संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ८

उमासंहिता - अध्यायः ८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


चित्रगुप्त उवाच ॥
भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः ॥
गर्विता रूपवीर्येण परदारावमर्द्दकाः ॥१॥
यस्त्वयं क्रियते कर्म तदिदं भुज्यते पुनः ॥
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥२॥
इदानीं किं प्रलप्यध्वे पीड्यमानास्स्वकर्मभिः ॥
भुज्यंतां स्वानि कर्म्माणि नास्ति दोषो हि कस्यचित् ॥३॥
सनत्कुमार उवाच ॥
एवं ते पृथिवीपालास्संप्राप्तास्तत्समीपतः ॥
स्वकीयैः कर्म्मभिघौरैर्दुष्कर्म्मबलदर्पिणः ॥४॥
तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ॥
संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥५॥
चित्रगुप्त उवाच ॥
भो भो नृपा दुराचाराः प्रजा विध्वंसकारिणः ॥
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥६॥
राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ॥
यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥७॥
क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ॥
तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ॥८॥
पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ॥
यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥९॥
सनत्कुमार उवाच ॥
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ॥
स्वानि कर्माणि शोचंति तूष्णीं तिष्ठंति पार्थिवाः ॥१०॥
इति कर्म्म समुद्दिश्य नृपाणां धर्म्मराड्यमः ॥
तत्पापपंकशुद्ध्यर्थमिदं दूतान्ब्रवीति च ॥११॥
यमराज उवाच ॥
भोभोश्चण्ड महाचंड गृहीत्वा नृपतीन्बलात् ॥
नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥१२॥
सनत्कुमार उवाच ॥
ततश्शीघ्रं समादाय नृपान्संगृह्य पादयोः ॥
भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥
सर्वप्रायेण महतातीव तप्ते शिलातले ॥
आस्फालयंति तरसा वज्रेणेव महाद्रुमान् ॥१४॥
ततस्सरक्तं श्रोत्रेण स्रवते जर्जरीकृतः ॥
निस्संज्ञस्स सदा देही निश्चेष्टस्संप्रजायते ॥१५॥
ततस्स वायुना स्पृष्टस्सतैरुज्जीवितः पुनः ॥
ततः पापविशुद्ध्यर्थं क्षिपंति नरकार्णवे ॥१६॥
अष्टाविंशतिसंख्याभिः क्षित्यधस्सप्तकोटयः ॥
सप्तमस्य तलस्यांते घोरे तमसि संस्थितः ॥१७॥
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ॥
अतिघोरा महाघोरा घोररूपा च पंचमी ॥१८॥
षष्ठी तलातलाख्या च सप्तमी च भयानका ॥
अष्टमी कालरात्रिश्च नवमी च भयोत्कटा ॥१९॥
दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः ॥
चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ॥२०॥
पद्मा पद्मावती भीता भीमा भीषणनायिका ॥
कराला विकराला च वज्राविंशतिमा स्मृता ॥२१॥
त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा ॥
समा भीमबला भोग्रा दीप्तप्रायेति चान्तिमी ॥२२॥
इति ते नामतः प्रोक्ता घोरा नरककोटयः ॥
अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः ॥२३॥
तासां क्रमेण विज्ञेयाः पंच पञ्चैव नायकाः ॥
प्रत्येकं सर्वकोटीनां नामतस्संनिबोधत ॥२४॥
रौरवः प्रथमस्तेषां रुवंते यत्र देहिनः ॥
महारौरवपीडाभिर्महांतोऽपि रुदंति च ॥२५॥
ततश्शीतं तथा चोष्णं पंचाद्या नायकास्स्मृताः ॥
सुघोरस्तु महातीक्ष्णस्तथा संजीवनः स्मृतः ॥२६॥
महातमो विलोमश्च विलोपश्चापि कंटक ॥
तीव्रवेगः करालश्च विकरालः प्रकंपनः ॥२७॥
महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः ॥
सूचीमुखस्सुनेतिश्च खादकस्सुप्रपीडनः ॥२८॥
कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः ॥
अंगारराशिभवनं मेरुरसृक्प्रहितस्ततः ॥२९॥
तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः ॥
तप्तजंतुः पंकलेपः प्रतिमांसस्त्रपूद्भवः ॥३०॥
उच्छ्वासस्सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः ॥
दुरिष्टस्सुमहावादः प्रवादस्सुप्रतापनः ॥३१॥
ततो मेघो वृषः शाल्मस्सिंहव्याघ्रगजाननाः ॥
श्वसूकराजमहिषघूककोकवृकाननाः ॥३२॥
ग्राहकुंभीननक्राख्या स्सर्पकूर्माख्यवायसाः ॥
गृध्रोलूकहलोकाख्याः शार्दूलक्रथकर्कटाः ॥३३॥
मंडूकाः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः ॥
कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ॥३४॥
अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभश्श्वभोजनः ॥
लाला भेक्षांत्रभक्षौ च सर्वभक्षः सुदारुणः ॥३५॥
कंटकस्सुविशालश्च विकटः कटपूतनः ॥
अंबरीषः कटाहश्च कष्टा वैतरणी नदी ॥३६॥
सुतप्तलोहशयन एकपादः प्रपूरणः ॥
असितालवनं घोरमस्थिभंगः सुपूरणः ॥३७॥
विलातसोऽसुयंत्रोऽपि कूटपाशः प्रमर्दनः ॥
महाचूर्ण्णो सुचूर्ण्णोऽपि तप्तलोहमयं तथा ॥३८॥
पर्वतः क्षुरधारा च तथा यमलपर्वतः ॥
मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ॥३९॥
मुसलोलूखलं यन्त्रं शिलाशकटलांगलम् ॥
तालपत्रासिगहनं महाशकटमण्डपम् ॥४०॥
संमोहमस्थिभंगश्च तप्तश्चलमयो गुडम् ॥
बहुदुखं महाक्लेशः कश्मलं समलं मलात् ॥४१॥
हालाहलो विरूपश्च स्वरूपश्च यमानुगः ॥,
एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ॥४२॥
अष्टाविंशतिरित्येते क्रमशः पंचपंचकम् ॥
कोटीनामानुपूर्व्येण पंच पंचैव नायकाः ॥४३॥
रौरवाय प्रबोध्यंते नरकाणां शतं स्मृतम् ॥
चत्वारिंशच्छतं प्रोक्तं महानरकमण्डलम् ॥४४॥
इति ते व्यास संप्रोक्ता नरकस्य स्थितिर्मया ॥
प्रसंख्यानाच्च वैराग्यं शृणु पापगतिं च ताम् ॥४५॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥८

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP