संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४६

उमासंहिता - अध्यायः ४६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषिरुवाच ॥
आसीद्रंभासुरो नाम दैत्यवंशशिरोमणिः ॥
तस्माज्जातो महातेजा महिषो नाम दानवः ॥१॥
स संग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ॥
चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥२॥
पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ॥
ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥३॥
तत्र गत्वा सुरास्सर्वे नत्वा शंकरकेशवौ ॥
स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥४॥
भगवन्तौ वयं सर्वे महिषेण दुरात्मना ॥
उज्जासिताश्च स्वर्लोकान्निर्जित्य समरांगणे ॥५॥
भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहि शं क्वचित् ॥
कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥६॥
सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ॥
इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥७॥
एतेषामपरेषां च विधेयं कर्म सोसुरः ॥
स्वयं करोति पापात्मा दैत्यपक्ष भयंकर ॥८॥
तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ॥
वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥९॥
इति देववचः श्रुत्वा दामोदरसतीश्वरौ ॥
चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥१०॥
ततोतिकोपपूर्णस्य विष्णोश्शंभोश्च वक्त्रतः ॥
तथान्येषां च देवानां शरीरान्निर्गतं महः ॥११॥
अतीव महसः पुंजं ज्वलन्तं दशदिक्षु च ॥
अपश्यंस्त्रिदशास्सर्वे दुर्गा ध्यानपरायणाः ॥१२॥
सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ॥
संघीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥१३॥
शंभुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ॥
याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥१४॥
चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत ॥
मध्यमे न्द्रेण जंघोरू वारुणेन बभूवतुः ॥१५॥
भूतेजसा नितंबोभूद्ब्राह्मेण चरणद्वयम् ॥
आर्केण चरणांगुल्यः करांगुल्यश्च वासवात् ॥१६॥
कुबेरतेजसा नासा रदनाश्च प्रजापतेः ॥
पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥१७॥
आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ॥
तेजसां संभवः पद्मालया सा परमेश्वरी ॥१८॥
ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ॥
तामालोक्य सुरास्सर्वे परं हर्षं प्रपेदिरे ॥१९॥
निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ॥
सायुधान्तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥२०॥
ततः शूलं महेशानो महेशान्यै समर्पयत ॥
चक्रं च कृष्णो भगवाञ्च्छंखं पाशं च पाशभृत ॥२१॥
शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ॥
बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥२२॥
यमो ददौ कालदण्डमक्षमालां प्रजापतिः ॥
ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥२३॥
कालः खड्गन्ददौ तस्यै फलकं च समुज्वलम् ॥
क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥२४॥
चूडामणिं कुण्डले च कटकानि तथैव च ॥
अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरो ॥२५॥
ग्रैवेयकमंगुलीषु समस्तास्वंगुलीयकम् ॥
विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥२६॥
अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ॥
सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥२७॥
ददौ सिंहं च हिमवान्रत्नानि विविधानि च ॥
सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ॥२८॥
शेषश्च भोगिनां नेता विचित्रर चनाञ्चितम् ॥
ददौ तस्यै नागहारं नानास्त्रमणिगुंफितम् ॥२९॥
एतैश्चान्यैस्सुरैर्देवी भूषणैरायुधैस्तथा ॥
सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः ॥३०॥
तस्या भीषणनादेन पूरिता च नभःस्थली ॥
प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ॥३१॥
चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह ॥
जयशब्दस्ततो देवैरकारि महिषार्दितैः ॥३२॥
ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् ॥
तुष्टुवुस्ते सुरास्सर्वे भक्तिगद्गदया गिरा ॥३३॥
लोकं संक्षुब्धमालोक्य देवतापरिपन्थिनः ॥
सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ॥३४॥
महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः ॥
स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ॥३५॥
एतस्मिन्नन्तरे तत्र महिषासुरपालिताः ॥
समाजग्मुर्महावीराः कोटिशो धृतहेतयः ॥३६॥
चिक्षुरश्चामरोदग्रौ करालोद्धतबाष्कलाः ॥
ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ॥३७॥
दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः ॥
एते चान्ये च बहवः शूरा युद्धविशा रदाः ॥३८॥
युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः ॥
इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ॥३९॥
अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः ॥
महामायाप्रभावेण विफला अभवन् क्षणात् ॥४०॥
ततो जघान सा देवी चिक्षुरप्रमुखानरीन् ॥
सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ॥४१॥
एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः ॥
देवीनिःश्वाससंभूतान्भावयामास तान्गणान् ॥४२॥
अताडयत्सरैः काश्चित्काश्चिच्छृङ्गद्वयेन च ॥
लांगूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ॥४३॥
इत्थं देवीगणा न्हत्वाभ्यधावत्सोऽसुराधिपः ॥
सिंहं मारयितुन्देव्यास्ततोऽसौ कुपिताऽभवत् ॥४४॥
कोपात्सोपि महावीर्यः खुरकुट्टितभूतलः ॥
शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ॥४५॥
वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः ॥
आकाशतो महीमध्ये निपेतुर्नृपसत्तम ॥४६॥
शृंगभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ॥
लांगूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ॥४७॥
एवं क्रुद्धं समालोक्य महिषासुरमम्बिका ॥
विदधे तद्वधोपायं देवानामभयंकरी ॥४८॥
ततः पाशं समुत्थाय क्षिप्त्वा तस्योपरी श्वरी ॥
बबन्ध महिषं सोऽपि रूपन्तत्याज माहिषम् ॥४९॥
ततः सिंहो बभूवाशु मायावी तच्छिरोम्बिका ॥
यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ॥५०॥
सचर्म्मासिकरं तं च देवी बाणैरताडयत् ॥
ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ॥५१॥
ततोऽस्य च करं देवी चकर्त स्वमहासिना ॥
अधारि च पुना रूपं स्वकीयं तेन रक्षसा ॥५२॥
तदैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥
ततः क्रुद्धा महामाया चण्डिका मानविक्रमा ॥५३॥
पपौ पुनःपुनः पानं जहासोद्भ्रान्तलोचना ॥
जगर्ज चासुरः सोऽपि बलवीर्यमदो द्धतः ॥५४॥
तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः ॥
सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ॥५५॥
वारुणीमद्रसं जातमुखरागाऽऽकुलेन्द्रिया ॥
प्रोवाच परमेशानी मेघगंभीरया गिरा ॥५६॥
 ॥देव्युवाच ॥
रे मूढ रे हतप्रज्ञ व्यर्थ किं कुरुषे हठम् ॥
न मदग्रेऽसुराः केपि स्थास्नवो जगतीत्रये ॥५७॥
ऋषि रुवाच ॥
एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी ॥
पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साऽभिनत् ॥५८॥
ततस्तच्चरणाक्रान्तस्स स्वकीयमुखात्ततः ॥
अर्द्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥५९॥
अर्द्धनिष्क्रान्त एवासौ युध्यमानो महाधमः ॥
महासिना शिरो भित्त्वा न्यपाति धरणीतले ॥६०॥
हाहाशब्दं समुच्चार्य्यावाङ्मुखास्तद्गणास्ततः ॥
पलायन्त रणाद्भीतास्त्राहित्राहीति वादिनः ॥६१॥
तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः ॥
गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ॥६२॥
एवन्ते कथितो राजन्महालक्ष्म्याः समुद्भवः ॥
सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा ॥६३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP