TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - श्रवण नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


श्रवण नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथाष्टाशीतितमोऽध्यायः ८८

श्री शिव उवाच ॥ यवनस्य महादेशे मारुते नगरे शुभे । गौतमो नाम विख्यातो ब्राह्मणो वेदापारगः ॥१॥

तस्य भार्या विशालाक्षि मालिनी मातृपालिनी । धनं च बहु संगृह्य म्लेच्छसेवारतो हि सः ॥२॥

तस्य मित्रं द्विजः कश्चित्तपस्वी सत्यवाक्छुचिः । आगतस्तस्य निकटे प्रेमणा तत्राकरोत्तपः ॥३॥

वर्षमेकं ततो यातं पुनः काश्यां गतो हि सः । स्वर्णरत्नं महादेवि गौतमाय समर्पितम ‌ ॥४॥

रक्षार्यं तेन द्रव्यं च गृहीतं गौतमेन च । वाराणस्यां ततो गत्वा तपस्दी प्राणमत्यजत् ‌ ॥५॥

गौतमेन स्वद्रव्यं तु स्थापितं भूमिमध्यतः । तद्‌द्रव्यं ब्राह्मणस्यैव पुत्रदारेण संयुतम् ‌ ॥६॥

विक्रीय भक्षितं रत्नं बहुवर्षं गतं शिवे । गौतमस्य ततो मृत्युर्वृद्धे जाते वरानने ॥७॥

गन्धर्वस्य ततो लोकं विंशतिं वै सहस्त्रकम् ‌ । वर्षं भुक्तं विशालाक्षि गन्धर्वैः सह किन्नरैः ॥८॥

ततः पुण्यक्षये जाते हंसयोनिस्ततोऽभवत् ‌ । मृगयोनिं ततो भुक्त्वा मानुषत्वं ततोऽलभत् ‌ ॥९॥

स भाग्यवान्महावीरः पुण्याचारे सदा मतिः ॥१०॥

पूर्वजन्मनि देवेशि मित्रद्रव्यं च भक्षितम ‌ । न दत्तं यद्विशालाक्षि तद्दोषेण मृतार्भकः ॥११॥

वंध्या भवति वै नारी काकवन्ध्या च जायते । रोगयुक्तो भवेद्देहो ज्वराश्च विविधास्तथा ॥१२॥

अस्य शांतिं प्रवक्ष्यामि शृणु देवि सुशोभने । वापीकूपतडागानां जीर्णोद्धारं च कारयेत् ‌ ॥१३॥

गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ । गायत्रीमूलमंत्रेण दशायुतजपं ततः ।

हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१४॥

गामेकां तरूणीं शुभां कांस्यदोहां सवत्सकाम् ‌ । सतीं सवस्त्रां विप्राय दद्याद्वेदविदे ततः ॥१५॥

ब्राह्मणान्भोजयेच्चैव यथाशक्त्या तु दक्षिणाम् ‌ । ज्ञातिभिः सह भुंजीत ततो दानं तु कारयेत् ‌ ॥१६॥

पुराणश्रवणं देवि चण्डिकाचरितानि तु । अन्नदानं च भो देवि घटदानं विशेषतः ॥१७॥

एवं कृते न सन्देहो वंशवृद्धिर्भविष्यति । रोगाः सर्वे क्षयं यान्ति सुखानि विविधानि च ॥१८॥

इति कर्मविपाकसंहितायां अष्टाशीतितमोऽध्यायः ॥८८॥

अथैकोननवतितमोऽध्यायः ८९

श्री शिव उवाच ॥

गान्धारदेशे वै सुभ्रूर्गान्धारस्य पुरे शुभे । वसन्ति तत्र बहवो जनाःपण्योपजीविनः ॥१॥

तन्मध्ये ब्राह्मणोऽप्येको लक्ष्मीवान ‌ गुणवर्जितः । यवनानां महाप्रीतिः सार्धं म्लेच्छेन तिष्ठति ॥२॥

ऊर्णादेस्तु वरारोहे विक्रयं कुरुते सदा । म्लेच्छान्नं भुज्यते तेन म्लेच्छभार्यासुसेवितः ॥३॥

एवं बहु वयो यातं ततो वै मरणं खलु । यमदूतैर्महाघोरे नरके नाम्रि दारुणे ॥४॥

निक्षिप्तः स तुवै देवि षष्टिवर्षसहस्त्रकम् ‌ । भुक्तं सुदुःसहं कर्म विविधं नारकं फलम ‌ ॥५॥

नरकान्निःसृतो देवि वृकयोनिरभूत्पुरा । रासभस्य ततो योनिमृक्षत्वं जायते पुनः ॥६॥

मानुषत्वं पुनर्लेभे मध्यदेशे सुरेश्वरि ॥७॥

पूर्वजन्मनि म्लेच्छान्नं भुक्तं पुत्रेण वै सह । अतो वंशस्य विच्छेदो व्याधीनां चोद्भवस्तथा ॥८॥

अस्य दोषस्य वै शान्तिं श्रृणु मे परमेश्वरि । गायत्रीमूलमन्त्रेण लक्षजाप्यं वरानने ।

हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥९॥

सवृषं पश्वगोदानं वस्त्रदानं विशेषतः । सहस्त्रघटदानं च गोदानं च सुरेश्वरि ॥१०॥

एवं कृते न सन्देहो वंशवृद्धिर्भविष्यति । रोगा विनाशमायान्ति नात्र कार्या विचारणा ॥११॥

इति कर्मविपाकसंहितायां एकोननवतितमोऽध्यायः ॥८९॥

अथ नवतितमोऽध्यायः ९०

शिव उवाच ॥

काश्मीरनगरे देवि ब्राह्मणो वसति प्रिये । खण्डशर्मेति विख्यातो गङ्रा भार्याऽतिकर्कशा ॥१॥

पतिवाक्यं न सा कुर्याद्विक्रयं कुरुते सदा । घृतं तैलं च देवेशि दधि तक्रं पुनर्गुडम् ‌ ॥२॥

अश्चं च वृषभं चैव चामरं धातुसंयुत्तम् ‌ । प्रत्यहं विक्रयं कृत्वा व्ययं कुर्याद्दिनेदिने ॥३॥

एवं सर्वं वयो यातं वृद्धे सति वरानने । मरणं तस्य वै जातं ब्राह्मणस्य तदा शिवे ॥४॥

यमाज्ञया याम्यदूतैर्नरके कर्दमे तथा । निक्षिप्तः षष्टिसाहस्त्रं भुकत्वा वैअ यातनां तथा ॥५॥

नरकान्निःसृतो देवि वृकयोनिस्ततोऽभवत् ‌ । रासभस्य पुनर्येनिर्मेषयोनिस्ततोऽभवत् ‌ ॥६॥

मानुषत्वं पुनर्लेभे मध्यदेशे वरानने । धनधान्यसमायुक्तः पुत्रकन्याविवर्जितः ॥७॥

पुनर्विवाहिता सा तु पूर्वजन्मफलाच्छुभे । शरीरे सततं रोगो वायोः सञ्जायते शिवे ॥८॥

ब्राह्मणस्य स्वयं धर्मो यतस्त्यक्तः पुरा शुभे । अतः पुत्रविहीनोऽयं मृतवत्यत्वमाप्तवान् ‌ ॥९॥

अस्य शान्तिमहं वक्ष्ये श्रृणु देवि शुशोभने । गृहवित्तषडंशं च ब्राह्मणाय समर्पयेत् ‌ ॥१०॥

गायत्रीं चायुतं जप्त्वा मूलमंन्त्रं शिवस्य तु । षडक्षरं सप्रणवं लक्षकं च वरानने ॥११॥

हवनं तद्दशांशेन मार्जनं तर्पणं तथा । ब्राह्माणान् ‌ भोजयेत्सम्यग्घविषा पायसेन तु ॥१२॥

पंचाशत्संख्यया देवि यथाशक्त्या तु दक्षिणाम् ‌ । प्रयागे माघमासे तु स्त्रायाद्भार्यासमन्वितः ॥१३॥

कूष्माण्डं नारिकेलं च पश्चरत्नसमन्वितम ‌ । गंगामध्ये प्रदातव्यं विधिपूर्वं वरानने ॥१४॥

एवं कृते न सन्देहो वंशवृद्धिर्भवेदनु । रोगाः सर्वे क्षयं यान्ति वन्ध्या भवति पुत्रिणी ॥१५॥

इति कर्मविपाकसंहितायां नवतितमोऽध्यायः ॥९०॥

अथैकनवतितमोऽध्यायः ९१

श्री शिव उवाच ॥

अटकस्य प्रतीच्यां तु यादवं नाम वै पुरम् ‌ । वसन्ति बहवो देवि जनाः कर्मविचक्षणाः ॥१॥

तन्मध्ये ब्राह्मणोऽप्येकः सिद्धलाल इति श्रुतः । तस्य भार्या विशालाक्षि देवी नाम सदाशिवे ॥२॥

पतिव्रता गुणोपेता मिष्टवाक्यप्रवादिनी । सिद्धलालो महाचोरश्चौर्यवृत्तिरतः सदा ॥३॥

दारपुत्रादिभृत्यांश्च चौर्यं कृत्वा प्रपोषयन् ‌ । एवं सर्वं वयो यातं ततो वै मरणं भवेत् ‌ ॥४॥

तस्य भार्या सती जाता सत्यलोकोऽभवत्तदा । सत्यलोके वरारोहे सततं विविधं सुखम् ‌ ॥५॥

भुक्तं पूर्वकृतं पुण्यं ततः पुण्यक्षये सति । मानुषत्वं पुनर्जन्म दुर्लभं सर्वदेहिनाम ‌ ॥६॥

धनधान्येन संयुक्तः कन्यापुत्रविवर्जितः । ब्राह्मण्यं च यतस्त्यक्त्वा शूद्रकर्म समाचरत् ‌ ॥७॥

परद्रव्यं ह्रतं देवि तस्माद्वयाधिश्च जायते । अस्य शान्तिं प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥८॥

गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ । दशवर्णां च गां दद्यात् ‌ पूर्वपापविशुद्धये ॥९॥

शय्यादानं ततः कुर्याद्‌व्रतमेकादशीं शुभाम ‌ ॥१०॥

गायत्रीमूलमंत्रेण विष्णुमंत्रं तथैव च । लक्षजाप्यं प्रयत्नेन मूले अश्चत्थबिल्वके ॥११॥

दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा । विप्राणां भोजनं देवि घटदानं विशेषतः ॥१२॥

एवं कृते न सन्देहो वंशो भवति नान्यथा । व्याधयः संक्षयं यान्ति मम वाक्यं न चान्यथा ॥१३॥

इति कर्मविपाकसंहितायां एकनवतितमोऽध्यायः ॥९१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:52:01.6530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ameristic

  • Bot. (unable to complete the development) विकास अक्षम 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site