TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - कृत्तिका नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


कृत्तिका नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ द्वादशोऽध्यायः १२

ईश्वर उवाच ॥

कृत्तिकायां वरारोहे प्रथमे चरणे तथा । यो जायते नरो देवि तस्य वक्ष्ये शुभाशुभम् ‌ ॥१॥

ईशानेऽपि महादेवि कोशलापुरतोऽनघे । राजपुत्रोऽवसत्कश्चित्रगरे गूढसंज्ञके ॥२॥

नामतश्चाहिशर्मेति तस्य पत्नी कला शुभा । धनधान्यसमायुक्तो रूपवान ‌ मन्मथो यथा ॥३॥

याति चाखेटकं नित्यं मृगीं हत्वा च गर्भिणीम् ‌ । प्रत्यहं मृगमांसेन पोषयेत्स्वतनुं तथा ॥४॥

शरीरे वृद्धता जाता दया तस्या न चाभवत् ‌ । ततो वै मरणाद्देवि सती भार्या ततोऽभवत् ‌ ॥५॥

सत्यलोकं गतस्तेन भार्यायाः सुकृतेन तु । भुक्तं कल्पमितं पुण्यं सत्यलोके वरानने ॥६॥

पुनः पुण्यक्षये जाते मानुषत्वमुपागतः । पत्न्या सह ततो देवि कुले महति पूजिते ॥७॥

पूर्वजन्मविपाकेन मृतवत्सत्वमाप्रुयात ‌ । मृगीं सगर्भां हतवान् ‌ पूर्वजन्मनि सुव्रते ॥८॥

तेन कर्मविपाकेन मर्त्यलोके ह्मपुत्रकः । तस्य शान्तिं प्रवक्ष्यामि यतः पुत्रः प्रजायते ॥९॥

गायत्रीजातवेदोभ्यां लक्षमेकं जपं तथा । दशांशहोमः कर्त्तव्यो विप्राणां भोजनं ततः ॥१०॥

सुवर्णेन मृगीं कृगबालं तथैव च । पूजयित्वा विधानेन कपिलां च ततः प्रिये ॥११॥

प्रदद्याद्वेदविदुषे ब्राह्मणाय सुतेजसे । हरिवंशस्य श्रवणं चण्डीपाठं शिवार्चनम् ‌ ॥१२॥

एवं कृत्वा विधानेन शीघ्रं पुत्रः प्रजायते । कन्यका न भवेत्तस्य गर्भपातो न जायते ॥१३॥

रोगात्प्रमुच्यते रोगी सर्वकामः प्रजायते ॥१४॥

इति कर्मविपाकसंहितायां द्वादशोऽध्यायः ॥१२॥

अथ त्रयोदशोऽध्यायः १३

शिव उवाच ॥

नराणां पुण्यशीलानामिह जन्मसमुद्भवम् ‌ । सुखं वक्ष्याम्यहं देवि पूर्वकर्मफलं यतः ॥१॥

येन द्त्तं पुरा दानं गोसुवर्णगजादिकम् ‌ । तत्फलेन महादेवि इह तस्मात् ‌ सुखं भवेत् ‌ ॥२॥

शरीरे जन्मतः कान्तिर्लक्ष्मीवान ‌ गुणवानपि । सौख्यं प्रभुज्यते नित्यं पुत्रतो धनतस्तथा ॥३॥

न रोगो जायते देवि दुःखं नैव कदाचन । इह लोके सुखं भुक्त्वा कीर्तिमान् ‌ सुखमेधते ॥४॥

अथ वक्ष्याम्यहं देवि नक्षत्रे कृत्तिकाहये । द्वितीयचरणे देवि पूर्वं यत् ‌ फलमुच्यते ॥५॥

कान्यकुब्जो द्विजः कश्चिदिन्द्रशर्मेति नामतः । पत्नी रुद्रमती देवि कुशीला कलहप्रिया ॥६॥

वेदपाठरतो नित्यं षडङ्रस्य च पाठकः । एकदा तत्र वै देशे काश्चित् ‌ क्षत्री नराधिपः ॥७॥

मरणे तस्य वै जाते तद्विप्रस्य निमन्त्रणम् ‌ । भुंक्ते तेन तदा देवि क्षत्रियस्य क्रियासु च ॥८॥

गृहीतं तस्य वै दानं शय्यां चैव गजादिकम् ‌ । सर्वं गृह्य गृहं गत्वा भुक्तं बहुदिनं प्रिये ॥९॥

ततो बहुगते काले तस्य विप्रस्य पश्वता । स यातो यमलोके वै नरके च सुदारुणे ॥१०॥

भुक्तं स्वकर्मजं दुःखं युगमेकं वरानने । गजव्याघ्रकृमेर्योनिं ततो भुंक्ते पृथक् ‌ पृथक् ‌ ॥११॥

मनुष्यत्वं ततः प्राप्तः पूर्वकर्मविपाकतः । पुत्रो न जायते देवि कन्यका विविधास्तथा ॥१२॥

मृतवत्सा भवेन्नारी रोगाश्च विविधाः प्रिये । शान्ति तस्य प्रवक्ष्यामि यतः पुत्रमवाप्स्यते ॥१३॥

गायत्रीलक्षजाप्येन त्र्यंबकेन तथा प्रिये । होमं च कारयामास षडंशं दानमेव च ॥१४॥

दशवर्णाश्च गां दद्याद्विधिवद्‌ब्राह्मणाय वै । भोजयेच्छतसंख्यं च ब्राह्मणं वेदपारगम् ‌ ॥१५॥

एवं कृतेन भो देवि पुत्रश्चैव प्रजायते । रोगाणां च निवृत्तिः स्यात् ‌ पूर्वपापक्षयो भवेत् ‌ ॥१६॥

इति कर्मविपाकसंहितायां त्रयोदशोऽध्यायः ॥१३॥

अथ चतुर्दशोऽध्यायः १४

शिव उवाच ॥

तृतीयं तस्य वै देवि चरणं वदतः श्रृणु । कान्यकुब्जकुले कश्चिन्नगरे सूर्यसंज्ञके ॥१॥

उद्योतशर्मा विख्यातस्तस्य स्त्री गिरिजाऽभवत् ‌ । वेदपाठरतो नित्यं दारिद्रयेणैव पीडितः ॥२॥

कर्कशा भामिनी तस्य निष्ठुरं वदति स्मृता । एकदा सूर्यग्रहणे तैलकारस्तदागतः ॥३॥

गङ्रामध्य ततो दानं तस्मै विप्राय वै शिवे । प्रददौ लक्षसंख्यां वै स्वर्णमुद्रां तु दक्षिणाम् ‌ ॥४॥

प्रतिगृह्य ततोदानं गृहं गत्वा द्विजस्तदा । व्ययं करोति स्म तदा भार्यापुत्रेण चैव हि ॥५॥

वेदपाठं ततस्त्यक्त्वा प्रत्यहं ससुखं प्रिये । मरणं वृद्धसमये गृहे शय्योपरि स्थिते ॥६॥

स्वर्णमध्ये च दानं वै न द्त्तं गिरिनन्दिनि । स गतो नरके घोरे यमराजेन प्रेरितः ॥७॥

भुंक्ते नरकजं दुःखं स्त्रीपुत्रेण च संयुतः । युगमेकं वरारोहे प्रेतत्वं काकतां गतः ॥८॥

ततः शृगालयोनिं च मानुषत्वं ततो गतः । पूर्वजन्मकृतं कर्म इह लोके प्रभुज्यते ॥९॥

पाठयामास वै वेदान् ‌ ब्राह्मणेभ्यो वरानने । तत्संचितफलाद्देवि महदैश्वर्यमाप्नुयात् ‌ ॥१०॥

भार्या मृता ततः पुत्रो द्वितीया च विवाहिता । शरीरे बहवो रोगाः सुखं तस्य न जायते ॥११॥

वृद्धे सति वरारोहे पुत्रः शत्रुर्भवेदिति । मृतवत्सा भवेन्नरी पूर्वजन्मविपाकतः ॥१२॥

तस्य पुण्यामंह वक्ष्ये यतो रोगो निवर्तते । पुनः पुत्रो भवेद्देवि कन्यका नैव जायते ॥१३॥

जातवेदादिमन्त्रेण जपं वै कारयेद्‌बुधः । लक्षत्रयं प्रयत्नेन ततो होमं तिलादिभिः ॥१४॥

चतुरस्त्रे शुभे कुण्डे हरिवंशश्रुतिस्ततः । भूदानं विधिवत्कुर्त्याच्छय्यां पात्राय दापयेत् ‌ ॥१५॥

एवं कृते न संदेहो रोगनाशो भविष्यति । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१६॥

इति कर्मविपाकसंहितायां चतुर्दशोऽध्यायः ॥१४॥

अथ पश्चदशोऽध्यायः १५

शिव उवाच ॥

कान्यकुब्जो द्विजः कश्चिन्नर्मदादक्षिणे तटे । माहिष्मत्यां वसत्येको द्विजः परमवैष्णवः ॥१॥

नामतो योधशर्मेति तस्य भार्या तु दानवी । प्रत्यहं वैश्यवृत्तिस्तु विक्रयं चाकरोत्सदा ॥२॥

तत्र वैश्य उवासैको धनधान्यसमन्वितः । वैश्यतस्तेन विप्रेण स्वर्णं नीतमृणं बहुअ ॥३॥

ततो बहुतिथे काले स विप्रो मृत्युमागतः । ऋणं तस्मै न दत्तं वै वैश्याय तु स्वकर्मण ॥४॥

मरणे सति विप्रस्तु रौरवं नरकं गतः । वैश्यकर्म कृतं तेन स्वकर्म परिमुच्यते ॥५॥

विंशद्वर्षसहस्त्राणि नागलोके वस्त्यसौ । नरकान्निःसृतो देवि यातो वृषभसूकरौ ॥६॥

योनिद्वयं फलं भुक्त्वा मनुष्यत्वमवाप्तावान् ‌ । धनधान्यसमायुक्तस्तत्पुण्यस्य प्रभावतः ॥७॥

ऋणसम्बन्धतो देवि वैश्यपुत्रत्वमागतः । प्रत्यहं तस्य वै द्र्व्यं व्ययं कुर्याद्दिनेदिने ॥८॥

मद्यवेश्याप्रदानेन धनं सर्वं व्ययं कृतम् ‌ । यदा पुत्रः समुत्पन्नो युवरूपोऽभवत्प्रिये ॥९॥

तदा मृत्युमवाप्रोति शोकं द्त्त्वा तयोस्तदा । पुनः पुत्रो न जातो वै पूर्वजन्मविपाकतः ॥१०॥

प्रायश्चित्तं प्रवक्ष्यामि पूर्वपापविशुद्धये । गायत्रीलक्षजाप्येन तदर्थं वाटिकां पथि ॥११॥

कूपं प्रयत्नतः कुर्यात्तडागं विधिपूर्वकम् ‌ । होमं वै कारयेच्चैव विधिपूर्वं वरानने ॥१२॥

पलपश्चसुवर्णस्य्य दानं दद्याद्विशेषतः । दशवर्णा प्रदातव्या स्वर्णयुक्ता सहाम्बरा ॥१३॥

भोजयेच्छतविप्रांस्तु यथाशक्ति सदक्षिणान् ‌ । एवं कृते न संदेहो रोगनाशो भवेदनु ॥१४॥

पुत्रपौत्रा विवर्द्धन्ते मम वाक्यं न चान्यथा ॥१५॥

इति कर्मविपाकसंहितायां पश्चदशोऽध्यायः ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-04T06:06:22.9630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अमर्याद

  • वि. 
  • ( लोक , शास्त्र इ० च्या ) मर्यादेच्या किंवा योग्य सीमेच्या पलीकडे गेलेला ; ठराविक मर्यादा उल्लंघन करणारा ; स्वैर ; स्वेच्छाचारी ; मोकाट ; अव्यवस्थित ; ( ल . ) फंदी ; अनाचारी ; चैनी . 
  • अतिशय ; अत्यंत ; प्रमाणाबाहेर ; बेसुमार ; कल्पनेच्या आटोक्याच्या बाहेर ; विपुल ( क्रिया , रकम , गुण , इसम वगैरे . ) [ सं . अ + मर्यादा ] 
  • वि. अत्यंत , अतिशय , असीम , कल्पनेबाहेरचा , प्रमाणाबाहेर , बेसुमार ; 
More meanings
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.