संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ३०

उमासंहिता - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ॥
लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम् ॥१॥
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ॥
धर्मेणैव महात्मा स शतरूपाप्यजायत ॥२॥
सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ॥
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥३॥
स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ॥
तस्यैकसप्ततियुगं मन्वंतरमिहोच्यते ॥४॥
वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ॥
प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥५॥
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ॥
काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः ॥६॥
उत्तानपादोऽजनयत्पुत्राञ्छक्रसमान्प्रभुः ॥
ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम् ॥७॥
धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ॥
उत्पन्ना चापि धर्म्मेण धुवस्य जननी तथा ॥८॥
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ॥
तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥९॥
तस्मै ब्रह्मा ददौ प्रीतस्स्थानमात्मसमं प्रभुः ॥
अचलं चैव पुरतस्सप्तर्षीणां प्रजापतिः ॥१०॥
तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ॥
पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥११॥
रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ॥
रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥१२॥
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ॥
मनोरजायन्त दश नड्वलायां महौजसः ॥१३॥
कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः ॥
पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥१४॥
अग्निष्टोमोऽतिरात्रश्चातिमन्युस्सुयशा दश ॥
पूरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥१५॥
अङ्गं सुमनसं ख्यातिं सृतिमंगिरसं गयम् ॥
अङ्गात्सुनीथा भार्य्या वै वेनमेकमसूयत ॥१६॥
अपचारेण वेनस्य कोपस्तेषां महानभूत् ॥
हुंकारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः ॥१७॥
अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया ॥
सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम् ॥१८॥
वेनस्य पाणौ मथिते संबभूव ततः पृथुः ॥
स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥१९॥
अवतारस्य विष्णोर्हि प्रजापालनहे तवे ॥
धर्मसंरक्षणार्थाय दुष्टानां दंडहेतवे ॥२०॥
पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ॥
राजसूयाभिषिक्तानामाद्यस्स वसुधापतिः ॥२१॥
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥
तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥२२॥
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ॥
मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥२३॥
पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ॥
विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥२४॥
शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ॥
प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः२५॥
समुद्रतनया तेन धर्मतस्सुविवाहिता ॥
रेजेऽधिकतरं राजा कृतदारो महाप्रभुः ॥२६॥
समुद्रतनयायास्तु दश प्राचीनबर्हिषः ॥
बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥२७॥
सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ॥
अपृथग्धर्माचरणास्तेऽतप्यंत महत्तपः ॥२८॥
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥
रुद्रगीतं जपंतश्च शिवध्यानपरायणाः ॥२९॥
तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ॥
अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ॥३०॥
तान्दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ॥
चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः ॥३१॥
प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ॥
वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ॥३२॥
वृक्षक्षयं ततो दृष्ट्वा किंचिच्छेषेषु शाखिषु ॥
उपगम्याब्रवीदेतान्राजा सोमः प्रतापवान् ॥३३॥
सोम उवाच ॥
कोपं यच्छत राजानस्सर्वे प्राचीनबर्हिषः ॥
अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ॥३४॥
भविष्यं जानता सा तु धृता गर्भेण वै मया ॥
भार्य्या वोऽस्तु महाभागास्सोमवंशविवर्द्धिनी ॥३५॥
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥
सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः ॥३६॥
युष्माकं तेजसार्द्धेन मम चानेन तेजसा ॥
ब्रह्मतेजोमयो भूपः प्रजा संवर्द्धयिष्यति ॥३७॥
ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ॥
भार्य्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ॥३८॥
तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ॥
सोऽपि जज्ञे महातेजास्सोमस्यांशेन वै मुने ॥३९॥
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ॥
संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ॥४०॥
वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ॥
उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥४१॥
हर्य्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ॥
ते विरक्ता बभूवुश्च नारदस्योपदेशतः ॥४२॥
तच्छुत्वा स पुनर्दक्षस्सुबलाश्वानजीजनत् ॥
नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया ॥४३॥
तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ॥
नागमन्पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ॥४४॥
तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुस्सहं ददौ ॥
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥४५॥
सांत्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ॥
महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ॥४६॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥४७॥
द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ॥
शिष्टास्सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ॥४८॥
ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ॥
बहवस्तनया ख्यातास्तैस्सर्वैः पूरितं जगत् ॥४९॥
ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ॥
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥५०॥
 ॥शौनक उवाच ॥
अंगुष्ठाद्ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा ॥
कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ॥५१॥
एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ॥
चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ॥५२॥
 ॥सूत उवाच ॥
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ॥
कल्पेकल्पे भवंत्येते सर्वे दक्षादयो मुने ॥५३॥
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ॥
प्रजावानायुषा पूर्णस्स्वर्गलोके महीयते ॥५४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP