TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - उत्तराषाढा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


उत्तराषाढा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ चतुरशीतितमोऽध्यायः ८४

शिव उवाच ।

श्वेतपर्वे महातीर्थे रामपुर्यां वरानने । कान्यकुब्जोऽवसद्विप्रो व्यापारकरणे रतः ॥१॥

अश्वादिकं वरारोहे वृषचर्माजिनाम्बरम ‌ । प्रत्यहं गृह्यते देवि विक्रयं कुरुते सदा ॥२॥

द्यूतवेश्यारतो नित्यं परस्त्रीगमनं तथा । प्रकरोति सुरापानं गुरुं देवं न मन्यते ॥३॥

एवं बहुगते काले मरणं तस्य जायते । यमदूतैर्महाघोरे बद्धवा क्षिप्तः सुदारुणे ॥४॥

षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ । मरकान्निः सृतो देवि वानरस्यालभेद्वपुः ॥५॥

यातो रासभयोनिं वै तुरङ्रस्तु ततोऽभवत् ‌ । मनुष्यत्वं पुनर्लेभे पूर्वजन्मफलाद्यतः ॥६॥

धनधान्यसमायुक्तो रोगयुक्तोऽप्यपुत्रकः । कदाचिद्दैवयोगेन पुत्रो भवति भामिनि ॥७॥

मरणं तस्य वै शीघ्रं ततः कन्या प्रजायते ॥८॥

अस्य शान्तिं श्रृणुष्वादौ यथा पापं निवर्तते । गृहवित्तषडंशं च पुण्यकार्यं नियोजयेत ‌ ॥९॥

पूर्वजन्मनि देवेशि कनीयांसं स्वभ्रातरम् ‌ । रात्रौ खड्‌गेन वै हत्वा तत्पापाच्च सुतक्षयः ॥१०॥

गायत्रीमूलमन्त्रेण पश्चलक्षं वरानने । जपं वै कारयेत्तद्वन्नित्यं गोविन्दकीर्त्तनम ‌ ॥११॥

होमं वै कारयेत्तत्र कुण्डे षट्‌कोणसंज्ञके । पायसेन विशालाक्षि तिलसर्पिर्युतेन च ॥१२॥

दशवर्णां ततो दद्याद्‌ब्राह्मणाय शिवात्मने । भूमिदानं ततो दद्याच्छय्यादानं विशेषतः ॥१३॥

भ्रातुश्वैवाकृतिं कृत्वा रोप्येणैव वरानने । पलसप्तप्रमाणेन पूजां कृत्वा प्रसन्नधीः ॥१४॥

देवदेव महादेव चर्मभस्मविभूषण । पूर्वजन्मनि देवेश कृतो भ्रातुर्वधो मया ।

तत्पापं क्षम्यतां देव प्रपद्ये शरणं तव ॥१५॥

प्रतिमां पूजितां देवि मंत्रेणानेन वै शिवे । दद्याद्विप्राय विदुषे श्रोत्रियाय द्विजन्मने ॥१६॥

ततो वै भोजयेच्चैव ब्राह्मणान्वेदपारगात् ‌ । एकाधिकशतं देवि पयसा मोदकेन च ॥१७॥

एवं कृते वरारोहे पूर्वपापस्य संक्षयः । वंध्यात्वं प्रशमं याति पुत्रः खलु प्रजायते ॥१८॥

काकवन्ध्या लभेत्पुत्रं मृतवत्सा सुपुत्रिणी। व्याधयः संक्षयं यांति नात्र कार्या विचारणा ॥१९॥

इति कर्मविपाकसंहितायां चतुरशीतितमोऽध्यायः ॥८४॥

अथ पश्चाशीतितमोऽध्यायः ८५

शिव उवाच ।

शंकेश्वरपुरे देवि वसत्येको द्विजो वरः । म्लेच्छवाणीं वदन्नित्यं म्लेच्छसेवारतः सदा ॥१॥

तिष्ठति म्लेच्छनिकटे म्लेच्छविद्यासु पण्डितः । मत्स्यमांसस्य मद्यस्य भोजनं चाकरोत्सदा ॥२॥

एवं सर्वं वयो यातं धनं बहु सुसंचितम् ‌ । तद्धनं भूमिमध्ये तु स्थापितं तु गृहे शुभे ॥३॥

एकस्मिन्समये देवि भ्रातुः पुत्रः समागतः । रत्नव्यापारकरणे स दक्षश्चतुरस्तथा ।

तस्य गेहे स्थितं नित्यं रत्नं बहु सुसंचितम् ‌ ॥४॥

रत्नलोभेन भो देवि रात्रौ छुरिकया तदा । पत्न्या सह वरारोहे सुप्तं निशि जघान तम् ‌ ॥५॥

तत्सर्वं भूमिमध्ये तु स्थापितं कूरकर्मणा । द्वाम्यां रत्नं तदा गृह्म व्ययं नीतं दिने दिने ॥६॥

ततो बहुदिने याते द्विजस्य मरणं खलु । पश्चात्पत्नी मृता तस्य तयोर्नरकपातनम् ‌ ॥७॥

षष्टिवर्षसहस्त्राणि महाकष्टेन पीडितौ । नरकान्निःसृतौ द्वौ तु गजयोनी अजायताम् ‌ ॥८॥

पुनः कच्छपयोनिर्वै गोधायोनिरजायत ॥९॥

एवं योनित्रयं भुक्त्वा सरय्वा उत्तरे तटे । मानुषत्वं ततो लेभे भाग्यवान्याधुसंमतः ॥१०॥

सुशीलः सुमतिर्दक्षः स्वल्पविद्यायुतो नरः । अपुत्रो रोगवान्देवि नरभूपतिपूजितः ॥११॥

पूर्वजन्मनि देवेशि भ्रातृपुत्रस्य वै वधः । कृतो रात्रौ महादेवि तेन दोषेण वै मृतः ॥१२॥

म्लेच्छस्य सेवनाद्देवि म्लेच्छस्याशुचिभाषणात् ‌ । तेन पापेन भो देवि शरीरे रोगसंभवः ॥१३॥

गजदानं कृतं पूर्वं द्त्त शय्या सुरेश्वरि । ततफलेन महादेवि धनाढयत्वं प्रजायये ॥१४॥

अनाचारः कृतः पूर्वं पुत्रदारेण सन्ततम ‌ । तेन पापेन भो देवि नरः कन्याप्रजो भवेत् ‌ ॥१५॥

अथ शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । गायत्रीमूलमन्त्रस्य पश्चलक्षं वरानने ।

जपं च कारयेत्तद्वत्षडंशं दानमाचरेत ‌ ॥१६॥

होंम च कारयेत्कुण्डे तत्र देवि सुसंस्कृते । दशांशं तर्पणं देवि मार्जनं तद्दशांशतः ॥१७॥

भ्रातृपुत्रस्य प्रतिमां कारयेद्वरभामिनि । दशपलसुवर्णस्य विधिवत्पूजयेत्ततः ॥१८॥

मन्त्रेणानेन देवेशि गन्धधूपादिभिस्तथा ॥१९॥

गणाधिप सुराध्यक्ष सर्वसिद्धिप्रदायक । मम पूर्वं कृतं पापं ततक्षमस्व दयानिधे ॥२०॥

रौप्यपात्रे स्थितां तां तु प्रतिमां प्रार्थतेत्ततः ॥२१॥

अज्ञानाद्वा प्रमादाद्वा मया पूर्वं वधः कृतः । तत्सर्वं क्षम्यतां देव प्रपद्ये शरणं तव ॥२२॥

ॐ गणपतये नमः ॥ ॐ लक्ष्म्यै नमः ॥ ॐ सूर्याय नमः ॥ ॐ शिवाय नमः ॥

ॐ विश्वयोनये नमः ॥ ॐ गरुडाय नमः ॥ ॐ नन्दिकेश्वराय नमः ॥ ॐ चक्राय नमः ॥

ॐ त्रिशूलाय नमः ॥ ॐ पद्याय नमः ॥ ॐ शंखाय नमः ॥

एभिर्मंत्रैस्तु सर्वाणि वस्तूनि दापयेत् ‌ ततः । कलशं पूजयेद्देवि गणाधिपस्वरूपिणम ‌ ॥२३॥

गन्धपुष्पैश्च ताम्बूलैर्वस्त्रैर्नानाविधैरपि । प्रतिमां पूजितां देवि ब्राह्मणाय प्रदापयेत् ‌ ॥२४॥

दशवर्णां ततो दद्याद्वृषमेकं वरानने । पंचपात्रं ततो दद्याद्‌ब्राह्मणान्भोजयेत्ततः ॥२५॥

रविवारेणसंयुक्तां सप्तमीं विधिपूर्वकम ‌ । उपोषणं नियमतः पत्न्या सह समाचरेत् ‌ ॥२६॥

आसप्तवर्षपर्यन्तं प्रकुर्याद्वा सुरेश्वरि । ततस्तूद्यापन कुर्याद्यथाशक्त्या सुदक्षिणाम् ‌ । दद्याद्विप्राय विदुषे श्रोत्रियाय तपस्विने ॥२७॥

कूष्माण्डं नारिकेलं च पंचरत्नसमन्वितम् ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥२८॥

एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । सर्वेः रोगाः क्षयं यान्ति नीहारं भास्करोदये ॥२९॥

इति कर्मविपाकसंहितायां पश्चाशीतितमोऽध्यायः ॥८५॥

अथ षडशीतितमोऽध्यायः ८६

शिव उवाच ॥

यवनदेशे महादेवि ब्राह्मणो वेदपारगः । जयदेवेति विख्यातो गुणवाणपि शीलवान् ‌ ॥१॥

तस्य भार्या शीलवती सुशीला शीलरूपिणी । तस्यां पुत्रत्रयं जातं गुणज्ञं वेदपारगम ‌ ॥२॥

पुत्राः सर्वे गुणज्ञाश्च वेदवेदाङ्रपारगाः । ज्येष्ठपुत्रस्य चोद्वाहे स्वासा तस्य समागता ॥३॥

भगिन्याश्चादरं कृत्वा बहुमानेन पार्वति । विवाहे च समाप्ते वै ज्ञातयः स्वेषुवेश्मसु ॥४॥

गताः सर्वे विशालाक्षि ययाचे भगिनी तदा । ताटङ्कं स्वर्णरत्नाढयं भ्रातृपत्नी प्रकोपिता ॥५॥

श्रुत्वेर्ष्यया सवत्सा तु ततो याता स्ववेश्मनि । स्त्रीस्वभावाच्च देवेशि सा मृता भगिनी गृहे ॥६॥

तदुद्देशेन देवेशि शरीरं निशि साऽत्यजत ‌ । ततो बहुदिने याते तस्य मृत्युरभूत्तदा ॥७॥

पत्नी तस्य सती जाता सत्यलोको ह्यभूत्तदा । वर्षकोटित्रयं देवि सत्यलोकेऽवसत्पुनः ॥८॥

मर्त्यलोके मनुष्यत्वं लभेत् ‌ पुण्यक्षये सति । धनधान्यसमायुक्तो विद्यावाञ्छास्त्रपारगः ॥९॥

कृतं सर्वं पुराऽशुद्धं भगिनीवधकारणात् ‌ । पुत्रो न जायते देवि कन्याजन्मनि संशयः ॥१०॥

शरीरे सततं दुःखं मध्ये तस्य प्रजायते । काकवन्ध्या भवेद्भार्या मृतवत्सा सुदुःखिता ॥११॥

अस्य शान्तिं प्रवक्ष्यामि तत्सर्वं शृणु पार्वति । गृहवित्तषडंशेण पुण्यकार्यं च कारयेत् ‌ ॥१२॥

वापीकूपतडागानां जीर्णोद्वारं प्रयत्नतः । वाटिकां पथिमध्ये तु सिक्तां वै शीतवारिणा ॥१३॥

गायत्रीजातवेदोम्यां जपं वै कारयेत् ‌ ततः । लक्षद्वयं विशालाक्षि हवनं तद्दशांशतः ।

तर्पणं मार्जनं तद्वद्‌गोदानं विधिवत्ततः ॥१४॥

एवं कृते वरारोहे तस्य पुत्रः प्रयायते । गुणज्ञः सर्ववस्तूनां साधूनां सम्मतस्तथा ॥१५॥

स्वर्णदानं विशालाक्षि पलपश्चमितं तथा । ब्राह्मणाय ततो दद्यात् ‌ पूजयेद्युवतीं ततः ॥१६॥

वस्त्रालङ्रारसिन्दूरैर्गन्धाद्यैः सुमनोहरैः । ताटङ्कमुद्रिकाभिश्च गन्धमाल्यैस्तथैव च ॥१७॥

सर्वं पापं क्षयं याति व्याधिनाशो भवेद ‌ ध्रुवम ‌ ॥१८॥

ब्राह्मणीं पार्वतीरूपां ब्राह्मणं शिवरूपिणम ‌ । भोजयेद्विविधैश्चान्नैर्मोदकैः शतसंख्यकैः ॥१९॥

काकवन्ध्या लभेत्पुत्रं मृतवत्सा च पुत्रिणी । कन्यकाजननी या तु पुत्रवत्यपि जायते ॥२०॥

एवं न क्रियते देवि सप्तजन्मस्वपुत्रकः ॥२१॥

इति कर्मविपाकसंहितायां षडशीतितमोऽध्यायः ॥८६॥

अथ सप्ताशीतितमोऽध्यायः ८७

शिव उवाच ॥

गुर्जरे नगरे देवि द्विजो वसति ज्ञानवान् ‌ । बलभद्रः समाख्यातो वेदान्वै पाठयंस्ततः ॥१॥

ऋग्वेदं च यजुर्वेदं सामवेदमथर्वणम ‌ । पठनं चैव कुरुते चतुर्वेदी द्विजोत्तमः ॥२॥

एकस्मिन् ‌ दिवसे देवि कश्चिद्देशेद मृतः खलु । भोजनं तेन वै तत्र संस्कारं वै विना कृतम ‌ ॥३॥

म्लेच्छद्रव्यं च स्वीकृत्य भुक्तं पुत्रेण संयुतम ‌ । पत्न्या सह वरारोहे ततो वृद्धं वयो गतम ‌ ॥४॥

मरणं तस्य वै जातं शंकेश्वरपुरे तदा । यमाज्ञया तदा देवि यमदूतैरितस्ततः ॥५॥

नरकादर्शितास्तस्य मर्त्यलोके ततोऽभवत् ‌ । कुक्कुटत्वं विशालाक्षि काकः पारावतस्ततः ॥६॥

मानुषत्वं पुनर्लेभे शुभे देवि कुले महत् ‌ । स पंडितो यदा विद्वान् ‌ ज्ञातिधर्मविचक्षणः ॥७॥

पूर्वजन्मनि देवेशि म्लेच्छान्नभोजनं कृतम् ‌ । तेन पापेन भो देवि पुत्रः कन्या न जायते ॥८॥

प्रेतान्नं भुक्तमज्ञानात्संस्कारो न कृतः पुरा । तेन पापेन भो देवि शरीरे रोगसम्भवः ॥९॥

अस्य शान्तिं श्रृणुष्वादौ पूर्वपापप्रणाशिनीम् ‌ । गृहवित्ताष्टमं भागं ब्राह्मणाय प्रकल्पयेत् ‌ ॥१०॥

गायत्रीमूलमंत्रेण दशायुतजपं ततः । हवनं तद्दशांशेना मार्जनं तर्पणं तथा ॥११॥

दशवर्णा ततो दद्याच्छय्यादानं विशेषतः ॥१२॥

कृष्माण्डं नारिकेलं च पश्चरत्नसमन्वितम् ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापप्रणाशनम् ‌ ॥१३॥

एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । व्याधयः संक्षयं यांति काकवन्ध्या लभेत्सुतम ‌ ॥१४॥

इति कर्मविपाकसंहितायां सप्ताशीतितमोऽध्यायः ॥८७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:50:50.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sheet pile

  • फलक स्थूणा 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site