TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - पूर्वाभाद्रपदा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


पूर्वाभाद्रपदा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ शततमोऽध्यायः १००

शिव उवाच ॥

मथुराख्यपुरीमध्ये शूद्र एको हि तिष्ठति । शाकानुत्पाद्य क्षेत्रे स्वे विक्रयं क्रुरुते सदा ॥१॥

विष्णुभक्तिरतः शान्तः पुण्यात्मा साधुसम्मत्तः । सेवादास इति ख्यातस्तस्य पत्नी तु राधिका ॥२॥

कुलाचारे रतः साधुर्द्विजसेवासु तत्परः । वाणिज्यं क्रुरुते साधुः पुरोहितधनेन च ॥३॥

बहुवर्शैर्गतो देवि ब्राह्मणोऽस्य गृहे तदा । आदरं बहुधा कृत्वा कलत्रेणास्य वै शिवे ॥४॥

विषं दत्तं चतुर्थेऽह्रि भोजनावसरे सति । न जानाति सदा साधुस्तद्दत्तं ब्राह्मणस्य तु ॥५॥

मरणं वै ततो जातं ब्राह्मणस्य सुरेश्वरि । ब्राह्मणस्य वधे जाते हाहाकारं गृहे गृहे ॥६॥

श्रुत्वा साधुः पुरीं त्यक्त्वा प्रयागे समुपागतः । देहं तत्याज स तदा ह्ठं कृत्वा वरानने ॥७॥

पश्चात्तस्य गता पत्नी प्राणांस्तत्रैव साऽत्यजत् ‌ । प्रयागे मथुरां त्यक्त्वा तदुद्देशेन शोभने ॥८॥

बहुवर्षसहस्त्राणि स्वर्गवासस्ततोऽभवत् ‌ । ततः पुण्यक्षये जाते मानुषत्वं ततोऽलभत् ‌ ॥९॥

शूद्रायोनौ विशालाक्षि देहजस्य कुलेऽजनि । पुनर्विवाहिता पत्नी पूर्वजन्मप्रपश्चतः ॥१०॥

धनधान्यसमायुक्तो विद्यावान्कुलपूजकः । गौराङ्रो नीचजातीनां मतज्ञो लब्धवान्स्वयम् ॥११॥

पूर्वजन्मनि भो देवि ब्राह्मणाय विष ददौ । भार्या तस्य विशालाक्षि तत्पापेनैव दूषिता ।

तेन पुष्पं गतं तस्याः सन्तानं नैव जायते ॥१२॥

अस्य पापस्य वै शान्तिं श्रृणु देवि सुशोभने । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ‌ ॥१३॥

गायत्रीजातवेदोम्यां त्र्यंबकस्त्र वरानने । लक्षत्रयं जपेद्देवि भक्त्या चैव प्रयत्नतः ॥१४॥

हरिवंशश्रवणं देवि भार्यया सह मानिनि ॥१५॥

होमं वै कारयेच्चैव कुण्डे शुद्धे वरानने । चतुष्कोणे विशालाक्षि योनिपल्लवशोभिते ।

दशांशं विधिवद्देवि तर्पणं मार्जनं ततः ॥१६॥

ब्राह्मणस्य ततो मूर्त्तिं पलपश्चदशस्य तु । विधिवत्कारायेद्देवि पूजयेच्चैव बुद्धिमान ‌ ।

वस्त्रालङ्कारशय्याभिर्मूषणैर्विविधैस्तथा ॥१७॥

मन्त्रेणानेन देवेशि गन्धपुष्पैः पृथक् ‌ पृथक ‌ ॥१८॥

सर्वकारणकर्त्ता त्वं साक्षिमूतो जगत्रये । पापं ब्रह्मबधाद्‌घोरं हर मे भुवनाधिप ॥१९॥

ॐ चक्रधराय नमः ॥ ॐ त्र्यम्बकाय नमः ॥ ॐ गदाधराय नमः ॥ ॐ शूलहस्ताय नमः ॥

ॐ शार्ङ्रहस्ताय नमः ॥ ॐ शंखहस्ताय नमः ॥ सनकं सनत्कुमारं सनन्दनं सनातनम् ‌ ।

पूजयेच्चाथ विविधैर्मोदकैश्च फलैरपि ॥२०॥

प्रतिमां पूजितां तां तु सुविप्राय प्रदापयेत् ‌ ॥२१॥

दशवर्णां सबृषभां पट्टवस्त्रविभूषिताम् । दद्याद्विप्राय विदुषे श्रोत्रियाय तपस्विने ॥२२॥

व्रतं तु रविसप्तम्याः कुर्यातप्रीत्या विशेषतः ॥२३॥

एवं करोति देवेशि पुत्रगुग्में प्रजायते । कन्या त्वेका वरारोहे रोगोऽपि किल नश्यति ॥२४॥

इति कर्मविपाकसंहितायां शततमोऽध्यायः ॥१००॥

अथैकोत्तरशततमोऽध्यायः ॥१०१॥

शिव उवाच ॥

धर्मेण जायते पुत्रो धर्मेण लभते श्रियम् । धर्मेण व्याधिनाशः स्यात्तस्माद्धर्मपरो भवेत ‌ ॥१॥

कांपिल्ये नगरे देवि ब्राह्मणस्तत्र तिष्ठति । स वेदपाठनिरतो धनाढयश्च बहूद्यमी ॥२॥

तस्य पत्नी वरारोहे पतिसेवासु ततपरा । एकदा चागता कन्या बाह्मणस्य किलानघे ॥३॥

पुत्रेण सह देवेशि चादरस्तेन वै कृतः । ततो बहुदिने याते तस्य स्वर्णं च चोरितम् ‌ ॥४॥

सर्वैस्तत्र स्थितैरेवं स्वर्णं प्रति सदाशिवे । उक्तं चानेन वै स्वर्णं ह्रतं तु ब्राह्मणं प्रति ॥५॥

ततो रोषपरीतात्मा दौहित्रोऽमूदथो शिवे । विषं भुक्तं तदा तेन बहुरोषकुलेन तु ॥६॥

मरणं तस्य वै जातं दौहित्रस्य वरानने । ततो बहुदिने याते ब्राह्मणस्य तदा मृतिः ॥७॥

तस्य पत्नी सती जाता सत्यलोके तदाऽवसत् ‌ । ततः पुण्यक्षये जाते मर्त्यलोके सुरेश्वरि ॥८॥

मानुषत्वं ततो जातमयोध्यानगरे शिवे । धनधान्यसमायुक्तो राजमन्त्री विचक्षणः ॥९॥

दौहित्रोऽस्य मृतो देवि तदुद्देशेन भो शिवे । जातन्ते बहवः कन्या अस्य पुत्रो न जायते ॥१०॥

शरीरे सततं गूग्रो ज्वरो जातः सुदारुणः । शत्रवो बहवः सन्ति न सौख्यं लभते क्वचित् ‌ ॥११॥

पुण्यं श्रृणु वरारोहे पूर्वपापक्षयो यतः । गृहवित्तषडंशेनं पुण्यकार्यं च कारयेत् ‌ ॥१२॥

गायत्री त्र्यम्बकश्चेति श्रीश्च ते इति ऋक्त्रयम् ‌ । एतान्मंत्राञ्जपेल्लक्षं दशांशं हवनं ततः ॥१३॥

दशांशं तर्पणं देवि मार्जनं तद्दशांशतः । गोदानं तद्दशांशं च तद्दशांशं च भोजयेत् ‌ ।

पक्वान्नैरथ देवेशि श्रद्धाभक्तिसमन्वितः ॥१४॥

कूष्माडं नारिकेलं च पश्चरत्नसमन्वितम् ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥१५॥

वृषभस्तरुणः शुम्रो घण्टाचामरशोभितः । ब्राह्मणाय प्रदातव्यं शय्यादानं विशेषतः ॥१६॥

एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । रोग्स्यापि निवृत्तिः स्याज्ज्वरस्तस्य न जायते ॥१७॥

इति कर्मविपाकसंहितायां एकोत्तरशततमोऽध्यायः ॥१०१॥

अथ द्वयाधिकशततमोऽध्यायः १०२

श्री शिव उवाच ॥

गान्धारनगरे देवि ब्राह्मणो वसति प्रिये । दयाशर्मेति विख्यातो मद्यपानरतः सदा ॥१॥

वेश्यासुरतसंतृप्तश्चौरकर्मरतः सदा । म्लेच्छाचाररतः सोऽपि म्लेच्छान्नभोजनः सदा ॥२॥

धनं न सश्चितं तेन म्लेच्छभार्यासु ततपरः । श्राद्धकर्मविहीनश्च पितुर्मातुश्च निन्दकः ॥३॥

एवं बहुगते काले मरणं तस्य चाभवत् ‌ । महाक्रकचनामानं नरकं दारुणं प्रति ॥४॥

निक्षिप्तः श्रृंखलां बद्धवा यमदूतैर्यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥५॥

नरकान्निःसृतो देवि गोधायोनिरमूतपुरा । सरटस्य पुनर्योनिं चटकत्वं ततोऽलभत् ‌ ॥६॥

मानुषत्वं ततो लेभे शुभे देशे वरानने । धनधान्यसमायुक्तो वंशहीनो महेश्वरि ॥७॥

पूर्वजन्मनि देवेशि ब्राह्मणत्वं यतोऽत्यजत् ‌ । तत्पापेनैव भो देवि पुत्रस्य मरणं मुहुः ॥८॥

तन्मातापितरौ वृद्धौ त्यक्तौ दुर्मतिना यतः । अतः शरीरे वै रोगाः काकवन्ध्यासहव्रणाः ॥९॥

शान्तिं श्रृणु वरारोहे यतः पुत्रो हि जायते । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ‌ ॥१०॥

पश्चपलसुवर्णस्य गणाध्यक्षस्य चाकृतिम् । कृत्वा वै पूजयेच्चापि मन्त्रेणानेन सुव्रते ॥११॥

गणाध्यक्ष सुरेशान सर्वोपद्रवनाशन । मम पूर्वकृतं पापं हर दुःखनिवारण ॥१२॥

प्रतिमां गन्धपुष्पाधैः पूजितां विविधैः फलैः । दापयेदथ विप्राय वेदज्ञान तपस्विने ॥१३॥

ततो गां कपिलां दद्यात्स्वर्णश्रृङ्रविभूषिताम् ॥१४॥

गणेशस्य तु मन्त्रं वै जपेल्लक्षमतन्द्रितः । हवनं तद्दशांशेन मार्जनं तर्पणं तथा ।

शतं च भोजयेदेव श्रोत्रियान्वेदपारगान ‌ ॥१५॥

एवं कृत्वा विधानं तु ब्राह्मणांश्च समर्चयेत् ‌ । एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते ॥१६॥

आधयः संक्षयं यान्ति सर्वं पापं च नश्यति । ततो भवति वंशश्च व्याधिनाशश्च जायते ॥१७॥

इति कर्मविपाकसंहितायां द्वयाधिकशततमोऽध्यायः ॥१०२॥

अथ त्र्यधिकशततमोऽध्यायः १०३

शिव उवाच ॥

मध्यदेशे सुरेशानि गोमत्या निकटे शुभे । बलभद्रपुरं ख्यातं वसन्ति बहवो जनाः ॥१॥

तत्र ब्राह्मण एको हि युद्धाचाररतः सदाम । ब्रह्मकर्मपरिभ्रष्टो ब्राह्मणानां च निन्दकः ॥२॥

तस्य भार्याद्वयं चासीदेकां त्यक्त्वा द्विजस्ततः । द्वितीयां तोषयामास वस्त्रामत्रैर्विमूषणै ॥३॥

पुत्राश्च बहवो जाता ज्येष्ठायां शिववल्लभे । आखेटकं सदा याति ब्राह्मणो गहने वने ।

मृगं हत्वा वरारोहे भोजनं कुरुते सदा ॥४॥

अग्निदग्धं वनं कृत्वा मृगपक्षिगणस्य च । वधं वै कुरुते मूढो निर्दयश्च द्विजाधमः ॥५॥

एवं वयोन्तरे जाते तस्य मृत्युरामूत्किल । पश्चनमृता ततो भार्या पुंश्चली व्यभिचारिणी ॥६॥

यमदूतैर्महाघोरे नरके दारुणाभिधे । यमाज्ञया तत्र नीतो बह्वीं पीडां तु लब्धवान् ‌ ॥७॥

सप्ततिर्वै सहस्त्राणि वर्षाणि गिरिजे शिवे । भुक्तं नरकजं दुःखं बहुकष्टं सुदारुणम् ‌ ॥८॥

नरकान्निःसृतो देवि गर्दभस्तभवत्किल । महिषस्य पुनर्योनिं मानुषत्वं ततोऽलभत् ‌ ॥९॥

धनाढयो वैश्यवृत्तिश्च सज्जनानां च सेवकः मध्यदेशेऽभवद्देवि गुणवान ‌ पुत्रवर्जितः ॥१०॥

ब्रह्मकर्म यतस्त्यक्त्वा कृता वै शस्त्रधारणा । अतः पुत्रविहीनोऽयं जायन्ते बहुकन्यकाः ॥११॥

अग्निदाहं यतः कृत्वा दग्धं वै काननं महत् ‌ । मृगपक्षिवृका हस्तान्नष्टा अस्य ज्वरी ततः ॥१२॥

शान्तिं श्रृणु वरारोहे यतः पापप्रणाशनम् ‌ ॥१३॥

गोपालमंत्रे वै जप्तवा लक्षसंख्यं वरानने । दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा ॥१४॥

गोपालस्य सदा ध्यानं सदा गोपालकीर्त्तनम् ‌ ॥१५॥

शालग्रामशिलादानं सुवर्णरजतान्वितम् । शुम्रवस्त्रेण संयुक्तं देयं तच्छ्रोत्रियाय च ॥१६॥

मूमिदानं ततः कुर्याद्‌गोदानं च सुरेश्वरि । तिलधेनुं ततो दद्याद्‌ब्राह्मणानभोजयेत्ततः ॥१७॥

एवं कृते महेशानि पुत्रश्चैव प्रजायते । व्याधयः संक्षयं यान्ति काकवन्ध्या लभेत्सुतम् ॥१८॥

इति कर्मविपाकसंहितायां त्र्यधिकशततमोऽध्यायः ॥१०३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:56:31.6200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

unit handling cost

  • एकल संचालन लागत 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.