संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४०

उमासंहिता - अध्यायः ४०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
इत्याकर्ण्य श्राद्धदेवः सूर्यान्वयमनुत्तमम् ॥
पर्य्यपृच्छन्मुनिश्रेष्ठश्शौनकस्सूतमादरात् ॥१॥
शौनक उवाच ॥
सूतसूत चिरंजीव व्यासशिष्य नमोस्तु ते ॥
श्राविता परमा दिव्या कथा परमपावनी ॥२॥
त्वया प्रोक्तः श्राद्धदेवस्सूर्य्यः सद्वंशवर्द्धनः ॥
संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ॥३॥
कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ॥
श्रोतुमिच्छामि तत्प्रीत्या छिंधि मे संशयं त्विमम् ॥४॥
श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ॥
प्रीताश्च पितरो येन श्रेयसा योजयंति तम् ॥५॥
एतच्च श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ॥
कथय त्वं विशेषेण कृपां कुरु महामते ॥६॥
सूत उवाच ॥
वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ॥
मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ॥७॥
गीतं सनत्कुमारेण मार्कण्डेय धीमते ॥
तत्तेऽहं संप्रवक्ष्यामि सर्वकामफलपदम् ॥८॥
युधिष्ठिरेण संपृष्टो भीष्मो धर्मभृतां वरः ॥
शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ॥९॥
युधिष्ठिर उवाच ॥
पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ॥
एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ॥१०॥
 ॥सूत उवाच ॥
युधिष्ठिरेण संपृष्टं प्रश्नं श्रुत्वा स धर्मवित् ॥
भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः ॥११॥
भीष्म उवाच ॥
ये कुर्वंति नराश्श्राद्धान्यपि प्रीत्या युधिष्ठिर ॥
श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ॥१२॥
श्राद्धानि चैव कुर्वन्ति फलकामास्सदा नरा ॥
अभिसंधाय पितरं पितुश्च पितरं तथा ॥१३॥
पितुः पितामहश्चैव त्रिषु पिंडेषु नित्यदा ॥
पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ॥१४॥
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥१५॥
युधिष्ठिर उवाच ॥
वर्तंते पितरः स्वर्गे केषांचिन्नरके पुनः ॥
प्राणिनां नियतं चापि कर्मजं फलमुच्यते ॥१६॥
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥
कथं शक्तास्तमाहर्त्तुं नरकस्था फलं पुनः ॥१७॥
देवा अपि पितॄन्स्वर्गे यजंत इति मे श्रुतम् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ॥१८॥
भीष्म उवाच ॥
अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ॥
पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥१९॥
श्राद्धकाले मम पितुर्मया पिंडस्समुद्यतः ॥
मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥२०॥
नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ॥
कुशेष्वेव ततः पिंडं दत्तवानविचारयन् ॥२१॥
ततः पिता मे संतुष्टो वाचा मधुरया तदा ॥
उवाच भारतश्रेष्ठ प्रीयमाणो मयानघ ॥२२॥
त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ॥
तारितोहं तु जिज्ञासा कृता मे पुरुषोत्तम ॥२३॥
प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ॥
प्रजास्तदनु वर्तंते प्रमाणाचरितं सदा ॥२४॥
शृणु त्वं भारतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ॥
प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ॥२५॥
तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ॥
ददामि त्वं प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम् ॥२६॥
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ॥
त्वत्तोभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता पुनः ॥२७॥
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ॥
तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥२८॥
इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ॥
अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद ॥
प्रश्नं पृच्छामि वै कंचिद्वाच्यस्स भवता स्वयम् ॥२९॥
स मामुवाच तद् ब्रूहि यदीच्छसि ददामि ते ॥
इत्युक्तेथ मया तत्र पृष्टः प्रोवाच तन्नृपः ॥३०॥
शंतनुरुवाच ॥
शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ॥
पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ॥३१॥
यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ॥
मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ॥३२॥
मार्कण्डेय उवाच ॥
शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ॥
विमानं महादायांतमन्तरेण गिरेस्तदा ॥३३॥
तस्मिन्विमाने पर्यक्षं ज्वलितांगारवर्चसम् ॥
महातेजः प्रज्वलंतं निर्विशेषं मनोहरम् ॥३४॥
अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ॥
अंगुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ॥३५॥
सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ॥
अपृच्छं चैव तमहं विद्यामस्त्वां कथं विभो ॥३६॥
मामुवाच धर्मात्मा तेन तद्विद्यते तपः ॥
येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणस्सुतम् ॥३७॥
सनत्कुमारमिति मां विद्धि किं करवाणि ते ॥
ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ॥३८॥
भ्रातरस्सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ॥
वयं तु यतिधर्माणस्संयम्यात्मानमात्मनि ॥३९॥
यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ॥
तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ॥४०॥
यद्भक्त्या ते तपश्चीर्णं मम दर्शनकांक्षया ॥
एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ॥४१॥
इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ॥
पितॄणामादिसर्गं च कथयस्व यथातथम् ॥४२॥
इत्युक्तस्स तु मां प्राह शृणु सर्वं यथातथम् ॥
वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ॥४३॥
सनत्कुमार उवाच ॥
देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ॥
तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ॥४४॥
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ॥
तस्मात्किंचिदजानंतो नष्टसंज्ञाः पितामहम् ॥४५॥
प्रोचुस्तं प्रणतास्सर्वे कुरुष्वानुग्रहं हि नः ॥
इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि ॥४६॥
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥
इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ॥४७॥
प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः ॥
गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ ॥४८॥
अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम् ॥
पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ॥४९॥
ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ॥
शृणुध्वं निर्जरास्सर्वे यूयं न ब्रह्मवादिनः ॥५०॥
तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ॥
मंतव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ॥५१॥
देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ॥
परस्परं महाप्रीत्या सर्वकामफलप्रदा ॥५२॥
सनत्कुमार उवाच ॥
ततस्ते छिन्नसंदेहाः प्रीतिमंतः परस्परम् ॥
बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ॥५३॥
ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम् ॥
तस्माद्भवंतः पितरो भविष्यथ न संशयः ॥५४॥
पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ॥
श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति ॥५५॥
समुद्रं पर्वतवनं जंगमाजंगमैर्वृतम् ॥
श्राद्धानि पुष्टिकामैश्च ये करिष्यंति मानवाः ॥५६॥
तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणितास्सदा ॥
श्राद्धे ये च प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः ॥५७॥
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ॥
भावयिष्यंति सततं श्राद्धदानेन तर्पिताः ॥५८॥
इति तद्वचनं सत्यं भवत्वथ दिवौकसः ॥
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥५९॥
एवं ते पितरो देवा धर्मतः पुत्रतां गताः ॥
अन्योन्यं पितरो वै ते प्रथिताः क्षितिमण्डले ॥६०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP