संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता| अध्यायः ४४ उमा संहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ उमासंहिता - अध्यायः ४४ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४४ Translation - भाषांतर मुनय ऊचुः ॥व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे ॥कृपया परया स्वामिन्कृतार्थान्निष्कुरु प्रभो ॥१॥व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ॥विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥२॥तस्यां जातो महायोगी कथं व्यासः पराशरात् ॥सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ॥३॥सूत उवाच ॥एकदा तीर्थयात्रायां व्रजन्योगी पराशरः ॥यदृच्छया गतो रम्यं यमुनायास्तटं शुभम् ॥४॥निषादमाह धर्मात्मा कुर्वन्तं भोजनन्तदा ॥नयस्व यमुनापारं जलयानेन मामरम् ॥५॥इत्युक्तो मुनिना तेन निषादस्स्वसुतां जगौ ॥मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ॥६॥तापसोऽयं महाभागे दृश्यन्तीगर्भसंभवः ॥तितीर्षुरस्ति मर्धाब्धिश्चतुराम्नायपारगः ॥७॥इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् ॥संवाहयति नौकायामासीनं सूर्य्यरोचिषम् ॥८॥कालयोगान्महायोगी तस्यां कामातुरोऽभवत् ॥दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ॥९॥ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् ॥दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे ॥१०॥तमुवाच विशालाक्षीं वचनं स्मितपूर्वकम् ॥किमिदं क्रियये कर्म वाचंयम विगर्हितम् ॥११॥वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते ॥निषादजा त्वहम्ब्रह्मन्कथं संगो घटेत नौ ॥१२॥दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः ॥तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ॥१३॥विद्यया वपुषा वाचा कुलशीलेन चान्वितः ॥कामबाणवशं यातो महदाश्चर्यमत्र हि ॥१४॥प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह ॥भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ॥१५॥इति संचिन्त्य हृदये निजगाद महामुनिम् ॥तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न ॥१६॥सूत उवाच ॥इति श्रुत्वा वचस्तस्या योगिराजः पराशरः ॥तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ॥१७॥पुनर्जग्राह तां बालां मुनिं कामप्रपीडितः ॥कंपमाना तु सा बाला तमुवाच दयानिधिम् ॥१८॥दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा ॥भवांस्तु परमोदारविचारो योगिसत्तमः ॥१९॥नावयोर्घटते सङ्गो काचकांचनयोरिव ॥तुल्यजात्याकृतिकयोः संगः सौख्यप्रदो भवेत् ॥२०॥इत्युक्तेन तया तेन क्षणमात्रेण कामिनी ॥कृता योजनगंधा तु रम्यरूपा मनोरमा ॥२१॥पुनर्जग्राह तां बालां स मुनिः कामपीडितः ॥ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ॥२२॥रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ ॥दिवासंगे महान्दोषो निन्दा चापि दुरासदा ॥२३॥तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी ॥पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ॥२४॥तयोक्तमिदमाकर्ण्य वचनं मुनिपुंगवः ॥नीहारं कल्पयामास सद्यः पुण्यबलेन वै ॥२५॥नीहारे च समुत्पन्ने तमसा रात्रिसंनिभे ॥व्यवायचकिता बाला पुनः प्रोवाच तम्मुनिम् ॥२६॥योगिन्नमोघवीर्य्यस्त्वं भुक्त्वा गन्तासि मां यदि ॥सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ॥२७॥कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति ॥हसिष्यति तदा लोकाः पितरं किं ब्रवीम्यहम् ॥२८॥ ॥पराशर उवाच ॥रम बाले मया सार्द्धं स्वच्छन्दं कामजै रसैः ॥स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये ॥२९॥मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव ॥वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि ॥३०॥सत्यवत्युवाच ॥जानते न पिता माता न वान्ये भुवि मानवाः ॥कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मान्तदा ॥३१॥पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् ॥सौगन्ध्यं सर्वदांगे मे तारुण्यं च नवंनवम् ॥३२॥पराशर उवाच ॥शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति ॥विष्ण्वंशसंभवः पुत्रो भविता ते महायशाः ॥३३॥किंचिद्वै कारणं विद्धि यतोऽहं कामपीडितः ॥दृष्ट्वा चाप्सरसारूपं नामुह्यन्मे नमः क्वचित् ॥३४॥मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् ॥न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत् ॥३५॥पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत् ॥भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये ॥३६॥इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः ॥वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने ॥३७॥सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् ॥असूत सूर्य्यजाद्वीपे कामदेवमिवात्मजम् ॥३८॥वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् ॥पिशंगीभिर्जटाभिश्च राजितो महसां चयः ॥३९॥जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत ॥गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥४०॥मातर्यदा भवेत्कार्यं तव किंचिद्धृदीप्सितम् ॥संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे ॥४१॥इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः ॥जगाम च तपः कर्त्तुं तीर्थं पापविशोधनम् ॥४२॥सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती ॥स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम् ॥४३॥द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् ॥वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः ॥४४॥तीर्थराजं प्रथमतो धर्मकामार्थ मोक्षदम् ॥नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम् ॥४५॥अयोध्यां मथुरां चैव द्वारकाममरावतीम् ॥सरस्वतीं सिंधुसङ्गं गंगा सागरसंगमम् ॥४६॥काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम् ॥कालञ्जरं प्रभासं च तथा बदरिकाश्रमम् ॥४७॥महालयन्तथोंकारक्षेत्रं वै पुरुषोत्तमम् ॥गोकर्णं भृगुकच्छं च भृगुतुंगं च पुष्करम् ॥४८॥श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च ॥गत्वावगाह्य विधिना चचार परमन्तपः ॥४९॥एवन्तीर्थान्यनेकानि नानादेशस्थितानि ह ॥पर्य्यटन्कालिकासूनुः प्रापद्वाराणसीम्पुरीम्५०॥यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी ॥भक्तानाममृतन्दातुं विराजेते कृपानिधी ॥५१॥प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् ॥कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः ॥५२॥दृष्ट्वा लिंगानि सर्वाणि विश्वेशप्रमुखानि च ॥स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥५३॥नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ॥सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥९४॥दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥आदिकेशवमुख्यांश्च केशवान्परितोष्य च ॥५५॥लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः ॥कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ॥५६॥स्थापयामास पुण्यात्मा लिंगं व्यासेश्वराभिधम् ॥यद्दर्शनाद्भवेद्विप्र नरो विद्यासु वाक्पतिः ॥५७॥लिंगान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः ॥असकृच्चिन्तयामास किं लिगं क्षिप्रसिद्धिदम् ॥५८॥यमाराध्य महादेवं विद्याः सर्वा लभेमहि ॥पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात् ॥५९॥श्रीदमोंकारनाथं वा कृत्तिवासेश्वरं किमु ॥केदारेशन्तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥६०॥कालेशं वृद्धकालेशं कालशेश्वरमेव वा ॥ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरन्तु वा ॥६१॥दशाश्वमेधमीशानं द्रुमिचण्डेशमेव वा ॥दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम् ॥६२॥प्रसन्नवदनेशं वा धर्म्मेशं तारकेश्वरम् ॥नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ॥६३॥पर्वतेशं पशुपतिं हाटकेश्वरमेव वा ॥बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा ॥६४॥भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ॥मरुतेशन्तु मोक्षेशं गंगेशं नर्मदेश्वरम् ॥६५॥कृष्णेशं परमेशानं रत्नेश्वरमथापि वा ॥यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ॥६६॥अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा ॥व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा ॥६७॥वरुणेशं विधीशं वा हरिकेशेश्वरन्तु वा ॥भवानीशं कपर्द्दीशं कन्दुकेश मजेश्वरम् ॥६८॥विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा ॥नादेशं कपिलेशं च भुवनेश्वरमेव वा ॥६९॥बाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा ॥विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम् ॥७०॥अमृतेशं सतीशं वा पार्वतीश्वरमेव वा ॥सिद्धेश्वरं मतंगेशं भूतीश्वरमथापि वा ॥७१॥आषाढीशं प्रकामेशं कोटिरुद्रेश्वरन्तथा ॥मदालसेश्वरं चैव तिलपर्णेश्वरं किमु ॥७२॥किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् ॥इत्यादिकोटिलिंगानां मध्येऽहं किमुपाश्रये ॥७३॥इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान् ॥क्षणं विचारयामास ध्यानसुस्थिरचेतसा ॥७४॥आज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः ॥सिद्धैः संपूजितं लिंगं धर्म्मकामार्थमोक्षदम् ॥७५॥दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् ॥उद्धाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि ॥७६॥अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् ॥यत्रास्ते परमं लिंगं मध्यमेश्वरसंज्ञकम् ॥७७॥न मध्यमेश्वरादन्यल्लिंगं काश्यां हि विद्यते ॥यद्दर्शनार्थमायान्ति देवाः पर्वणिपर्वणि ॥७८॥अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः ॥अस्याराधनतो विप्रा बहवः सिद्धिमागताः ॥७९॥यः प्रधानतया काश्या मध्ये तिष्ठति शङ्करः ॥स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः ॥८०॥तुम्बुरुर्नाम गंधर्वो देवर्षिर्नारदस्तथा ॥अमुमाराध्य संपन्नो गानविद्याविशारदौ ॥८१॥अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत् ॥ब्रह्मा विष्णुश्च रुद्रश्च स्रष्टृपालकहारकाः ॥८२॥धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट् ॥खट्वांगो नाम भूपालोऽनपत्योऽपत्यवानभूत् ॥८३॥अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः ॥सदेहा कोकिलालापा लिंगमध्ये लयं गता ॥८४॥श्रीकरो गोपिकासूनुः सेविता मध्यमेश्वरम् ॥गाणपत्यं समालेभे शिवस्य करुणात्मनः ॥८५॥भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ ॥विद्यापारंगमौ जातौ प्रसादान्मध्यमेशितुः ॥८६॥अहमप्यत्र संपूज्य मध्यमेश्वरमीश्वरम् ॥पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा धुवम् ॥८७॥इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः ॥भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती ॥८८॥क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् ॥वातभुग्जलभुक्क्वापि क्वचिन्निरशनव्रती ॥८९॥इत्यादि नियमैर्योगी त्रिकालं मध्यमेश्वरम् ॥पूजयामास धर्म्मात्मा नानावृक्षोद्भवैः फलैः ॥९०॥इत्थं बहुतिथे काले व्यतीते कालिकासुतः ॥स्नात्वा त्रिपथगातोये यावदायाति स प्रगे ॥९१॥मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् ॥तावद्ददर्श पुण्यात्मा मध्येलिंगं महेश्वरम् ॥९२॥उमाभूषितवामांगं व्याघ्रचर्म्मोत्तरीयकम् ॥जटाजूटचलद्गंगातरंगैश्चारुविग्रहम् ॥९३॥लसच्छारदबालेन्दुचन्द्रिकाचन्दितालकम् ॥भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम् ॥९४॥कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् ॥पंचवर्षाकृति बालं बालकोचितभूषणम् ॥९५॥दधानं कोटिकन्दर्प्पदर्पहानि तनुद्युतिम् ॥नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया ॥९६॥करुणापारपाथोधिं भक्तवत्सलनामकम् ॥आशुतोषमुमाकान्तं प्रसादसुमुखं हरम् ॥९७॥समालोक्य स्तुतिं चक्रे प्रेमगद्गया गिरा ॥योगीनामप्यगम्यन्तं दीनबन्धुं चिदात्मकम् ॥९८॥वेदव्यास उवाच ॥देवदेव महाभाग शरणागतवत्सल ॥वाङ्मनः कर्मदुष्पाप योगिनामप्यगोचर ॥९९॥महिमानं न ते वेदा विदामासुरुमापते ॥त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च ॥१००॥त्वमाद्यः सर्वदेवानां सच्चिदानंद ईश्वरः ॥नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव ॥१०१॥त्वमेव परमं ब्रह्म मायापाशनिवर्तकः ॥गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवांभसा ॥१०२॥न ते जन्म न वा शीलं न देशो न कुलं च ते ॥इत्थं भूतोपीश्वरत्वं त्रिलोक्याः काममावहे ॥१०३॥न च ब्रह्मा न लक्ष्मीशो न च सेन्द्रा दिवौकसः ॥न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे ॥१०४॥त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः ॥त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम् ॥१०५॥नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे ॥पुराणपुरुषायाद्धा शंकराय परात्मने ॥१०६॥इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः ॥तावत्स बालो हृष्टात्मा वेदव्यासमभाषत ॥१०७॥वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते ॥नादेयं विद्यते किंचिद्भक्ताधीनो यतोऽस्म्यहम् ॥१०८॥तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः ॥प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥१०९॥सर्वान्तरात्मा भगवाञ्छर्वः सर्वप्रदो भवान् ॥याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥११०॥इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः ॥शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत् ॥१११॥बाल उवाच ॥त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि ॥अचिरेणैव कालेन स भविष्यत्यसंशयः ॥११२॥कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः ॥सेतिहासपुराणानि सम्यङ्निर्यापयाम्यहम् ॥११३॥अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ॥वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि ॥११४॥एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्द्धनम् ॥सर्वसंपत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम् ॥११५॥प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांकरम् ॥वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद्बृहस्पतिः ॥११६॥स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ॥वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्याञ्च वर्द्धयेत् ॥११७॥इत्युक्त्वा स महादेवो बालो लिंगे न्यलीयत ॥व्यासोऽपि मुंचन्नश्रूणि शिवप्रेमाकुलोऽभवत् ॥११८॥एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात ॥अष्टादश पुराणानि प्रणिनाय स्वलीलया ॥११९॥ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥१२०॥आग्नेयं ब्रह्मवैवर्त लिंगं वाराहमेव च ॥वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च ॥१२१॥स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् ॥यशस्यं पुण्यदं नॄणां श्रोतॄणां शांकरं यश ॥१२२॥सूत उवाच ॥अष्टादशपुराणानाम्पूर्वं नामोदितन्त्वया ॥कुरु निर्वचनं तेषामिदानीं वेदवित्तम ॥१२३॥व्यास उवाच ॥अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना ॥नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत् ॥१२४॥नन्दिकेश्वर उवाच ॥यत्र वक्ता स्वयन्तण्डे ब्रह्मा साक्षाच्चतुर्मुखः ॥तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने१२५पद्मकल्पस्य माहात्म्यन्तत्र यस्यामुदाहृतम् ॥तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम् ॥१२६॥पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ॥तदेव व्यासकथितं पुत्रपित्रोरभेदतः ॥१२७॥यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु ॥शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च ॥१२८॥भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ॥तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम् ॥१२९॥नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ॥यत्र वक्ताऽभवत्तण्डे मार्कण्डेयो महामुनिः ॥१३०॥मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् ॥अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ॥१३१॥विवर्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते ॥लिंगस्य चरितोक्तत्वात्पुराणं लिंगमुच्यते ॥१३२॥वराहस्य च वाराहं पुराणं द्वादशं मुने ॥यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः ॥१३३॥तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ॥कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम् ॥१३४॥गरुडस्तु स्वयं वक्ता यत्तद्गारुडसंज्ञकम् ॥ब्रह्माण्डचरितोक्तत्वाद्ब्रह्माण्डं परिकीर्तितम् ॥१३५॥सूत उवाच ॥अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते ॥ततः सर्वपुराणानां मया निर्वचनं श्रुतम् ॥१३६॥एवं व्याससमुत्पन्नः सत्यवत्यां पराशरात् ॥पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥१३७॥पराशरेण संयोगः पुनः शन्तनुना यथा ॥सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि ॥१३८॥सकारणेयमुत्पत्तिः कथिताश्चर्य्यकारिणी ॥महतां चरिते चैव गुणा ग्राह्या विचक्षणैः ॥१३९॥इदं रहस्यं परमं यः शृणोति पठत्यपि ॥स सर्वपापनिर्मुक्त ऋषिलोके महीयते ॥१४०॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : October 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP