संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - रेवती नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथाष्टाधिकशततमोऽध्यायः १०८

श्री शिव उवाच ॥

वैदण्डे च पुरे देवि लुब्धको वसति प्रिये । सेवकेति समाख्यातस्तस्य भार्या तु निष्ठुरा ॥१॥

अतीव निर्दयो देवि विहंगमृगघातकः । प्रत्यहं मृगमांसस्य विक्रयं कुरुते खलः ॥२॥

एवं सर्वं वयो यातं बृद्धत्वे तु वरानने । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥

निक्षिप्तो नरके घोरे षष्टिवर्षसहस्त्रकम् ‌ । भुक्तं च विविधं दुःखं कृमिसूचीमुखादिजम् ॥४॥

नरकान्निःसृतो देवि मृगत्वं प्राप्तवान् ‌ खलु । श्रृगालस्य ततो योनिं छागयोनिं ततोऽलभत ‌ ॥ मानुषत्वं पुनर्जातं धनधान्यसमन्वितम् ॥५॥

पूर्वजन्मनि देवेशि जलदानं च वै कृतम् ‌ । धनाढयत्वं ततो जातं न पुत्रो मृगताडनात् ‌ ॥६॥

पुत्राश्च बहवो जाता मृत्युस्तेषां च जायते । रोगानां च तथोत्पत्तिर्ज्वरश्चैव पुनः पुनः ॥७॥

शान्तिं श्रृणु वरारोहे पूर्वपापप्रणाशिनीम् । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥८॥

गायत्र्याश्च शिवायेति जातवेदेति वै पुनः । दशायुतं जपं कुर्याद्दशांशं हवनं ततः ॥९॥

दशांशं मार्जनं देवि तर्पणं तद्दशांशतः । ततो वै भोजयेत् ‌ प्रेमणा द्विजान ‌ देवि दशांशतः ॥१०॥

दशवर्णां ततो दद्याद् ‌ वृषभं भूषितं शुभम् ॥११॥

पलपश्चसुवर्णस्य माल्यं गेरुयुतं तु वै । ब्राह्मणाय ततो दद्याच्छय्यादानमनन्तरम् ॥१२॥

एवं कृते वरारोहे पुत्रः खलु प्रजायते व्याधयः संक्षयं यांति काकवन्ध्या लभेतसुतम् ॥१३॥

इति कर्मविपाकसंहितायां अष्टाधिकशततमोऽध्यायः ॥१०८॥

अथ नवाधिकशततमोऽध्यायः १०९

श्री शिव उवाच ॥

श्री पुरे नगरे देवि द्विज एकोऽवसतपुरा । पुत्रपौत्रयुतो देवि धनाढयो वेदवर्जितः ॥१॥

वैश्यकर्मरतः सोऽपि विक्रय्यं कुरुते सदा । महिषीवृषवस्त्राणां चामरव्यालवाजिनाम् ‌ ॥२॥

प्रत्यहं विक्रयं कृत्वा धनस्य बहुसंग्रही । एकदा तद‌गृहे देवि गुरुस्तस्य समागतः ॥३॥

आदरं बहु चक्रे स मासे जाते ततः शिव । गुरुरस्य हरिद्वारे स्त्रानार्थं च गतस्तदा ॥४॥

गुरुपुत्रस्तु वै मूर्तिं स्वर्णरत्नयुतां तथा । सद्रव्यां वै ततो देवि ब्राह्मणाय समर्प्य च ॥५॥

हरिद्वारे ततो गत्वा तत्र प्राणमथात्यजत् ‌ । मूर्तिद्वयं गुरोश्चैव विक्रीय तद ‌ व्ययं कृतम् ॥६॥

एवं बहुगते काले मरणं ब्राह्मणस्य च । यमाज्ञया तस्य दूतैर्तरके नाम्रि कर्दमे ।

निक्षिप्तो वै ततो देवि षष्टिवर्षसहस्त्रकम् ॥७॥

नरकान्निःसृतो देवि व्याघ्रयोनिं ततोऽलभत् ‌ । बिडालस्य पुनर्योनिं मानुषत्वं ततोऽलभत् ‌ ॥८॥

तीर्थे पुण्यतमे देवि कोशलायां सुरेश्वरि । ब्राह्मणस्य कुले जज्ञे ज्ञानवान्प्रियदर्शनः ॥९॥

देवतायतनप्रीतिः परस्त्रीलम्पटस्तथा ॥१०॥

तस्यापत्यत्रयं देवि कन्यका पुत्रकौ तथा । तेषां वै मरंण जातं पुनः पुत्रो न जायते ॥११॥

काकवन्ध्याऽभवद्भार्या गौराङ्री सुन्दरी तु सा । तन्वङ्री दीर्घकेशी च भर्त्रा साऽप्रियभाषिणी ॥१२॥

तस्योपायं प्रवक्ष्येऽहं पुनः पुत्रो यतो भवेत् ‌ । हरिवंशश्रवणं देवि गोपालस्य तु कीर्तनम् ॥१३॥

वंशगोपालमन्त्रं वै गायत्रीमन्त्रमेव च । लक्षद्वयं वरारोहे जपेत् ‌ प्रीत्या सदा सुधीः ॥१४॥

हवनं तद्दशांशेन तर्पणं मार्जनं तथा । तुलसीवाटिकां कृत्वा तन्मूले विष्णुपूजनम् ॥१५॥

दशवर्णाख्यगोदानं शय्यादानं ततः शिवे । ब्राह्मणानभोजायेत् ‌ पश्चाच्छतसंख्यान्द्विजोत्तमान् ‌ ॥१६॥

विष्णोश्च प्रतिमां देवि हेम्रो दशपलास्य हि । पूजयित्वा विधानेन ब्राह्मणाय प्रदापयेत् ‌ ॥१७॥

एवं कृते न सन्देहो वंशो भवति नान्यथा । काकवन्ध्या लभेतपुत्रं जीवत्पुत्र मृतप्रजा ॥१८॥

व्याधयः संक्ष्यं यान्ति वन्ध्यात्वं च प्रशाम्यति । एवं न कुरुते देवि सप्तजन्मस्वपुत्रवान् ‌ ॥१९॥

इति कर्मविपाकसंहितायां नवाधिकशततमोऽध्यायः ॥१०९॥

अथ दशाधिकशततमोऽध्यायः ११०

शिव उवाच ॥

माणिक्यनगरे देवि वसन्ति बहवो जनाः । लवणकारो वसत्येक प्रत्यहं लवणं व्यधात् ‌ ॥१॥

लवणस्य विक्रयान्नित्यं व्ययं कुर्वन्दिने दिने । तस्य मित्रं द्विजः कश्चिदागतस्तस्य वै गृहे ॥२॥

धनाढयो रत्नसंयुक्तस्तस्त्र वासमकारयत् ‌ । आदरं बहुसम्मानं सख्युः स कृतवाञ्छिवे ॥३॥

पत्नी शूद्रस्य वै दुष्टा पुंश्चली चपला तथा । मासमेकं वरारोहे तस्य विप्रस्य च स्थितौ ॥४॥

मित्रपत्न्या विषं दत्तं ब्राह्मणाय तदा शिवे । भोजनान्नस्य वै मध्ये लवणकारो न वेद तत् ‌ ॥५॥

ब्राह्मणस्या भवन्मृत्युरर्द्धरात्रे गते सति । नद्यां शवं ततस्त्यकत्वा धनं तस्य गृहीतवान् ‌ ॥६॥

ब्राह्मणस्य धनं गृह्य व्ययं कुर्वन् ‌ दिने दिने । भार्यया सह पुत्राम्यां भुक्तं द्रव्यं वरानने ॥७॥

ततो वृद्धस्य सञ्जातं मरणं तस्य पापतः । पश्चान्मृता तु वै भार्या कुलटा व्यभिचारिणी ॥८॥

यमदूतैर्महाघोरे नरके मृशदारुणे । कुम्भीपाके तदा देवि निक्षिप्तश्च यमाज्ञया ॥९॥

युगमेकं विशालाक्षि भुक्त्वा नरकयातनाम् ‌ । नरकान्निःसृतो देवि सूकरत्वमवाप्तवान् ‌ ॥१०॥

पुनः काकस्य वै योनिं बिडालत्वं ततोऽलभत् ‌ । मानुषत्वं ततो देवि देशे शुद्धे ततोऽभवत् ‌ ॥११॥

पूर्वजन्मनि देवेशि कुरुक्षेत्रे यतो गतः । अतो धनं भावत्यस्य नापत्यं हि द्विजो हतः ॥१२॥

शरीरे जायते व्याधिर्भार्या तस्य मृतप्रजा । अस्य पापस्य शमनं शान्तिं श्रृणु वरानने ॥१३॥

गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥१४॥

गायत्रीजातवेदोम्यां त्र्यंबकेति ऋचं पुनः । लक्षत्रयं वरारोहे जपं वै कारयेत्सुधीः ॥१५॥

हवनं कारयेच्चैव योनिकुण्डे सुशोभने । चतुरस्त्रेवरारोहे दशांशं विधिपूर्वकम् ।

तर्पणं तद्दशांशेन मार्जनं च विशेषतः ॥१६॥

सवत्सां ततो दद्यात्स्वर्णवस्त्रविभूषिताम् । ब्राह्मणं भोजयेत् ‌ पश्चात्कूष्माण्डं प्रददेत्सुधीः ॥१७॥

एवं कृते वरारोहे पुत्रो भवति नान्यथा । व्याधयः संक्षयं यान्ति काकवन्ध्या पुनः सुतम् ‌ ॥१८॥

मृतवत्सा लभेत् ‌ पुत्रं चिरंजीविनमुत्तमम् ॥१९॥

इति कर्मविपाकसंहितायां दशाधिकशततमोऽध्यायः ॥११०॥

अथैकादशाधिकशततमोऽध्यायः १११

शिव उवाच ॥

अलर्कस्य पुरे देवि क्षत्रियो वसति प्रिये । चन्द्रशर्मेति विख्यातः पत्नी देवी ततोऽभवत् ‌ ॥१॥

क्षत्रधर्मरतो नित्यं धनाढयः शूरसंमतः । कृष्णदास इति ख्यातो विप्रस्तस्य पुरोहितः ॥२॥

विप्राय प्रददऔ मूमिं गिरिजे विग्रहोऽभवत ‌ । ततो बहु दिने याते दण्डं तस्मात् ‌ अयाचतः ॥३॥

ब्राह्मणोऽप्यवदद्देव नाहं दण्डयः कदाचन । ततो रोषपरीतात्मा क्षत्रियो ब्राह्मणं प्रति ॥४॥

दुर्वचश्चावदद्देवि ब्राह्मणं साधुसंमतम् । मरणं ब्राह्यणस्यैव मूम्युद्देशेन वै प्रिये ॥५॥

ततो बहु गते वर्षे मरणं क्षत्रियस्य तु । यमदूतैर्महाघोरे नरके नाम्रि दारुणे ॥६॥

कुंभीपाके महाघोरे क्षिप्तः स यमशासनात् ‌ । युगत्रितयपर्यंतं नरके दुःखमाप्तवान ‌ ॥७॥

नरकान्निःसृतो देवि प्रेतत्वं प्राप्तवानसौ । सूकरस्य पुनर्योनिं ततो जातस्तु मानुषः ॥८॥

मध्यदेशे विशालाक्षि हिमविन्ध्यागमध्यगे । धनधान्यसमायुक्तो ब्राह्मणानां च सेवकः ॥९॥

पूर्वजन्मनि देवेशि मरणं ब्राह्मणस्य तु । मूम्युद्देशेन देवेशि तत्पापेन सुतो न हि ।

पुत्रोत्पत्तिः प्रमादाच्चेन्मरणं तस्य जायते ॥१०॥

काकवन्ध्या भवेन्नारी मृतवत्सा पुनः पुनः । शरीरे व्याधिरुत्पन्नो ज्वरस्तीव्रो मुहुर्मुहुः ॥११॥

अस्य शान्तिमहं वक्ष्ये श्रृणु देवि समासतः । गृहवित्तषडंशं च ब्राह्मणाय समर्पयेत् ‌ ॥१२॥

गायत्रीमूलमंत्रस्य पश्चलक्षजपं चरेत् ‌ । दशांशं कारयेद्भक्त्या हवनं विधिपूर्वकम् ।

तर्पणं मार्जनं तद्वद्‌गोदानं च विशेषतः ॥१३॥

ब्राह्मणस्य ततो देवि प्रतिमां कारयेद्‌बुधः । हेम्रः पश्चपलस्यैव वस्त्रैरन्नैर्विभूषिताम् ‌ ॥१४॥

ततो द्विजस्य्य प्रतिमां पूजयेत्तु यथाविधि । मंत्रेणानेन देवेशि पाद्यगन्धादिभीः पृथक् ‌ ॥१५॥

वासुदेव जगन्नाथ शरणागतवत्सल । ब्रह्महत्या कृता पूर्वं तत्सर्वं क्षन्तुमर्हसि ॥१६॥

वल्मीकमृत्तिकां गृह्म वेदिं वै कारयेत्ततः । तन्मध्ये सर्वतोभद्रं शुभद्रव्यैस्तु कारयेत् ‌ ॥१७॥

तन्मध्ये प्रतिमां स्थाप्य ततः पूजां तु कांरयेत् ‌ ॥१८॥

ॐ वासुदेवाय नमः ॥ ॐ जगन्नाथाय नमः ॥ ॐ ह्रषीकेशाय नमः ॥ ॐ दामोदराय नमः ॥

ॐ अच्युताय नमः ॥ ॐ शंखचक्रगदाधराय नमः ॥ ॐ विष्णवे नमः ॥ ॐ शार्ङ्रिणे नमः ॥

ॐ अनन्ताय नमः ॥ ॐ गरुडध्वजाय नमः ॥ दशमन्त्रैर्महेशानि पूजयित्वा ततः सुधीः ।

प्रतिमां रक्तवस्त्रेण च्छादितां पुष्पभूषिताम् ॥१९॥

ब्राह्मणाय ततो दद्यान्महाविष्णुस्वरूपिणे । प्रभोजयेत्ततो विप्रान्दक्षिणां दापयेत्ततः ॥२०॥

ततो विसर्जनं कुर्याद्वाचकं प्रणिपत्य च ॥२१॥

एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । काकवन्ध्या लभेतपुत्रं सर्वव्याधि प्रणाशनन् ‌ ॥२२॥

मृतवत्सा च या नारी जीवतपुत्र च जायते ॥२३॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ अतः परतरं नास्ति सत्यं सत्यं वरानने ॥२४॥

इति कर्मविपाकसंहितायां एकादशाधिकशततमोऽध्यायः ॥१११॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP