TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - शतभिषा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


शतभिषा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ षण्णवतितमोऽध्यायः ९६

शिव उवाच ॥

मथुरायां विशालाक्षि आभीरस्तत्र तिष्ठति । गोपालेति समाख्यातः सदा गोधनजीवितः ॥

तस्य भार्या विशालाक्षि सतीनामातिसुन्दरी ॥१॥

गोधनं बहुसाह्स्त्रं गोपालस्य सुरेश्वरि । वत्सानां वृषभाणां च पालनं क्रियते सदा ॥२॥

शीतकाले महादेवि वृष्टिर्जाता वरानने । गौः सवत्सा महादेवि पीडिता भोजनं विना ॥३॥

गृहाभावे मृता बाह्ये वृषवत्ससमन्विता । ततो बहुगते काले गोपालस्य मृतिस्तदा ॥४॥

यमदूतैर्महाघोरे नरके कर्दमाऽभिघे । क्षिप्तो यमाज्ञया देवि षष्टिवर्षसहस्त्रकम ‌ ॥५॥

नरकान्निःसृतो देवि भेकयोनिं ततोऽलभत् ‌ । सरटस्य ततो देवि मानुषत्वं ततोऽलभत् ‌ ॥६॥

धनधान्यसमायुक्तो व्याधिभिः पीडितः सदा । अपुत्रत्वं ततो लेभे कन्यका जायते खलु ॥७॥

निर्बीजो वृषभस्तेन कृतो योगेन वै शिवे । तेन पापेन भो देवि गर्भपातः पुनः पुनः ॥८॥

तस्य शान्तिमहं वक्ष्ये श्रृणु देवि सुशोभने । वसन्ते मासि वै कुर्याद्धटदानं सहस्त्रशः ॥९॥

एकादशीव्रतं नित्यं वेण्यां स्त्रानं समाचरेत् ‌ । दशवर्णागोप्रदानं शय्यादानं तथैव च ॥१०॥

आकृष्णेति जपं कुर्याल्लक्षसंख्यं वरानने । द्शांशं हवनं तद्वन्मार्जनं तर्पणं तथा ॥११॥

भोजयेच्चैव देवेशि ब्राह्मणाञ्छ्रोत्रियाञ्छतम ‌ । पायसान्नेन खण्डेन तथा दध्‌ना घृतेन च ॥१२॥

एवं कृते न संदेहो ज्वरमोक्षः प्रजायते ॥१३॥

वंशवृद्धिर्भवेत्तस्य मृतवत्सा च पुत्रिणी । काकवन्ध्या पुनः पुत्रं लभते नात्र संशयः ॥१४॥

इति कर्मविपाकसंहितायां षण्णवतितमोऽध्यायः ॥९६॥

अथ सप्तनवतितमोऽध्यायः ९७

श्री शिव उवाच ॥

मध्यदेशे महेशानि लुब्धको वसति प्रिये । मृगारिर्नाम विख्यातो मृगमांसेन जीवति ॥१॥

प्रत्यहं मृगयां याति पक्षिणां मारणे रतः । मांसविक्रयतो नित्यं कुटुम्बभरणो ह्यभूत् ‌ ॥२॥

एवं वयो गतं सर्वं वार्धंके तु वरानने । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥

रौरवे नरके क्षिप्तस्तत्र कष्टं मुहुर्मुहः । सप्ततिं वै सहस्त्राणि नरके परिभुक्तवान् ‌ ॥४॥

नरकान्निःसृतो देवि श्येनयोनौ स्म जायते । उष्ट्र्स्य च पुनर्योनिं शृगालत्वं स लब्धवान् ‌ ॥५॥

मानुषत्वं ततो जातं धनधान्यादिसंयुतम् ‌ ॥६॥

पूर्वजन्मनि देवेशि पक्षिणो बहवो हताः । तेन पापेन भो देवि व्याधिसंछादिता तनुः ॥७॥

मृगं हत्वा वरारोहे हताश्च मृगशावकाः । एतद्दोषेण भो देवि पुत्राणां मरणं खलु ॥८॥

काकवंध्या भवेन्नारी कन्यका जायते सदा । वन्ध्या भवति वै नारी शान्तिं श्रृणु वरानने ॥९॥

गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१०॥

गायत्रीजातवेदोम्यां लक्षजाप्यं वरानने । द्शांशं हवनं तद्वन्मार्जनं तर्पणं तथा ॥११॥

द्श धेनूस्ततो द्द्यात्स्वर्णदानं विशेषतः । हरिवंशश्रवणं देवि व्रतं च हरिवासरम् ‌ ॥१२॥

ब्राह्मणान्भोजयेच्चैव यथाशक्त्या तु दक्षिणाम् ‌ । एवं कृते वरारोहे वंशस्तस्य भविष्यति ॥१३॥

वन्ध्यात्वं प्रशमं याति काकवन्ध्या पुनः सुतम् ‌ । मृतवत्सा लभेत् ‌ पुत्रं चिरंजीविनमुत्तमम ‌ ॥१४॥

व्याधयः संक्षयं यान्ति ज्ञानं च लभते महत ‌ ॥१५

इति कर्मविपाकसंहितायां सप्तनवतितमोऽध्यायः ॥९७॥

अथाष्टनवतितमोऽध्यायः ९८

शिव उवाच ॥

गोमतीनिकटे देवि पुरं ख्यातं धुरंधरम् ‌ । वसन्ति बहवो देवि जना धर्मविचक्षणाः ॥१॥

तन्मध्ये ब्राह्मणो ह्येको ब्रह्मकर्मविवर्जितः । द्यूतकर्मरतः सोऽपि वेश्यासुरततत्परः ॥२॥

मद्यपानरतो नित्यं वेदशास्त्रविनिन्दकः । ततो बहुदिने देवि तस्य मृत्युरभूत्पुरा ॥३॥

यमदूतैर्महाघोरनरकेषु निपातितः । पतितो नरके घोरे लक्षवर्ष महेश्वरि ॥४॥

नरकान्निःसृतो देवि वृकयोनिरभूतपुरा । वराहस्य पुनर्योनिं गर्दभत्वं ततोऽलभत् ‌ ॥५॥

मानुषत्वं ततो देशे पुण्यतमे शुभे ॥६॥

पूर्वजन्मनि देवेशि मद्यपानरतः सदा । तेन पापेन भो देवि शरीरे रोगसंभवः ॥७॥

द्यूतवेश्यारतो नित्यं यस्माद्वै पूर्वजन्मनिअ । तेन पापेन भो देवि वंशच्छेदश्च जायते ॥८॥

शान्तिं श्रृणु वरारोहे पूर्वपापप्रणाशिनीम् ‌ । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥९॥

विष्णोरराटमन्त्रेण लक्षजाप्यं वरानने । दशांशं हवनं तद्वन्मार्जनं जर्पणं तथा ।

ब्राह्मणानभोजयेत्पश्चात्पंचाशच्च वरानने ॥१०॥

ततो गां कृष्णवर्णां च स्वर्णश्रृङ्रीं विभूषिताम् ‌ । पट्टवस्त्रां सवत्सां च दद्यादि‌द्वजवराय च ॥११॥

प्रतिमां तु ततः कुर्याद्विष्णोः सांबस्या वा शिवे । पलदशसुवर्णस्य विष्णोर्मुक्ताविभूषिताम् ‌ ॥१२॥

तद्वदेव शिवस्यैव रजतस्य वरानने । नानावस्त्रैरलंकारैः पूजयित्वा यथाविधि ॥१३॥

मन्त्रेणानेन देवेशि तद्वदेव गणं नमेत् ‌ । गरुडध्वज देवेश भूतनाथ दयानिधे ॥

मम पूर्वकृतं पापं ततक्षमस्व दयानिधे ॥१४॥

ॐ सुदर्शनाय नमः ॥ ॐ त्रिशूलाय नमः ॥ ॐ गरुडाय नमः ॥ ॐ भैरवाय नमः ॥

ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ बटुकाय नमः ॥ ॐ कालभैरवाय नमः ॥

गन्धधूपादिभिर्देवि पूजयित्वा पृथक ‌ पृथक ‌ ॥१५॥

प्रतिमां पूजितां तां तु दद्याद्विप्राय वै स्वयम् ‌ । ततो विष्णुं नमस्कृत्य शिवं सर्वसुखप्रदम् ॥१६॥

एवं कृते न सन्देहः सर्वपापक्षयो भवेत् ‌ । वंशवृद्धिर्भवेत्तस्य व्याधिनाशो भवेद ‌ ध्रुवम् ॥१७॥

इति कर्मविपाकसंहितायां अष्टनवतितमोऽध्यायः ॥९८॥

अथैकोनशततमोऽध्यायः ९९

श्री शिव उवाच ॥

पंचक्रोशमिते देवि मथुरायास्तथोत्तरे । हेमन्तनामकपुरे वसन्ति बहवो जनाः ॥१॥

तन्मध्ये वैश्य एको हि क्रयविक्रयतत्परः । स सुकर्मेति विख्यातो धनं च बहु शश्वितम् ‌ ।

तस्य स्त्री पार्वतीनाम्री रूपयौवनसंयुता ॥२॥

वैश्यश्चैव महादेवि प्रौढिं यातः सुरेश्वरि । दरिद्रस्त्वभद्देवि दरिद्रत्वासुपीडितः ॥३॥

शतं पश्च ऋणं नीतं ब्राह्मणस्य सुरेश्वरि । व्यापारार्थं विशालाक्षि न दत्तं ब्राह्मणाय वै ॥४॥

सर्वं भुक्तं महादेवि बहुकाले गते सति । वैश्यस्याथाभवन्मृत्युः सभार्यस्य वरानने ॥५॥

मथुरायां विशालाक्षि लब्धः स्वर्गो वरः शुभः । दशलक्षमितं स्वर्गफलं भुक्तं वरानने ॥६॥

भुक्त्वा सह कलत्रेण ततः पुण्यक्षये सति ॥७॥

मानुषत्वं पुनः सुम्रूंर्लेभे देशे मनोहरे । धनधान्यसमायुक्तो जायते स्म सुरेश्वरि ॥८॥

पूर्वे जन्मनि देवेशि ब्राह्मणस्य धनं ह्रतम् ‌ । न द्त्तं तेन वै देवि ततः पुत्रो न जायते ॥९॥

अस्य शान्तिं प्रवक्ष्यामि यतः पापस्य संक्षयः । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१०॥

आकृष्णेति ततो मन्त्रं लक्षं भक्त्या जपेत्तथा । दशांशं हवनं कुर्याद्दशांशं तर्पणं तथा ॥११॥

हरिवंशश्रवणं देवि चण्डीपाठं शिवार्चनम् ‌ । विधिवत्कारयेच्चैव ब्राह्मणानभोजयेत्ततः ॥१२॥

दशवर्णां ततो दद्याच्छय्यादानं विशेषतः ॥१३॥

एवं कृते वरारोहे वंशो भवति नान्यथा । व्याधिर्नाशं समायाति मम वाक्यं न चान्यथा ॥१४॥

इति कर्मविपाकसंहितायां एकोनशततमोऽध्यायः ॥९९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:55:12.2730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ectodermal plate

  • बहिर्जनस्तर पट्टिका 
RANDOM WORD

Did you know?

'डांबिस' हा शब्द मराठी कि कुठल्या भाषेतून आलाय ? त्याचा अर्थ किंवा उगम कोणता?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.