्रभुज्यते । मित्रस्य वश्चनाद्देवि पुत्रस्यैव च पंचता ॥२३॥

काकवन्ध्याऽभवत्पात्नी दुःखशोकसमन्विता । तस्य पुण्यं प्रवक्ष्यामि पूर्वपापस्य निग्रहम् ‌ ॥२४॥

गायत्रीलक्षजाप्येन सर्वं पापं प्रणश्यति । कूष्माण्डं नारिकेलं वा स्वर्णयुक्तं सहाम्बरम् ‌ ॥२५॥

गङ्रामध्ये प्रदातव्यं सन्तानार्थं वरानने । वर्तुलाकारकुण्डे च होमं यत्नेन कारयेत् ‌ ॥२६॥

स्वर्णश्रृङ्री रौप्यखुरां पट्टवस्त्रसमन्विताम् ‌ । आचार्याय प्रदद्याद्‌गां सपात्रां सपात्रां विधिवत् ‌ प्रिये ॥२७॥

एवं कृते न सन्देदो वन्ध्यात्वं च प्रणश्यति । पुत्रपौत्राश्च वर्द्धन्ते न सन्देहो वरानने ॥२८॥

इति कर्मविपाकसंहितायां षष्ठोऽध्यायः ॥६॥

अथ सप्तमोऽध्यायः ७

स्त्रियों का कर्मविपाक

पार्वत्युवाच ॥

देवदेव महादेव सृष्टिस्थितिलयात्मक । स्त्रीणां च कर्म संब्रूहि दयां कृत्वा ममोपरि ॥१॥

ईश्वर उवाच ॥ नारीणां श्रृणु मे सर्वं यत्कृतं पूर्वजन्मनि । ततोऽहं संप्रवक्ष्यामि समासेन वरानने ॥२॥

पूर्वजन्मनि या नारी पतिनिन्दां चकारः । तेन पापेन भो देवि न स्त्री पुष्पवती भवेत ‌‍ ॥३॥

यदा रौप्यस्य वै वृक्षं स्वाङ्रगुष्ठपरिमाणकम् ‌ । पलपश्चमितं देवि दद्याद्वेविदे प्रिये ॥४॥

तदा पुष्पं भवेद्देवि नात्र कार्या विचारणा । पतिं सुप्तं परित्यज्य परपुंसि रता भवेत् ‌ ॥५॥

तेन पापेन भो देवि वन्ध्या नारी प्रजायते । सुवर्णस्य कृतं वृक्षं फलपुष्पसमन्विम् ‌ ॥६॥

दद्याद्वेदविदेनारी पतिसेवासु तत्परा । ततः पुत्रं प्रसूयेत सुवर्णपलतो द्श ॥७॥

परपुंसि रता नारी स्वपतिं मिष्टवादिनी । तेन पापेन भो देविकन्यापत्यं च जायते ॥८॥

रौप्यस्यैव कृतं लिङ्रं पलपश्चदशेन तु । पूजयित्वा प्रयत्नेन दद्याद्विप्राय श्रोत्रिणे ॥९॥

ततः कन्या तु न भवेच्छुभं पुत्रं प्रसूयते । सततं वै यदा नारी कुलटाधर्मचारिणी ॥१०॥

तेन कर्मविपाकेन नारीगर्भं विनश्यति । ततः प्रपूजयेद्देवं शंखचक्रगदाधरम् ‌ ॥११॥

प्रयागे मकरे स्नानं पतिना तु सहाचरेत् ‌ । स्वर्णशृङ्रं रौप्यखुरं मुक्तालांगूलग्रन्थितम् ‌ ॥१२॥

दद्यात्सदक्षिणं देवि वृषभं विदुषे तथा । या पतिं दुर्बलं त्यक्त्वा परेण सह संगता ॥१३॥

तेन पापेन भो देवि दरिद्रा पुत्रवर्जिता । ततः कुमारीं संपूज्य ब्रह्मविष्णुमहेश्वरान् ‌ ॥१४॥

पूजयेदब्दमेकं तु प्रत्यहं नियता प्रिये । वर्षे पूर्णे ततस्तस्यै वस्त्रं द्त्वा विसर्जयेत् ‌ ॥१५॥

व्रतं सूर्यस्य वै कुर्यात्प्रणम्य प्रतिवासरम् ‌ । तदा नारी पूर्वपापं दहत्येव न संशयः ॥१६॥

मिष्टं भुंक्ते तु या नारी पत्युर्मिष्टं ददाति न । तेन पापेन सा नारी मुखे दौर्गन्ध्यधारिणी ॥१७॥

गुडं वा मधु वा खण्डं विप्राय प्रयता सदा । प्रयच्छति यदा देवि मुखे शुद्धिश्च जायते ॥१८॥

स्वपतिघ्री च या नारी रण्डा भवति नान्यथा । तया नित्यं प्रपूज्या च तुलसी भक्तिभावतः ॥१९॥

ऊर्जे माघे च वैशाखे प्रातःस्त्रानं समाचरेत् ‌ । एकादशीव्रतं नित्यं द्वादशाक्षरविद्यया ॥२०॥

जपं कृत्वा प्रयत्नेन पतिरूपाय विष्णवे । समर्पणं ततः । कुर्यात् ‌ शीघ्रं पापं प्रणश्यति ॥२१॥

यदा पापयुता नारी गर्भपातं च कारयेत् ‌ । तेन दुश्चरितेनेह ज्वरकुक्षिप्रपीडनम् ‌ ॥२२॥

योनिशूलं भवेद्देवि गुदरोगो भगन्दरः । तदा कुर्यात् ‌ प्रयत्नेन ब्राह्मणीं ब्राह्मणं तथा ॥२३॥

रौप्यस्य च महादेवि दशनिष्कस्य भक्तितः । प्रत्यहं पूजयेद्देवि पत्युराज्ञां समाचरेत् ‌ ॥२४॥

भोजयेद्विविधैश्चान्नैर्घृतखण्डसमन्वितैः । गोदानं च ततः कुर्यात् ‌ भक्त्या विद्योपजीविने ॥२५॥

यदा नारी च दुष्टात्मा स्वपतौ दुर्वचो वदेत् ‌ । तदा कण्ठे भवेद्रोगो नासिकायां च पीनसम् ‌ ॥२६॥

वातगुल्मं वापि शिवे श्वेतपुष्पं प्रजायते । रौप्यपुष्पयुतं देवि सुवर्णेन समन्वितम् ‌ ॥२७॥

दद्याद्विप्राय विदुषे तदा सप्तपलं शुभे । कन्यकां कलहाद्‌दुष्टा हन्ति नारी यदा हठात् ‌ ॥२८॥

तदा कुष्ठं भवेद्देवि जन्म दरिद्रता । सूर्यस्य पूजनं कान्ते सदा नारी व्रतं चरेत् ‌ ॥२९॥

मासे मासे शनौ वारे वृक्षे विष्णुस्वरूपिणि । विधिवत्पूजनं कुर्यात् ‌ पूर्वपापं विशुद्धयति ॥३०॥

श्वश्रूं च श्वशुरं चैव नित्यं क्रूरवचो वदेत् ‌ । तेन पापेन भो देवि श्वेतपुष्पं तनौ भवेत् ‌ ॥३१॥

सूर्यस्य प्रतिमां देवि सुवर्णत्रिपलस्य च । दद्याद्वेदविदे देवि सूर्यस्यैव व्रतं चरेत् ‌ ॥३२॥

इति कर्मविपाकसंहितायां सप्तमोऽध्यायः ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-04T06:01:55.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वसुदत्त

  • n. एक राजा, जो अपने पूर्वजन्म में सुव्रत नामक राजा था । विष्णु के आशीर्वाद से इसे इंद्रपद की प्राप्ति हुई [पद्म. सृ.२२];[ भू.५] 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site