संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः १९

उमासंहिता - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
रविचन्द्रमसोर्यावन्मयूखा भासयंति हि ॥
तावत्प्रमाणा पृथिवी भूलोकस्स तु गीयते ॥१॥
भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ॥
योजनानां सहस्राणि सदैव परिसंख्यया ॥२॥
शशिनस्तु प्रमाणाय जगतः परिचक्षते ॥
रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसंख्यया ॥३॥
ग्रहाणां मण्डलं कृत्स्नं शशेरुपरि संस्थितम् ॥
सनक्षत्रं सहस्राणि दशैव परितोपरि ॥४॥
बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम् ॥
बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः ॥५॥
सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ॥
ऋषिभ्य तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ॥६॥
मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥
भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक् ॥७॥
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥
ध्रुवादूर्ध्वं महर्लोकस्सप्तैते ब्रह्मणस्सुताः ॥८॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा ॥९॥
उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः ॥
द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ॥१०॥
द्विलक्षयोजनं तस्मादूर्ध्वं भौमस्स्थितो मुने ॥
द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरु ॥११॥
द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ॥
एते सप्तग्रहाः प्रोक्तास्स्वस्वराशिव्यवस्थिता ॥१२॥
रुद्रलक्षैर्योजनतस्सप्तोर्ध्वमृषयः स्थिताः ॥
विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ॥१३॥
चतुर्गुणोत्तरे चार्द्धे जनलोकात्तपः स्मृतम् ॥
वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ॥१४॥
षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ॥
ब्रह्मलोकः स विज्ञेयो वसंत्यमलचेतसः ॥१५॥
सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः ॥
यद्गामिनोऽथ भूलोकान्निवसंति हि मानवाः ॥१६॥
भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ॥
स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ॥१७॥
विश्वेदेवास्तथा रुद्रास्साध्या नागाः खगादयः ॥
नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ॥१८॥
एते सप्त महालोकाः कालेय कथितास्तव ॥
पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ॥१९॥
दधिवृक्षफलं यद्वद्वृत्तिश्चोर्ध्वमधस्तथा ॥
एतदंडकटाहेन सर्वतो वै समावृतम् ॥२०॥
दशगुणेन पयसा सर्वतस्तत्समावृतम् ॥
वह्निना वायुना चापि नभसा तमसा तथा ॥२१॥
भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ॥
महांतं च समावृत्य प्रधानं पुरुषः स्थितः ॥२२॥
अनंतस्य न तस्यास्ति संख्यापि परमात्मनः ॥
तेनानंत इति ख्यातः प्रमाणं नास्ति वै यतः ॥२३॥
हेतुभूतस्समस्तस्य प्रकृतिस्सा परा मुने ॥
अंडानां तु सहस्राणां सहस्राण्ययुतानि च ॥२४॥
ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ॥
दारुण्यग्निस्तिले तैलं पयस्सु च यथा घृतम् ॥२५॥
तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ॥
आदिबीजात्प्रसुवते ततस्तेभ्यः परेण्डजाः ॥२६॥
तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ॥
महदादयो विशेषांतास्तद्भवंति सुरादयः ॥२७॥
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ॥
सूर्य्यकांतमणेः सूर्य्याद्यद्वद्वह्निः प्रजायते ॥२८॥
तद्वत्संजायते सृष्टिः शिवस्तत्रः न कामयेत् ॥
शिवशक्तिसमायोगे देवाद्याः प्रभवंति हि ॥२९॥
तथा स्वकर्मणैकेन प्ररोहमुपयांति वै ॥
ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ॥३०॥
तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ॥
कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ॥३१॥
व्यास उवाच ॥
सनत्कुमार सर्वज्ञ छिंधि मे संशयं महत् ॥
सन्ति लोका हि ब्रह्मांडादुपरिष्टान्न वा मुने ॥३२॥
सनत्कुमार उवाच ॥
ब्रह्मांडादुपरिष्टाच्च संति लोका मुनीश्वर ॥
ताञ्छृणु त्वं विशेषेण वच्मि तेऽहं समागतः ॥३३॥
विधिलोकात्परो लोको वैकुंठ इति विश्रुतः ॥
विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ॥३४॥
तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ॥
सेनानीः शंभुतनयो राजते यत्र सुप्रभः ॥३५॥
ततः परमुमालोको महादिव्यो विरा जते ॥
यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ॥३६॥
परात्परा हि प्रकृती रजस्सत्त्वतमोमयी ॥
निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ॥३७॥
तस्योपरिष्टाद्विज्ञेयश्शिवलोकस्सनातनः ॥
अविनाशी महादिव्यो महाशोभान्वितस्सदा ॥३८॥
विराजते परं ब्रह्म यत्र शंभुर्महेश्वरः ॥
त्रिदेवजनकस्वामी सर्वेषां त्रिगुणात्परः ॥३९॥
तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ॥
गोमातरस्सुशीलाख्यास्तत्र संति शिवप्रिया ॥४०॥
तत्पालः कृष्णनामा हि राजते शंकराज्ञया ॥
प्रतिष्ठितश्शिवेनैव शक्त्या स्वच्छन्दचारिणा ॥४१॥
शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ॥
अतिनिर्वचनीयश्च नानावस्तुविराजितः ॥४२॥
शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ॥
विष्णुब्रह्महरैस्सेव्यः परमात्मा निरञ्जनः ॥४३॥
इति ते कथिता तात सर्वब्रह्मांडसंस्थितिः ॥
तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि ॥४४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनंनामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP