संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ५१

उमासंहिता - अध्यायः ५१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः ॥
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ॥
अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः ॥१॥
उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ॥
प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ॥२॥
सूत उवाच ॥
धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ॥
पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात् ॥३॥
व्यास उवाच ॥
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ॥
उमायाश्श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ॥४॥
कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ॥
प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ॥५॥
सनत्कुमार उवाच ॥
द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ॥
तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ॥६॥
ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ॥
त्रयो मार्गास्समाख्याताः श्रीमातुर्मुक्तिमुक्तिदा ॥७॥
ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ॥
यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥८॥
भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ॥
त्रयाणामपि योगानां क्रियायोगस्स उच्यते ॥९॥
कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥
ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः ॥१०॥
प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ॥
क्रियायोगस्तु योगस्य परमन्ध्येयसाधनम् ॥१ १॥
मायान्तु प्रकृतिं विद्यान्मायावि ब्रह्म शाश्वतम् ॥
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ॥१२॥
यस्तु देव्यालयं कुर्यात्पाषाणन्दारवन्तथा ॥
मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ॥
अहन्यहनियोगेन जयतो यन्महाफलम् ॥१३॥
प्राप्नोति तत्फलन्देव्या यः कारयति मन्दिरम् ॥
सहस्रकुलमागामि व्यतीतं च सहस्रकम् ॥
तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ॥१४॥
कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥
श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ॥१५॥
नदीषु च यथा गंगा शोणः सर्वनदेषु च ॥
क्षमायां च यथा पृथ्वी गांभीर्ये च यथोदधिः ॥१६॥
ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते ॥
तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ॥१७॥
सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद्गृहम् ॥
प्रतिष्ठां समवाप्नोति स च जन्म निजन्मनि ॥१८॥
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ॥
गंगासमुद्रतीरे च नैमिषेऽमरकण्टके ॥१९॥
श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ॥
मथुरायामयोध्यायां द्वारावत्यां तथैव च ॥२०॥
इत्यादि पुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ॥
कारयन्मातुरावासं मुक्तो भवति बन्धनात् ॥२१॥
इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ॥
तावद्वर्षसहस्राणि मणिद्वीपे महीयते ॥२२॥
प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ॥
स उमायाः परं लोकं निर्भयो व्रजति धुवम् ॥२३॥
देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुं ग्रहतारके ॥
कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ॥२४॥
ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ॥
तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ॥२५॥
त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुंगव ॥
तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ॥२६॥
मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ॥
चतुर्द्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ॥२७॥
विष्णोर्नाम्नां कोटिजपाद्ग्रहणेचन्द्रसूर्ययोः ॥
यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम् ॥२८॥
शिवनाम्नो जपादेव तस्मात्कोटि गुणोत्तरम् ॥
श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम् ॥२९॥
देव्याः प्रासादकरणात्पुण्यन्तु समवाप्यते ॥
स्थापिता येन सा देवी जगन्माता त्रयीमयी ॥३०॥
न तस्य दुर्लभं किंचिच्छ्रीमातुः करुणावशात् ॥
वर्द्धते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम् ॥३१॥
मनसा ये चिकीर्षंति मूर्तिस्थापनमुत्तमम् ॥
तेत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम् ॥३२॥
क्रियमाणन्तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ॥
कारयिष्याम्यहं यर्हि संपन्मे संभविष्यति ॥३३॥
एवन्तस्य कुलं सद्यो याति स्वर्गं न संशयः ॥
महामायाप्रभावेण दुर्लभं किं जगत्त्रये ॥३४॥
श्रीपराम्बाजगद्योनिं केवलं ये समाश्रिताः ॥
ते मनुष्या न मन्तव्यास्साक्षाद्देवीगणाश्च ते ॥३५॥
ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ॥
उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः ॥३६॥
नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम् ॥
पुष्पैर्धूपैस्तथादीपैस्ते प्रयास्यन्त्युमालयम् ॥३७॥
ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ॥
उपलिंपन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम् ॥३८॥
यैर्देव्या मन्दिरं रम्यं निर्मापि तमनुत्तमम् ॥
तत्कुलीनाञ्जनान्माता ह्याशिषः संप्रयच्छति ॥३९॥
मदीयाः शतवर्षाणि जीवन्तु प्रेमभाग्जनाः ॥
नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम् ॥४०॥
येन मूर्तिर्म्महादेब्या उमायाः कारिता शुभा ॥
नरायुतन्तत्कुलजं मणिद्वीपे महीयते ॥४१॥
स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च ॥
यंयं प्रार्थयते कामं तंतं प्राप्नोति साधकः ॥४२॥
यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ॥
घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः ॥४३॥
चन्दनागुरुकर्पूर मांसीमुस्तादियुग्जलैः ॥
एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम् ॥४४॥
धूपेनाष्टादशांगेन दद्यादाहुतिमुत्तमाम् ॥
नीराजनं चरेद्देव्या स्साज्यकर्पूरवर्तिभिः ॥४५॥
कृष्णाष्टम्यां नवम्यां वामायां वा पंचदिक्तिथौ ॥
पूजयेज्जगतां धात्रीं गंधपुष्पैर्विशेषतः ॥४६॥
संपठञ्जननीसूक्तं श्रीसूक्तमथ वा पठन् ॥
देवीसूक्तमथो वापि मूकमन्त्रमथापि वा ॥४७॥
विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ॥
देवीप्रीतिकरं ज्ञेयं कमलन्तु विशेषतः ॥४८॥
अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ॥
स याति परमं धाम सिद्धकोटि भिरन्वितम् ॥४९॥
पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम् ॥
प्रसीद परमेशानि जगदानन्ददायिनि ॥५०॥
इति वाक्यैस्स्तुवन्मन्त्री देवीभक्तिपरायणः ॥
ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम् ॥५१॥
इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ॥
नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत् ॥५२॥
नैवेद्यं भक्षयेद्यस्तु शंभुशक्तेः परात्मनः ॥
स निर्भूयाखिलं पङ्कं निर्मलो मानवो भवेत् ॥५३॥
चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ॥
भववन्धननिर्मुक्तः प्राप्नुयात्परमं पदम् ॥५४॥
अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ॥
पूजयेज्जगतां धात्रीमुमां शंकरसंयुताम् ॥५५॥
कुसुमैः कुंकुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ॥
धूपैर्द्दीपैस्सनैवेद्यैः स्रग्गन्धैरपरैरपि ॥५६॥
आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ॥
श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम् ॥५७॥
प्रत्यब्दं कुरुते योस्यां बतमान्दोलनं तथा ॥
नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति ॥५८॥
माधवस्य सिते पक्षे तृतीया याऽक्षयाभिधा ॥
तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः ॥५९॥
मल्लिकामालतीचंपाजपाबन्धूकपंकजैः ॥
कुसुमैः पूजयेद्गौरीं शंकरेण समन्विताम् ॥६०॥
कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ॥
निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते ॥६१॥
ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ॥
योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किंचन ॥६२॥
आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ॥
देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः ॥६३॥
रथं पृथ्वीं विजानीयाद्रथांगे चन्द्रभास्करौ ॥
वेदानश्वान्विजानीयात्सारथिं पद्मसं भवम् ॥६४॥
नानामणिगणाकीर्णं पुष्पमालाविराजितम् ॥
एवं रथं कल्पयित्वा तस्मिन्त्संस्थापयेच्छिवाम् ॥६५॥
लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ॥
रथमध्ये संस्थितेति भावयेन्मतिमान्नरः ॥६६॥
रथे प्रचलिते मन्दं जयशब्दमुदीरयेत् ॥
पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले ॥६७॥
इति वाक्यैस्तोषयेच्च नानावादित्रनिस्वनैः ॥
सीमान्ते तु रथं नीत्वा तत्र संपूजये द्रथे ॥६८॥
नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ॥
प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम् ॥६९॥
एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ॥
इह भुक्त्वाखिलान्भोगान्सोन्ते देवीपदं व्रजेत् ॥७०॥
शुक्लायान्तु तृतीयायामेवं श्रावणभाद्रयोः ॥
यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि ॥७१॥
मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ॥
सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम् ॥७२॥
आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ॥
यत्कृते सकलाः कामास्सिद्ध्यन्त्येव न संशयः ॥७३॥
नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ॥
चतुरास्यो न पंचास्यो न षडास्यो न कोऽपरः ॥७४॥
नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः ॥
हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः ॥७५॥
ध्रुवसंधिसुतो धीमानयोध्याधिपतिर्नृपः ॥
सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः ॥७६॥
व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम् ॥
संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत् ॥७७॥
तृतीयायां च पञ्चम्यां सप्तम्याम ष्टमीतिथौ ॥
नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः ॥७८॥
आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ॥
तस्य सर्वं मनोभीष्टं पूरयत्यनिशं शिवा ॥७९॥
यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ॥
तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत् ॥८०॥
लोहितैः करवीराद्यैः पुष्पैर्धूपैस्सुगन्धितैः ॥
पूजयेन्मङ्गलान्देवीं स सर्वं मंगलं लभेत् ॥८१॥
सौभाग्याय सदा स्त्रीभिः कार्य्यमेतन्महाव्रतम् ॥
विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि ॥८२॥
उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ॥
देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः ॥८३॥
संहितेयं महापुण्या शिवभक्तिविवर्द्धिनी ॥
नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा ॥८४॥
य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥
पठेद्वा पाठयेद्वापि स याति परमां गतिम् ॥८५॥
यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ॥
संपूजिता च विधिवत्सर्वान्कामान्स आप्नुयात् ॥८६॥
भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित ॥
पुत्रपौत्रादिसम्पत्तिं लभत्येव न संशयः ॥८७॥
तस्मादियं महापुण्या रम्योमासंहिता सदा ॥
श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः ॥८८॥
इति श्रीशिव महापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP